________________ अधिगरण 585 - अभिधानराजेन्द्रः - भाग 1 अधिगरण ततः प्रहरदिवसाधतिक्रमेण प्रस्तावान्तरमारचय्य गणमध्ये तं भाषते, परं नातिनिष्ठुरम्। कथं तं भाषते ? इत्याह - गणस्स गणिणो चेव, तुमम्मी निग्गते तया। अधिती महती आसी, सो विवक्खो य तज्जितो॥ तदा तस्मिन्काले त्वयि अधिकरणं कृत्वा निर्गत समस्तस्यापि गणस्य, गणिनश्चाचार्यस्य महती अधृतिरासीत्। येन च सह तयाधिकरणमभूत. सोऽपि विपक्षो गणिना गणेन च तर्जितः। गणेण गणिणा चेव, सारेज तमझंपिणो। ताहे अन्नावदेसेण, विवेगो से विहिज्जइ॥ एवमुक्तानन्तरं तत्रत्येन गणेन गणिनाच स सम्यक्सारणीयः शिक्षणीयः, येन स्वदोषं प्रतिपद्य तत्र गत्वा विपक्ष क्षमयति / अथ स तथा सार्यमाणोऽकम्पितो नोपशमं नीतो दुःस्वभावत्वात्-ततोऽन्यापदेशेन तस्य विवेकः परित्यागो विधीयते। केनोपदेशेन ? इत्याहमहाजणो इमो अम्हं,खेत्तं पिन पहुप्पति। वसही सन्निरुद्धावा, वत्थपत्ता वि नत्थि णो॥ अयं साधुसाध्वीलक्षणो महान् जनोऽस्माकमेतावतां न चैतत् क्षेत्र प्रभवति, संकीर्णत्वात्। यदि वा वसतिः सन्निरुद्धा संकटा वर्तते, तत एतावन्तः साधवोऽत्र न मान्ति, अथवा वस्त्रपात्राण्यस्माकं संप्रति न सन्ति / अपिशब्दान्न चात्र तथाविधः शमोऽप्यस्ति, साधयोऽप्येतेऽतीवासहनाः, तस्मात् यूयमन्यत्र क्वापि गच्छत / यदि पुनः स सार्यमाण उपशममधिगच्छति, ततः स वक्ष्यमाणेन विधिनोपशमयितव्यः। तत्र प्रथमतोऽधिकरणोपशमनस्थानमाहसगणिपरगणिणा, समणुण्णेयरेण वा। रहस्सादिव उप्पण्णं, जं जहिं तं तहिं खवे / / स्वगणसक्तेन परगणसक्तेन वा तेनापि समनोज्ञेन सांभोगिकेनेतरेण वा सह रहसि वा, आदिशब्दादरहसि वा; यतो यत्राधिकरणमुत्पन्नं तत्तत्र क्षपयेदुपशमयेत्। तत्रोपशमनविधिमाहएक्को व दो व निग्गम, उप्पण्णं जत्थ तत्थ वोसमणं / गामे गच्छे दु गच्छे, कुलगणसंघे य बिइयपयं // एको वा, द्वौ वा, व शब्दात् त्रयो वा, चत्वारो वा, येऽधिकरणं कृत्वा निर्गतास्ते यत्र ग्रामे नगरे वाऽधिकरणमुत्पन्नं तत्रानीयन्ते, आनीय यैः | सहाधिकरणमभूत्तैः सह व्युपशमनं क्षामणं कार्यम् / तत्पुनरधिकरणमेकस्मिन् गच्छे, यदि वा द्वयोर्गच्छयोः, अथवा कुले, यदि वा गणे यदि वा संघे, समुत्पन्नं स्यात्, (बिइयपदमिति) अत्रापि द्वितीयपदमपवादपदम् / ततो वक्ष्यमाणकारणैर्विकृष्टमपि प्राभृतं वितोषयेत्। ततश्च वितोषणमग्रे भावयिष्यते। साम्प्रतमधिकरणमुत्पन्ने यथोपशमयितव्यं तथा चाऽऽहतं जेत्तिएहि दिटुं, तेत्तियमोत्ताण मेलणं काउं। गिहियाण व साहूण व, पुरतोऽज्जिय दोवि खामंति।। तदधिकरणमुत्पन्नं यावद्भिगृहस्थैः संयतैर्वा दृष्ट