________________ अधिगरण ५८०-अभिधानराजेन्द्रः-भाग 1 अधिगरण कृतात्पापात्तदा मुच्यते, यदात्मनो विशोधिर्भवति। तत आह-आत्मानं विशोधयेत् पापमलस्फोटनतो निर्मलीकुर्यात् / विशुद्धिः पुनः पुनः करणतायामुपपद्यते। ततस्तामेवाऽऽह- अकरणता अकरणीयता, तया अभ्युत्तिष्ठेत् / पुनरकरणतया अभ्युत्थानेऽपि विशोधिः प्रायश्चित्तप्रतिपत्त्या भवति / तत आह- यथार्ह यथायोग्यं तपःकर्म प्रायश्चित्तं प्रतिपद्यते / तच्च प्रायश्चितमाचार्येण श्रुतेन श्रुतानुसारेण यदि प्रस्थापितं प्रदत्तं, तदा आदातव्यं ग्राह्यं स्याद्भवेत् / अथ श्रुतेन न प्रस्थापितं, तदा नादातव्यं स्यात् / स चाऽऽलोचको यदि श्रुतेन प्रस्थाप्यमानमपि तत्प्रायश्चित्तं नाददाति, न प्रतिपद्यते , ततः स निच्छूहि तव्यः, अन्यत्र शोधिं कुरुष्वेति निषेधनीयः स्यात् / इति सूत्रार्थः / अथभाष्यविस्तरःअवियत्त कुलपवेसे, अइभूमि अणेसणिज्जपडिसेहे। अवहारमंगलुत्तर-सभावअवियत्तमिच्छत्ते॥ अविदितभूमिस्थाने कथमधिकरणमुत्पन्नम् ? इत्यस्यां जिज्ञासायामभिधीयते-कस्मिँश्चित् कुले साधवः प्रविशन्तोऽप्रीतिकरास्तत्राजानतामनाभोगाद्वा प्रवेशे गृहपतिराक्रोशेद् वा, हन्याद् वा, साधुरप्यसहमानः प्रत्याक्रोशेत; ततोऽधिकरणमुत्पद्यते। एवमतिभूमि प्रविष्ट अनेषणीयभिक्षाया वा प्रतिषेधे, शैक्षस्य वा संज्ञातकस्यापहारे, यात्राप्रस्थितस्य वा गृहिणः साधुं दृष्ट्वा अमङ्गलमिति प्रतिपत्तौ समयविचारेण वा प्रत्युत्तरं दातुमसमर्थो गृहस्थस्वभावेन वा क्वापि साधौ (अवियत्ते) अनिष्ट दृष्ट अभिग्रहमिथ्यादृष्टा सामान्यतः साधाववलोकिते अधिकरण-मुत्पद्यते। पडिसेघे पडिसेघो, भिक्खुवियारे विहारे गामे व। दोसा मा होज्ज बहु, तम्हा आलोयणा सोधी॥ भगवद्भिः प्रतिषिद्धंन वर्ततेसाधूनामधिकरणं, कुर्तुम्, एवं विधिप्रतिषेधे भूयः प्रतिषेधः क्रियते। कदाचित्तदधिकरणं गृहिणा समं कृतं भवेत्, कृत्वा च तस्मिन्ननुपशमिते भिक्षायां न हिण्डनीयम्, विचारभूमी विहारभूमौ वा न गन्तव्यम्, ग्रामानुग्रामं न विहर्त्तव्यम्। कुतः? इत्याहमाबहवो बन्धनकण्टकमर्दनादयोदोषा भवेयुः। तस्मात्तं गृहस्थमुपशमय्य गुरूणामन्तिके आलोचना दातव्या। ततः शोधिः प्रतीच्छनीया। इदमेव भावयतिअहिकरण गिहत्थेहि, ओसारण कवणा य आगमणं। आलोयण पत्थवणं, अणेसणे हों ति चउ लहुगा / / गृहस्थैः सममधिकरणे उत्पन्ने द्वितीयेन साधुनातस्य साधो-रपसारणं कर्तव्यम् / अथ नापसरति ततो बाहौ गृहीत्वा आकर्ष-णीयः / इदं च वक्तव्यम्-न वर्तते मम त्वया साधिकरणेन समं भिक्षामटितुम् / अतिप्रतिश्रये परिनिवर्तामहे / एवमुक्त्वा प्रतिश्रयमागत्य गुरूणामालोचनीयम्। ततोगुरूभिरुपशमनार्थं वृषभास्तस्य गृहस्थस्य मूले प्रेषणीयाः। यदि न प्रेषयन्ति, तदा चतुर्लघु! आणादिणो य