________________ अधिगरण 578 - अभिधानराजेन्द्रः - भाग 1 अधिगरण अथवा येन भक्तार्थनादिना पदेन गच्छान्निर्गतः, ततो द्वितीयपदमन्यगणे गतस्य प्रारभ्यते / यथा- गच्छाद्भक्तार्थेन पदेन निर्गतः, ततोऽन्यं गणं गतेन तेन समंगणोन भुङ्क्ते, स्वाध्यायं पुनः करोति। एवं स्वाध्यायपदेन निर्गतस्य वन्दनं करोति / वन्दनपदेन निर्गतस्यालापं करोति / आलापपदेन निर्गतस्य परगच्छश्चतुर्भिरपि पदैः परिहारं करोति / 'भिक्खुगणायरियाणं' इत्यादिना तु त्रयाणामप्यन्त्यप्रायश्चित्तानि गृहीतानि / बृ० 5 त्त० / नि० चू० / (द्वितीयपदं कारणे सत्युत्पादयेदित्यधिकारेऽनुपदमेव वक्ष्यते) (10) खरपरुषाणि भणित्वा गच्छान्निर्गच्छतो विधिःयद्यधिकरणं कृत्वा प्रज्ञापितोऽपि नोपशाम्यति, ‘स किं करोति ? इत्याहखरफरुसनिट्ठराइं,अह सो भणिउं अभाणियव्वाई। निग्गमण कलुसहियए, सगणे अट्ठा परगणे य॥ अथासौ खरपरुषनिष्ठुराणि अभणितव्यानि वचनानि भणित्वा कलुषितहृदयः स्वगच्छान्निर्गमनं करोति, ततो निर्गतस्य तस्य स्वगणे परगणे च प्रत्येकमष्टौ स्पर्द्धकानि वक्ष्यमाणानि भवन्ति / खरपरुषनिष्ठुरपदानि व्याख्यातिउद्धं सरोस भणियं, हिंसग-मम्मवयण खरं तं तु। अक्कोस णिरुवचारिं, तमसचं पिठुरं होति॥ ऊर्ध्वं महता स्वरेण सरोषं यद्भणितं-हिंसकं मर्मघट्टनवचनं वा, तत्तु खरं मन्तव्यम् / जकारमकारादिकं यदाक्रोशवचनं यच्च निरुपचारि विनयोपचाररहितं, तत्परुषम् / यदसत्यं सभाया अयोग्यं, कस्त्वमित्यादिकं, तद् निष्ठुर भण्यते। ईदृशानि भणित्वा गच्छान्निर्गतस्याचार्यः प्रायश्चित्तविभाग दर्शयितुकाम इदमाहअट्ठऽटअद्धमासा, मासा होतऽटअट्ठसु पयारो। वासासु अ संचरणं,ण चेव इयरे वि पेसंति॥ स्वे गणे यान्याचार्यसत्कान्यष्टौ स्पर्द्धकानि, तेषु पक्षे अप-रापरस्मिन् स्पर्द्धके संचरतो अष्टावर्द्धमासा भवन्ति! परगणमध्ये-ऽप्यष्टसुस्पर्द्धकेषु पक्षे पक्षे संचरतो अष्टावर्द्धमासाः। एवमुभयेऽपि मीलिता अष्टौ मासा भवन्ति, अष्टसु च ऋतुबद्धमासेषु साधूनां प्रचारो विहारो भवतीतिकृत्वा अष्टग्रहणं कृतम् / वर्षासु चतुरो मासान् तस्याधिकरणकारिणः साधोः संचरणं नास्ति वर्षाकाल इतिकृत्वा इतरेऽपि येषां स्पर्द्धकेषु संक्रान्तस्तेऽपितं प्रज्ञाप्य वर्षावास इतिकृत्वा यतो गणादागतस्तत्र न प्रेषयन्ति; तत्र यानि स्वगणे अष्टौ स्पर्द्धकानि, तेषु संक्रान्तस्य तैः स्वाध्याय-भिक्षाभोजनप्रतिक्रमणवेलासु प्रत्येकं सारणा कर्तव्या / 'आर्य ! उपशमं कुरु' यद्येवं न सारयन्ति, ततो मासगुरुकम्। तस्य पुनरनुपशाम्यत इदं प्रायश्चित्तम्सगणम्मि पंच राई-दियाणि दस परगणे मणुण्णेसुं। अण्णेसु होइ पण्णरस, वीसा तु गयस्स ओसण्णो॥ . स्वगणे स्पर्द्धकेषु संक्रान्तस्यानुपशाम्यतो दिवसे दिवसे पञ्चरात्रिंदिवश्छेदः, परगणे मनोज्ञेषु सांभोगिकेषु संक्रान्तस्य दशरात्रिंदिवः; अन्यसांभोगिकेषु संक्रान्तस्य दशरात्रिंदिवः, अन्यसांभोगेषु पञ्चदशरात्रिंदिवः / अवसन्नेषु गतस्य विंशतिरात्रिंदिवश्छेदः / एवं भिक्षोरुक्तम्। अथोपाध्यायाऽऽचार्ययोरुच्यतेएमेव य होइगणी, दसदिवसादी भिण्णमासंते। पण्णरसादी तु गुरू, चउसु वि ठाणेसु मासंते // एवमेव गणिन उपाध्यायस्यापि अधिकरणं कृत्वा पर-गणसंक्रान्तस्य मन्तव्यम् / नवरं दशरात्रिंदिवमादौ कृत्वा भिन्नमासान्तस्तस्य छेदः / एवमेव गुरोरप्याचार्यस्य चतुषु स्वगणपरगणे सांभोगिकान्यसांभोगिकावसन्नेषु पञ्चदशरात्रिं-दिवादिको मासिकान्तश्छेदः / एतत्पुरुषाणां स्वगणादिस्थान-विभागेन प्रायश्चित्तमुक्तम्। अथ तथैव स्थानेषु पुरुषविभागेन प्रायश्चित्तमाहसगणम्मि पंचराइं-दियाइ भिक्खुस्स तदिवस छेदो। दस होइ अहोरत्ता, गणिआयरिए व पण्णरसा।। स्वगणे संक्रान्तस्य भिक्षोस्तदिवसादारभ्य दिने दिने पञ्चरात्रिदिवश्छेदः / गणिन उपाध्यायस्य दशरात्रि दिवः / आचार्यस्य पञ्चदशरात्रिंदिवः। अण्णगणे भिक्खुस्स य, दस राइंदिया भवे छेदो। पण्णरस अहोरत्ता,गणिआयरिए भवे वीसा।। अन्यगणे सांभोगिकेषु संक्रान्तस्य भिक्षोर्दशरात्रिंदिवश्छेदः / उपाध्यायस्य पञ्चदशरात्रिंदिवः / आचार्यस्य विंशतिरात्रिंदिवः'। एवमन्यसांभोगिकेषु अवसन्नेषु च प्रागुक्तानुसारेण नेयम्। बृ०५ उ०। एवं एकेक्कदिणं, हवेतु ठवणा दिणे वि एमेव। चेइयवंदणसारिएँ, तम्मिव काले तिमासगुरू॥२१८|| पासत्थादिगयस्स य, वीसं राइंदियाइँ भिक्खुस्स। पणवीस उवज्झाए, गणिआयरिए भवे मासो।।२१९।। गणस्य गणे वा आचार्यः, अधवा-गणित्वमाचार्यत्वं च यस्यास्त्यसो गणिआयरिओ। नि० चू० 10 उ० अथैवं प्रतिदिन छिद्यमाने पर्याये पक्षण कियन्तो मासा अमीषां छिद्यन्ते ? इति जिज्ञासायां छेदसंकल्पनामाह अड्डाइजा मासा, अहहि मासा हवंति वीसं तु। पंच उमासा पक्खे, अट्ठहि चत्ताउ मिक्खुस्स। स्वगणासंक्रान्तस्य भिक्षोः प्रतिदिनं पञ्चकच्छेदेन छिद्यमानस्य पर्यायस्य पक्षेणार्द्धतृतीया मासाः छिद्यन्ते / तथाहि- पक्षे पञ्चदश दिनानि भवन्ति, तैः पञ्च गुण्यन्ते, जाता पञ्चसप्ततिः। तस्या मासानयनाय त्रिंशता भागे हृते अर्द्धतृतीयमासा लभ्यन्ते, स्वगणे चाष्टौ स्पर्द्धकानि, तेषु पक्षे पक्षे संचरतः पञ्चकच्छेदेन विंशतिर्मासाश्छिद्यन्ते / तथाहि- पञ्चदशाष्टभिर्गुणिता जातं विंशोत्तरं शतम्, तदपि पञ्चभिर्गुणितं जातानि षट्शतानि। तेषां त्रिंशता भागे हृते विंशतिर्मासा