तावन्मात्राणां गृहस्थानां साधूनां च मीलनं कृत्वा तेषां पुरतो द्वावपि परस्पर क्षमयतः / कुलादिसमवाये यद्युत्पन्नं, ततः कुलादिसमवायं कृत्वा क्षमयतः / किं कारणम् ? यावन्मात्रैहिभिः संयतैर्वा दृष्टं तावतां मीलनं कृत्वा परस्परं क्षमयतः, तत्राऽऽहनवणीयतुल्लहियया, साहू एवं गिहिणो उ नाहिंति। न य दंडभया साहू, काहिंती तत्थ वोसमणं / / नवनीततुल्यहृदयाः साधवः,एवं गृहिणः, तुशब्दाद-भिनवशैक्षादयश्च ज्ञास्यन्ति / न च दण्डभयात्साधवोऽधिकरणे समुत्पन्ने व्युपशमनं करिष्यन्ति, किं तु कर्मक्षपणाय, एवं ज्ञास्यन्ति, एवंरूपा च प्रतिपत्तिः शुभोदयपरम्पराहेतुः; अतस्तावतां मीलनं कृत्वा परस्परं तौ क्षमयतः। संप्रति यदुक्तं 'बिइयपयमिति' तद्व्याख्यानार्थमाहबितियपदे वितिगिट्टे, वितोसवेज्जा उवद्विते बहुसो। बिइतो जइ न उवसमे, गतो य सो अन्नदेसेसु॥ द्वितीयपदे व्यतिकृष्टान्यपि प्राभृतानि वितोषयेदुपशमयेत् / कथम् ? इत्याह-येन सहाधिकरणं बहुशो बहून वारान् कृतं, तस्योपस्थितस्तं क्षमयति, स च क्षम्यमाणो द्वितीय उपशाम्यति। यदि नोपशमेत् अनुपशान्तश्व गतोऽन्यं देशं ततः - कालेण च उवसंतो, वजिज्जतो व अन्नमन्नेहिं / खीरादिसलद्धीण व, देवय गेलन्न पुट्ठो वा॥ तस्यान्यदेशं गतस्य बहुना कालेन गतेन तस्य कषायाः प्रतनवोऽभवन्, तत उपशान्तः। अथवा- अन्योन्यैः साधुभिः कृताधिकरण एव इति स्थानविवर्ण्यमान एवं स्वचेतसि संकथयति-यथा कषायदोषेणाऽहं स्थाने स्थाने विवय॑मानः, तस्मादलं कषायैरिति पुनरावृत्तिः, अथवा क्षीरादिसलब्धीनां क्षीराश्रवादिलब्धीनामुपदेशतः सममुपगतवान् देवतया शिक्षितः, यदि वा ग्लानत्वेन पृष्ठस्ततश्चिन्तयति- यदि कथमपि साधिकरणोऽप्रियोऽहं, ततः सापराधिको भवामि, तस्मात्तं गत्वोपशमयामि। एवं जातपुनरावृत्तिनायत्कर्तव्यं तदाहगंतुं खामेयव्वो, अहव न गच्छेजिमेहिं दोसेहि। नीयल्लग उवसम्गो, तहियं, वा तस्स होजंत॥ तेन जातपुनरावृत्तिना यत्रोत्पन्नमधिकरणं तत्र गत्वा शमयितव्यः / अथवा- एतैर्वक्ष्यमाणैर्दो रैस्तत्र न गच्छेद्यत्रोत्पन्नमधिकरणम् / कैर्दोषैः ? इत्यत आह-निजकाः स्वजनाः, तस्य तत्र विद्यन्त, ततस्तत्र गतस्य तैरुपसर्गः क्रियते। तथागामो उठ्ठिउ हुजा, अंतर वा जणवतो निण्हवगणं / अन्नं गता न तरई, अहवा गेलन्न पडिचरई॥ यत्र ग्रामेऽधिकरणमुत्पन्नं स ग्राम उत्थित उद्वशीभूतः, अथवा अन्तराज्जनादुत्थितो, यदि वा येन सममधिकरणमजायत, स निह्नवगणं प्रविष्टवान्। अन्यत्र गत इतरो वा ग्लानो जातस्ततोगन्तुंन शक्नोति। अथवा ग्लानं प्रतिचरति। अब्भुञ्जय पडिवज्जे, मिक्खादि अलंभ अंतर तहिं वा।