दोसा, बंधणणिच्छुभणकडगमादाय। वुग्गाहण सत्थेणं, अगणुवकरणं विसं वारे // आज्ञादयश्च दोषाः / स च गृहस्थो येन साधुना सहाधिकरणं ज्ञातं | तस्यानेकेषां वा साधूनां बन्धनं निष्कासनं वा कुर्यात् / कटकमादाय सर्वानपि साधून कोऽपि व्यपरोपयेत् / व्युद्ग्राहणं वा लोकस्य कुर्यात् / नास्त्यमीषां दत्ते परलोकफलम्, यद्वाऽमी संज्ञां व्युत्सृज्य विकिरन्ति, नच निर्लेपयन्ति, खड्गादिना वा शस्त्रेण साधुना हन्यात्। अनिकायेन वा प्रतिश्रयं दहेत्। उपकरणं वा अपहरेत्, विषं गरादिकं या दद्यात्, भिक्षां वा दारयेत्। तच वारणमेतेषु स्थानेषु कारयेत् - रज्जे देसे गामे, णिवेसणे गिहे निवारणं कुणति। जा तेण विणा हाणी, कुलगणसंघे च पच्छारो।' राज्ये सकलेऽपि निवारणं कारयेत् / एतेषां भक्तमुपछि वसतिं वा मा दद्यात्। एवं देशे, ग्रामे, निवेशने, गृहे वा, निवारणं करोति। ततो या तेन भक्तादिना विना परिहाणिस्तां वृषभानप्रेषयन् गुरुः प्राप्नोति / अथवा यः प्रभवति, स कुलस्य गणस्य सङ्घस्य वा प्रस्तारं विस्तरेण विनाश कुर्यात्। एयस्स णत्थि दोसो, अपरिक्खिय दिक्खगस्स अह दोसो। पभु कुजा पच्छारं, अपभू वा कारणे पभुणा / / गृहस्थः चिन्तयति-एतस्य साधो स्ति दोषः, किं तु य एनमपरीक्ष्य दीक्षितवान् तस्याऽयं दोषः / अतस्तमेव घातयामीति विचिन्त्य प्रभुः स्वयमेव प्रस्तारं कुर्यात्। अप्रभुरपि द्रव्यं राजकुले दत्त्वा प्रभुणा कारयेत्। यतएतेदोषाःतम्हा खलु पट्ठवणं, पुव् िवसमा समं च वसभेहिं। अणुलोमण पेच्छामो, णिति अणिच्छंपितं वसमा॥ तस्माद् वृषभाणां तत्र स्थापनं कर्त्तव्यम् / (पुद्दिति) येन साधुना अधिकरणं कृतं, तावन्न प्रेषयन्ति, यावद् वृषभान् पूर्वं प्रज्ञापयन्ति। किं कारणम् ? उच्यते-सगृहस्थः तं दृष्ट्वा कदाचिदाहन्यात्। अथ ज्ञायते, न हनिष्यति, ततो वृषभैः समं तमपि प्रेषयन्ति / तत्र गताश्चानुकूलवचोभिरनुलोमं प्रगुणीकरणं तस्य कुर्वन्ति। अथासौ गृहस्थो ब्रूयात्-आनयत तावत्तं कलहकारिणं येनैकवारं पश्यामः, पश्चात् क्षमिष्ये / न च ततो वृषभास्तदभिप्रायं ज्ञात्वा तं साधुं गृहिणः समीपमानयन्ति / अथासौ साधुर्नेच्छति, ततो बलादपि वृषभास्तं तत्र नयन्ति / तेच वृषभाईदृशगुणयुक्ताः प्रस्थाप्यन्तेतस्संबंधि सुही वा, पगया ओयस्सिणो गहियवक्का। तस्सेव सुहीसहिया, गर्मेति वसभा तगं पुव्वं / / तस्य गृहिणः, संयतस्य वा संबन्धिनः सुहृदो वा ते भवेयुः प्रगता लोकप्रसिद्धाः, ओजस्विनो बलीयांसः, गृहीतवाक्या आदे-यवचसः, ईदृशा वृषभाः, तस्यैव गृहिणः सुहृद्भिः सहिताः तकंगृहस्थं पूर्व गमयन्ति। / कथम् ? इत्याहसो निच्छुब्मति साहू, आयरिए तं च जुज्जसि गमेत्तुं / नाऊण वत्थुभावं, तस्स जदी णिति गिहिसहिया। येन साधुना त्वया सह कलहितं, स साधुराचार्य : साम्प्रतं