________________ अधिगरण 581- अभिधानराजेन्द्रः - भाग 1 अधिगरण निष्कास्यते, अस्मदीयं च वचो गुरवो न सुष्ठ शृण्वन्ति; अत आचार्यान् गमयितुं त्वंयुज्यसे-युक्तो भवसि / एवमुक्ते यद्याचार्यं गमयति-क्षामयति, ततो नष्टम् / अथ ब्रूते- पश्यामस्तावत्तं कलहकारिणम् / ततो ज्ञात्वा वस्तुतो गृहस्थस्य भावं किमयं हन्तुकामस्तमानाययति, उत क्षामयितुकामः ? एवमभिप्रायं ज्ञात्वा तस्यायं सुहृत्, अतस्ते असहिता एवतं साधुंतत्र नयन्ति। अथासौ गृही तीव्रकषायतया नोपशाम्यति, ततस्तस्यसा-धोगच्छस्य च रक्षणार्थमयं विधिःवीसुं उवस्सए वा, ठर्वेति पेसेंति फडपतिणो वा। देंति सहाए सव्वे, वि गैति गिहिणे अणुवसंते॥ विष्वगन्यस्मिन्नुपाश्रये तं साधुं स्थापयन्ति, अन्यग्रामे वा यः स्पर्द्धकपतिस्तस्यान्तिके प्रेषयन्ति, निर्गच्छतश्च तस्य सहायान् ददति। अथ मासकल्पः पूर्णस्ततः सर्वेऽपि निर्यान्ति निर्गच्छन्ति / एष गृहस्थेऽनुपशान्ते विधिः! अथ गृहस्थ उपशाम्यति, न साधुस्तदा तस्येदं प्रायश्चित्तम् - अविओसियम्मि लहुगा,मिक्खवियारे स वसहिगामेय / गणसंकमणे भण्णति, इहं पि तत्थेव वचाहि / / अधिकरणे अव्यवशमिते यदि भिक्षां हिण्डते, विचारी वा गच्छति, क्सतेनिर्गत्यापरसाधुवसतिं गच्छति; ग्रामानुग्राम विहरति; सर्वेषु चतुर्लघु / अथापरं गणं संक्रामति, ततस्तैरन्यगण-साधुभिर्भण्यतेइहापि गृहिणः क्रोधनाः सन्ति, ततस्तत्रैव व्रज। इदमेव सुव्यक्तमाहइह वि गिही अविसहणा, ण य वोच्छिण्णा इहं तुहा कसाया। अण्णेसिं आयासं,जणइस्ससि वच तत्थेव।। इहापि ग्रामे गृहिणोअविषहणाः क्रोधनाः,नचेह समागतस्य तव कषाया व्यवच्छिन्नाः / अतोऽन्येषामप्यस्मदादीनामायासं जनयिष्यसि, तस्मात्तत्रैव व्रज। सिट्ठम्मिन संगिज्झति, संकंतम्मि उ अपेसणे लहुगा। गुरुगा अजयणकहणे, एगतरदोसतो जं वा।। अनुपशान्ते साधौ गणान्तरं संक्रान्ते मूलाचार्येण साधुसंघाट-कस्तत्र प्रेषणीयः, तेन च संघाटकेन शिष्टे कथिते सति द्वितीयाचार्यों न संगृह्णीयात्, अथ मूलाचार्यः संघाटकं न प्रेषयति, तदा चतुलघु। संघाटको यद्ययतनया कथयति ततश्चतुर्गुरु। अयतनकथनं नामबहुजनमध्ये गच्छे गत्वा भणति- एष निर्धर्मा गृहिभिः सममधिकरणं कृत्वा समायातः, सकलेनापि गच्छेन नोपशान्तः / एवमयतनया कथितेन साधुरेकतरस्य गृहिणः साधुसंघाटकस्य मूलाचार्यस्य वा प्रद्वेषतो यत्करिष्यति तन्निष्पन्नं प्रायश्चित्तम्। तस्मादयं विधिःउवसामितो गिहत्थो, तुम पि खामेहि एहि वच्चामो। दोसा हु अणुवसंते,ण य सुज्झइ तुज्झ सामाइयं // पूर्वं गुरूणामेकान्ते कथयित्वा ततः स्वयमेकान्तेन भण्यते, उपशामितः सगृहस्थः, एहि व्रजाम, त्वमपितं गृहस्थंक्षामय, अनुपशान्तस्येह परत्र च बहवो दोषाः, समभावः सामायिकम् / तचैवं सकषायस्य भवतो न शुद्ध्यति, न शुद्धं भवति / एवमेकान्ते भणितो यदि नोपशाम्यति, तो गणमध्येऽप्येवमेव भणनीयः। ततोऽपि चेन्नोपशाम्यति, प्रत्युत चेतसि चिन्तयेत्-तस्य गृहिणो निमित्तेनेहाप्यवकाशं न लभे। ततः - तमतिमिरपडलभूतो, पावं चिंतेइ दीहसंसारी। पावं ववसिउकामो, पच्छित्ते मग्गणा होति॥ कृष्णचतुर्दशीरजन्यां द्रव्याभावस्तम उच्यते / तस्यामेव च रात्रौ यदा रजो धूमधूमिका भवति, तदा तमस्तिमिरं भण्यते / यदा पुनस्तस्यामेव रजन्यां रजःप्रभृतयो मेघदुर्दिनं च भवति, तदा तमस्तिमिरपटलमभिधीयते / यथा तत्रैवान्धकारे पुरुषः किञ्चिदपि न पश्यति, एवं यस्तीव्रतीव्रतरतमेन कषायोदयेनाभिभूतो भण्यते, तमःशब्दस्येहोपमार्थवाचकत्वात् / एवंभूतश्चेदपराधे हि तमपश्यन् दीर्घसंसारी तस्य गृहस्थस्योपरि पापमैश्वर्याज्जीविताद्वा भ्रंश-यिष्यामीति रूपं चिन्तयति। एवं च पापं कर्तु व्यवसिते तस्मिन्नियं प्रायश्चित्ते मार्गणा भवति। वचामि वचमाणे, चउरो लहुगा य होति गुरुगाय। "उग्गिण्णम्मि य छेदो, पहरण मूलं च जं तत्थ / / व्रजामितं गृहस्थं व्यपरोपयामीति संकल्पे चतुर्लघवः / पदभेदादारभ्य पथि व्रजतश्चतुर्गुरवः / यदि यष्टिलोष्टादिकं प्रहरणं मार्गयति, तदा षड्लघवः / प्रहरणे लब्धे गृहीते चषड्गुरुवः / उद्गीर्णे प्रहारे छेदः। प्रहारे पतिते यदि न मियते, ततः छेद एव। अथ मृतस्ततो मूलम् / यत् स्वयं परितापनादिकं संभवति, तत्तत्र वक्तव्यम् / एते चापरे दोषाः - तं चेव णिहवेती, बंधणणिच्छुभणकडगमद्दो य। आयरिए गच्छम्मिय, कुलगणसंघे य पत्थारे // स गृहस्थस्तं संयतं वधार्थमागतं दृष्ट्वा कदाचित्तत्रैव निष्ठापयतिव्यापादयति, तं ग्रामनगरादेर्वा निर्धाटयति; कटकमर्दैन वा गृह्णाति / अथवा कटकम रुष्ट एतस्य सर्वमपि गच्छं व्यापादयति, यथा-पालकः स्कन्धकाचार्यगच्छम् / अथवा बन्धननिष्का-सनादिकमाचार्यस्य अपरगच्छस्य वा करोति। तथा कुलसमवायं कृत्वा कुलस्य बन्धादिकं कुर्यात्। एवं गणस्य वा, संघस्य वा, एष प्रस्तारः / एवमेकाकिनो व्रजत आरोपणा दोषाश्च भणिताः। अथ सहायसहितस्याऽऽरोपणामाहसंजतगणो गिहगणो, गामे नगरे व देसरजे य। अहिवतिरायकुलम्मिय, जा जहिं आरोवणा भणिया / / बहवः संयताः संयतगणः, तं सहायं गृह्णाति, एवं गृहगणं वा सहायं गृह्णाति / स च गृहगणो ग्रामं वा नगरं वा देशं वा राज्य वा भवेद् : ग्रामादिवास्तव्यजनसमुदाय इत्यर्थः / एतेषां चाऽसंयतादीनां, येऽधिपतयः, तान् वा सहायत्वेन गृह्णाति / अन्यद्वा राजकुलं गृहीत्वा गच्छति। यथा- कालिकाचार्येण त्रिक-राजवृन्दम्; तत्र चैकाकिनो या यत्र संकल्पादेवारोपणा भणिता, सा चेहापि द्रष्टव्या