________________ अधिगरण 582 - अभिधानराजेन्द्रः - भाग 1 अधिगरण एतदेव व्याचष्टेसंजयगणो तदधिवो, गिही तु गामपुरदेसरने वा। एतेसिं चिय अहिवा, एगतरजुओ उभयतो वा॥ संयतगणः प्रतीतः, तेषां संयतानामधिपस्तदधिपः, आचार्य इत्यर्थः / ये गृहिणः स्वग्रामपुरदेशराजवास्तव्याः, एतेषामधिपतयो वा भवेयुः, तत्र ग्रामाधिपतिः, भोगिकाधिपतिः, पुराधिपतिः, श्रेष्ठी, कोट्टपालो, देशाधिपतिर्देशरक्षको देशव्यापृतको वा, राज्याधिपतिमहामन्त्री, राजा वा; एतेषामेकतरेणोभयेन वा युक्तो व्रजति, तत्रेयं प्रायश्चित्तमार्गणातहि वच्चंते गुरुगा, दोसु तु छल्लहुग गहण छग्गुरुगा। उग्गिणपहरण छेदो, मूलं जं जत्थ वा पंथे। संयतगणेन तदधिपेन वा उभयेन वा सहाऽहं व्रजामीति संकल्पेचतुर्लघु / पदभेदमादौ कृत्वा तत्र व्रजतश्चतुर्गुरु, प्रहरणस्य मार्गणायां दर्शने च द्वयोरपि षड्लघु, प्रहरणस्य ग्रहणे षड्गुरु। उदीर्णे प्रहरणे छेदः / प्रहारे दत्ते मूलम् / यद्वा-परितापनादिकं पृथिव्यादिविनाशनं यत्र पथि ग्रामे वा करोति तन्निष्पन्नमपि मन्तव्यम् / तथा गृहस्थवर्गेऽपि ग्रामेण वा, गामाधिपतिना यावद् राज्येन वा, राज्याधिपतिना वा, उभयेन वा, सह व्रजामीति संकल्पे चतुर्गुरु / पथि गच्छतः प्रहरणं च गृह्णतः षड्लघु, गृहीते षड्गुरु; शेष प्राग्वत्। एवं भिक्षोः प्रायश्चित्तमुक्तम्। एसेव गमो नियमा, गणियायरिये य होइ णायव्वो। णवरं पुण णाणत्तं, अणवठ्ठप्पो य पारंची // एष एव गमो नियमाद् गणिन उपाध्यायस्याचार्यस्य, चशब्दाद्गणावच्छे दिकस्य वा मन्तव्यः | नवरं पुनरत्र नानात्वमधस्तादेकैकपदहासेन यत्र भिक्षोर्मूलं, तत्रोपाध्यायस्याऽन-वस्थाप्यम्, आचार्यस्य पाराञ्चिकम्। तपोऽहं च प्रायश्चित्तमित्थं विशेषयितव्यम् - भिक्खुस्स दोहि लहुगा, गणवच्छे गुरुग एगमेगेणं / उवझाए आयरिए, दोहि च गुरुगं च णाणत्तं / / भिक्षोरेतानि प्रायश्चित्तानि द्वाभ्यामपि तपःकालाभ्यां लघुकानि, गणावच्छेदिकस्यैकतरेण तपसा कालेन वा गुरुकाणि, उपाध्यायस्याचार्यस्य च द्वाभ्यामपि तपःकालाभ्यां गुरुकाणि, एतन्नानात्वं विशेषः। काऊण अकाऊण व, उवसंत उवट्टियस्स पच्छित्तं। सुत्तेण उपट्ठवणा, असुत्त रागो वा दोसोवा।। गृहस्थस्य प्रहारादिकमपकारं कृत्वाऽकृत्वा वा यधुपशान्तो निवृत्तः प्रायश्चित्तप्रतिपत्त्यर्थ वाऽऽलोचनाविधानपूर्वकमपुनः करणेनोपस्थितस्तदा प्रायश्चित्तं दातव्यम् / कथम् ? इत्याह-सूत्रेण प्रायश्चित्तं प्रस्थापनीयम्, असूत्रोपदेशेन तु प्रस्थापयतो रागो वा द्वेषो वा भवति / प्रभूतमापन्नस्य स्वल्पदाने रागः / स्तोकमापन्नस्य प्रभूतदाने ददाति, ततो यावता न पूर्यते, तावदात्मना प्राप्नोति। अतः सूत्रेण प्रस्थापना कर्तव्या। यस्तु सूत्रोक्तं प्रायश्चित्तं नेच्छति, स वक्तव्यः- अन्यत्र शोधिं कुरुष्व। एषा नियूँहणा भण्यते। अस्या एव पूर्वार्द्ध व्याचष्टे - जेणऽहियं ऊणं वा, ददाति तावतियमप्पणो पावे। अहवासुत्तादेसा, पावति चउरो अणुग्घाया॥ यत् यावता अधिकमूनं ददाति, तावदात्मना प्राप्नोति / अथवा सूत्रादेशादूनातिरिक्तं ददानश्चतुरोऽनुद्धातान्मासान् प्राप्नोति / तचेदं निशीथदशमोद्देशकान्तर्गतसूत्रम् - जे भिक्खू उग्घाइए अणुग्धाइयं देइ, अणुग्धाइए उग्घाइयं वा देइ, देंतं वा साइज्जइ॥१६| (तस्य चतुर्गुरुकं प्रायश्चित्तमित्यर्थः) अथ द्वितीयपदमाहबितियं उप्पाएउं,सासणपंते असज्झपंच पया। आगाढे कारणम्मी, रायस्संसारिए जतणा॥ द्वितीयपदं नाम अधिकरणमुत्पादयेदपि शासनप्रान्तः प्रवचनप्रत्यनीकोऽसाध्यश्च न यथा, तथा शासितुं शक्यते; ततस्तेन सममधिकरणमुत्पाद्य शिक्षणं कर्त्तव्यम् / तत्र च स्वयमसमर्थः संयतनामनगरदेशराज्यलक्षणानि पञ्चापि पदानि सहायतया गृह्णीयात् / आगाढे कारणे राजसंसारिका राजान्तरस्थापना, तामपि यतनया कुर्यात् / तथाहि-यदि राजा अतीव प्रवचनप्रान्तोऽनुशिष्यादिभिरनुकूलोपायैर्न उपशाम्यति, ततस्तं राजानं स्फेटयित्वा तद्वंशजमन्यवंशजं वा भद्रकं राजानं स्थापयेत्। यश्चतं स्फेटयति, सईदृग्गुणयुक्तो भवतिविजाओरस्सबली, तेयसलद्धी सहायलद्धी वा। उप्पादेउं सासति, अतिपंतं कालगज्जो व्व। यो विद्याबलेन युक्तः, यथा-आर्यखपुटः / औरसेन वा बलेन युक्तः, यथा-बाहुबली। तेजोलब्ध्यावासलब्धिकः, यथा-ब्रह्मदत्तः। संभूतभवे सहायलब्धियुक्तः, यथा- हरिके शबलः / ईदृशोऽधिकरणमुत्पाद्यातिप्रान्तमतीवप्रवचनप्रत्यनीकं शास्ति, कालिकाचार्य इव / यथा कालिकाचार्यो गर्दभिल्लराजानं शासित-वान्। बृ० 4 उ०। कथानकं चेत्थम् - को उ गद्दभिल्लो ? को वा कालगजो ? कम्मि काले सासितो? भण्णति-उज्जेणी णाम णगरी, तत्थ य गद्दभिल्लो णाम राया, तत्थ कालगन्जा णाम आयरिया जोतिसणिमित्तबलिया, ताण भगिणी रूपवती पढमे वयसि वट्टमाणा गद्दभिल्लेण गहिया, अंतेपुरे छूढा, अज्जकालगा विण्णवेंति; संघेण य विण्णत्तो ण मुंचति। ताहे रुट्ठो अजकालगो पइण्णं करेति- जइ गद्दभिल्लं रायाणं रज्जाओ ण उम्मूले मि, तो पवयणसंजमोवधायगाणं तमुवेक्खगाण यगतिं गच्छामि। ताहे कालगजो कयगेण उम्मत्तलीभूतो तिगचउक्कचचरमहाजणट्ठाणेसु इमं पलवंतो हिंडति-जइ गद्दभिल्लो राया, तो किमतः परम् ? जइवा अंतेपुरं रम्म, तो किमतः परम् ? विसंयोजइ वा रम्मो, तो किमतः परम् ? सुणिवेहा पुरी जइ, तो किमतः परम् ? जइ वा जणो सुवेसो, तो किमतः परम् ? जइवा हिंडामि वो भिक्खं, तो किमतः परम् ? जइ सुणे देवकुले वसामि, तो द्वेषः। एवं रागद्वेषाभ्यां प्रायश्चित्तदाने दोषमाहथोवं जति आवण्णो, अतिरेगं देति तस्स तं होति। सुत्तेण उ पट्ठवणा, सुत्तमणिच्छंति निनुहणा।। स्तोकं प्रायश्चित्तमापन्नस्तस्य यावद् व्यतिरिक्तं ददाति, ततो यावता अधिकं तावत्तस्य प्रायश्चित्तदातुःप्रायश्चित्तम, आज्ञादयश्च दोषाः। अथोनं