________________ अधिगरण 579 - अभिधानराजेन्द्रः - भाग 1 अधिगरण - लभ्यन्ते / एवमुत्तस्त्रापि गुणकारभागाहारप्रयोगेण स्वबुद्ध्योपयुज्यमासा आनेतव्याः / परगणे संक्रान्तस्य भिक्षोर्दशकेन छेदेन छिद्यमानस्य पर्यायस्य पक्षेण पञ्च मासाश्छिद्यन्ते, दशके नैव छे देनाष्टभिः पक्षश्चत्वारिंशन्मा-साश्छिद्यन्ते, एवं भिक्षोरुक्तम्। उपाध्यायस्य पुनरिदम्पंच उ मासा पक्खे, अट्ठहिँ मासा हवंति चत्ताउ। अद्धट्टमास पक्खे, अट्ठहिँ सट्ठी भवे गणिणो / / उपाध्यायस्यापि स्वगणे दशकेन छेदेन पक्षेण पञ्च मासाः, अष्टभिः पक्षैर्गुणिताश्चत्वारिंशन्मासाः छिद्यन्ते, तस्यैव परगणे पञ्चदशकेन छेदेनार्ड्सष्टममासाः पक्षण छिद्यन्ते / परगणे त एवाऽष्टभिः पक्षैर्गुणिताः षष्टिर्मासा गणिनश्छिद्यन्ते। अद्धभट्टमास पक्खे, अट्ठहि मासा हवंति सट्ठीतु। दस मासा पक्खेणं, अट्ठहिँऽसीती उ आयरिए।। आचार्यस्य स्वगणे संक्रान्तस्य पञ्चदशकेन छेदेन छिद्यमाने पर्याय पक्षणार्धाष्टममासा अष्टभिः पक्षैर्गुणिताः षष्टिर्मासाश्छिद्यन्ते / तस्यैव परगणसंक्रान्तस्य विंशेन छेदेन पक्षेण दश मासा अष्टभिः पक्षरशीतिर्भासाश्छिद्यन्ते। एवं स्वगणे परगणे च सांभोगिकेषु संक्रान्तस्य छेदसंवलनाऽभिहिता / अन्यसांभोगिकेषु अवसन्नेषु च संक्रान्तस्य भिक्षोरुपाध्यास्याचार्यस्य वाऽनयैव दिशा छेदसंकलना कर्तव्या। एसा विही उ निग्गएँ, सगणे चत्तारिमास उक्कोसा। चत्तारि परगणम्मी, तेण परं मूल निच्छुमणं // एष विधिर्गच्छान्निर्गतस्योक्तः। अथ च स्वगणे अष्टसु स्पर्द्धकेषु पक्षे पक्षे संचरतश्चत्वारो मासा उत्कर्षतो भवन्ति। परगणेऽप्वेवं चत्वारो मासाः। एवमप्येष्वपि चत्वारो मासाः। ततः परं यद्युपशान्तस्ततो मूलम् / अथ नोपशान्तस्तदा निष्कासनं कर्तव्यम्; लिङ्गमपहरणीयमित्यर्थः / चोएइ रागदोसे, सगणे थोवं इमं तु नाणत्तं / पंतावण निच्छुमणं, परकुलघरघोडिए ण गया। शिष्यः प्रेरयति-रागद्वेषिणो यूयं,यत्स्व गणेस्तोकं छेदप्रायश्चित्तं दत्तम्, परगणे तु प्रभृतम् / एवं स्वगणे भवतां रागः, परगणे द्वेषः / गुरुराह-इदं छेदनानात्वं कुर्वतो वयं न रागद्वेषिणः। तथा चात्र दृष्टान्तःएगस्स गिहिणो चउरो भजाओ। ततो यतेण कम्हि एगे सरिसे अवराहे कते पंतता णीह मम गिहाओ ति निच्छुढा तत्थेगा कम्हि इयरघरम्मि गया, बिझ्या कुलघरं, ततिया भत्तुणो एगसरीरो घोडिओ त्ति वयंसो, तस्स घरं गया, चउत्थी निच्छुमंती वि बारसहाए लग्गा हण्णमाणी वि न गच्छइ, भणइ य-कतोणं वचामि? नत्थिमे अन्नो गइविसओ,जइ विमारेहि, तदा वि तुमं चेव गती सरणं त्ति तत्थेव ठिया। के नापि गृहिणा चतसृणां भार्याणां प्रतापन (प्रताडन)कुट्टन कृत्वा गृहान्निष्कासनं कृतं तत्रैका परगृहम, द्वितीया कुलगृहम, तृतीया घोटिको मित्रं, तद्गृहं गता, चतुर्थी तु न क्वापि गता। तओ तुटेण चउत्थी घरसामिणी कया। तइयाए घोडियघरं जंतीए सो चेव अणुवत्तितो विगतरोसेण खरंटिता, आणीता य। बितियाए कुलघरं जंतीए जं पिउगिहवलं गहियं गाढतरं रुद्रुण अन्नेहिं मणिएहिं विगतरोसेण खरंटिता, दंडिया य। पढमा दूरे णद्वेत्तिनताए किंविपओयणं,महंतेण वा पच्छित्तदंडेण दंडिउं आणिज्जइ / एवं परसंहाणिया ओसन्ना, कुलघरसंठाणिया अन्नसंभोइया,घोडियसमासंभोइया, अनिग्गमे सघरसमा गच्छे जाव दूरंतरं ताव महत्तरो डंडो भवइ / बृ०५ उ०। (11) गृहस्थैः सहाधिकरणं कृत्वाऽव्यवशमय्य पिण्डग्रहणादिन कार्यम्मिक्खू य अहिकरणं कडुत्तं अहिगरणं अविओसमित्ता ना से कप्पइ गाहावइकुनं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तएवा, बहिया वियारभूमि वा विहारभूमिंदा निक्खमित्तए वा, पविसत्तए वा, गामाणुगामं वा दूइज्जत्तए गणातो वा गणं संकमित्तए वा, वासावासं वा वत्थु, जत्थेव अप्पणाऽऽयरियउवज्झायं पासेञ्जा, बहुस्सुयं बज्झागमं तस्संतिए आलोइजा, पडिक्कमिजा, निदिजा, गरहिज्जा, विगुट्टेजा, विसोहेज्जा, अकरणयाए अब्भुटेजा, अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जेज्जा, से य सुएण पट्टविए आदिइतव्वे सिया, से य सुएण नो पट्टविए नो आदिइतव्वे सिया, से य सुएण पट्टवेजमाणे नो आईया स निच्छूहियध्वं सिया। अस्य संबन्धमाहकेण कयं कीस कयं, निच्छुभओ एस किं इहाणेति ? एसो वि गिही तुदितो, करेज कलह असहमाणो।। केनेदं वहनं काष्ठानयनं कृतं, कस्मादेतत् कृतं, निष्कासितोऽप्येष किमर्थमिहानयति, एवमादिभिर्वचोभिर्गृहिणा तुदितो व्यथितः कश्चिदसहमानः कलहं कुर्यात्। अत इदमधिकरणसूत्रमारभ्यते। अनेन संबन्धेनायातस्यास्य व्याख्या-भिक्षुः प्रागुक्तः, चशब्दा दुपाध्यायादिपरिग्रहः / अधिकरणं कलहं कृत्वा नो कल्पते तस्य तदधिकरणमव्यवशमय्य गृहपतिकुलं भक्ताय वा पानाय वा निष्कसितुं वा, प्रवेष्टु वा, ग्रामानुग्रामं वा गन्तुं विहर्तु, गणाद्वा गणं संक्रमितुं, वर्षावासं वा वस्तुं, किंतु यत्रैवात्मन आचार्योपाध्यायं पश्येत्। कथंभूतम् ? बहुश्रुतं छेदग्रन्थादिकुशलम् / बागमं अर्थतः प्रभूतागमम्, तत्र तस्यान्तिके आलोचयेत् / स्वापराधं वचसा प्रकटयेत्, प्रतिक्रामेत् मिथ्यादुःष्कृतं तद्विषये दद्यात्। निन्द्याद् आत्मसाक्षिकं जुगुप्सेत, गर्हेत गुरुसाक्षिकं निन्द्यात् / इह च निन्दनं गर्हणं वा तात्त्विकं तदा भवति, यदा तत्करणतः प्रतिनि-वर्तते।तत आह-व्यावर्तेत तस्मादपराधपदान्निवर्तेत, व्यावृत्तावपि