________________ अधिगरण 577 - अभिधानराजेन्द्रः-भाग 1 अधिगरण प्रतिक्रान्ते समाप्ते आवश्यके यदि नोपशान्तः, ततो मूलम्। (पडिक्कमंते व ति) अथ प्रतिक्रमणे प्रारब्धे यावत् सांवत्सरिको महाकायोत्सर्गः, तावदधिकरणे कृते मूलमेव केवलं, न शेषाणि प्रायश्चित्तानि। संवच्छरं च रुटुं, आयरिओ रक्खए पयत्तेणं। जदिणाम उवसमेजा, पव्वयराईसरिसरोसो।। एवमाचार्यस्तं रुष्ट संवत्सरंयावत्प्रयत्नेनरक्षति। किमर्थम् ? इत्याहयदि नाम कथञ्चिदुपशाम्येत / अथ संवत्सरेणापि नोपशाम्यति, ततः पर्वतराजीसदृशरोषः स मन्तव्यः। / तस्य वर्षादूज़ को विधिः? इत्याहअण्णे दो आयरिया, एक्कक्कं वरिसमुवेयस्स। तेण परं गिहिए सो, वितियपदे रायपव्वइए। तं वर्षादूर्ध्व मूलाचार्यसमीपान्निर्गतमन्यौ द्वावाचार्यो क्रमेणैकेकं वर्षमेतेनैव विधिना प्रयत्नेनसंरक्षतः, तन्मध्याद्येनोपश-मितस्तस्यैवासौ शिष्यः / ततः परं वर्षत्रयादूर्ध्वमेष गृहीक्रियते सङ्घ स्तदीयं लिङ्ग मपाकरोतीत्यर्थः / द्वितीयपदे राजप्रवजितस्य लिङ्ग प्रस्तारदोषभयान्न हियते। एवं भिक्षोरुक्तम्। एमेव गणायरिए, गच्छम्मि तवो उ तिन्नि पक्खाई। दो पक्खा आयरिए, पुच्छा य कुमारदिर्सेतो।। एवमेव गणिन आचार्यस्य चमन्तव्यम्।नवरमुपाध्याय-स्यानुपशाम्यतो गच्छे वसतस्वीपक्षाँस्तपः प्रायश्चित्तम्, परतश्छेदः / आचार्यस्यानुपशाम्यतो द्वौ पक्षौ तपः, परतश्छेदः। शिष्यः पृच्छति-किं सदृशापराधे विषमं प्रायश्चित्तं प्रयच्छथ ? रागद्वेषिणो यूयम् / आचार्यः प्राह-कुमारदृष्टान्तेऽत्र भवति / स चोत्तरत्राभिधास्यते / उपाध्यायस्य त्रयः पक्षास्ते दिवसीकृताः पञ्चचत्वारिंशदिवसा भवन्ति। ततःपणयालदिणे गणिणो, चउहा काऊण साहिएक्कारो। भत्तट्टण-सज्झाए, वंदणलावे यहावेति। गणिनः संबन्धिनः पञ्चचत्वारिंशदिवसाः चतुर्दा क्रियन्ते। चतुभगिच, साधिकाः सपादा एकादश दिवसा भवन्ति / तत्र गच्छ उपाध्यायेन सममेकादश दिनानि भक्तार्थनं करोति / एवं स्वाध्यायवन्दनालापानपि प्रत्येकमेकादश दिनानि यथाक्रमं करोति, परतस्तुपरिहाप-यति। पञ्चचत्वारिंशदिवसानन्तरं चोपा-ध्यायस्य दशकच्छेदः / आचार्यस्तथैवोपाध्यायमपि चतुर्भिश्चतुर्भिर्मासैर्भतार्थनादीनि परिहापयन् संवत्सरं सारयति / आचार्यस्य द्वौ पक्षौ दिवसीकृतौ त्रिंशदिवसा भवन्ति। ततःतीसदिणा आयरिए, अद्धट्ठदिणातु हावणातत्थ। गच्छेण चउपदेहि, णिच्छूढे लग्गती छेदे॥ त्रिंशदिवसाश्चतुर्थभागेन विभक्ता अष्टिमदिवसा भवन्ति / तत्र गच्छे आचार्ये ण सहा ष्टमानि दिवसानि भक्तार्थनं करोति / एवं स्वाध्यायवन्दनालापनमपि यथाक्रममद्धष्ट मैर्दिवसः प्रत्येक हापयति। ततः परं गच्छेन चतुर्भिरपि भक्तार्थनादिभिः पदै-निष्कासित आचार्यः पञ्चदशके छेदे लगति। ततःसंकंतो अण्णगणं, सगणेण पवजितो चउपदेहिं। आयरिओ पुण दरिसं, वंदणलावेहि सारे।।। स्वगणेन भक्तार्थनादिभिश्चतुर्भिः पदैर्यदा वर्जितः, तदा अन्यगणं संक्रान्तः, पुनरन्यगणस्याचार्यो केवलं वन्दनालापाभ्यां द्वाभ्यां पदाभ्यां संभुञ्जानः सारयति यावद्वर्षम्। सज्झायमाइएहिं, दिणे दिणे सारणा परगणे वि। नवरं पुण नाणतं, तवो गुरुस्सेयरे छेदो।। परगणेऽपि संक्रान्तस्य आचार्यस्य स्वाध्यायादिभिः पदैर्दिने दिने सारणा क्रियते / नवरं परगणोपसंक्रान्तस्येदं नानात्वं विशेषः / अन्यगणसक्तस्य गुरोरसारयतस्तपः प्रायश्चित्तम्, इतरस्य पुनरधिकरणकारिण आचार्यस्यानुपशान्तस्य छेदः / अत्र परः प्राहरागद्वेषिणो यूयम्- आचार्य शीघ्रं छेदं प्रापयथ, उपाध्यायं बहुतरेण, भिक्षु ततोऽपि चिरतरेण / एवं भिक्षूपाध्याययोर्भवतां रागः, आचार्ये द्वेषः / अत्र सूरिः प्रागुद्दिष्ट कुमारदृष्टान्तमाहसरिसावंराधमंडो, जुवरण्णो भोगहरणबंधादी। मज्झिम बंधवहादी, अव्वत्ते कन्नखिंस त्ति // "एगस्स रन्नो तिन्नि पुत्ता-जेट्ठो, मज्झिमो, कणिमो। तेहि य तिहिं वि समत्थियंपितरं मारित्ता रजं तिहा विभयामो, तं च रण्णा णायं, तत्थ जेट्ठो जुवराया, तुमं पमाणभूओ कीस एवं करेसि ति? तस्स भोगहरणबंधणताडणादिया सव्वे दंडप्पगारा कया। मज्झिमो रायप्पहाणो त्ति काउं तस्स भोगहरणं न कयं, बंधवहादिया कया। अव्वत्तो कणेट्ठो एतेहिं वियारिओ त्ति काउंतस्स कण्णविमोडणदंडो खिंसा दंडोय कओ, न भोगहरणाइया" अक्षरगमनिका-सदृशेऽप्यपराधे युवराजस्य भोगहरणबन्धानादिको महान् दण्डः कृतः। मध्यमस्य बन्धवधादिको, न भोगहरणम्, अशक्तः कनिष्ठस्तस्य कर्णामोटनादिकः, खिंसा च कृता। अयमर्थोपनयः। यथा- लोकैर्लोकोत्तरेऽप्युत्कृष्टमध्यमजघन्येषु पुरुषवस्तुषु बृहत्तमोलघुर्लघुतरश्च यथाक्रमं दण्डः क्रियते। प्रमाणभूते च पुरुषे अक्रियासु वर्तमाने एते दोषाःअप्पचय वीसत्थ-त्तणं च लोगे गरहा दुरहिगमो। आणाए य परिभवो, णेव भयं तो तिहा दंडो॥ एत एवाचार्या भणन्ति, अकषायं चारित्रं भवति, स्वयं पुनरित्थं रुष्यन्ति / एवं सर्वेषूद्देशेष्वप्रत्ययो भवति।शेषसाधूनामपि कषायकरणे विश्वस्तता भवति, लोको वा गहाँ कुर्यात् / प्रधान एवामीषां कलह करोतीति, रोषणश्च गुरुः शिष्याणां प्रतीच्छकानां च दुरधिगमो भवति, रोषणस्य चाज्ञां शिष्याः परिभवन्ति, न च भयं तेषां भवति, अतो वस्तुविशेषेण त्रिधा दण्डः कृतः। गच्छम्मि उ पट्ठवए, जम्मि पदे निग्गतो बितियं / भिक्खुगणायरियाणं, मूलं अणवट्ठ-पारंची। गच्छे यस्मिन् पदे प्रस्थापिते निर्गतस्ततो द्वितीयं पदं परगणे संक्रान्तः प्राप्नोति, तद्यथा-तपसि प्रस्थापिते यदि निर्गतस्ततश्छेदं प्राप्नोति, छेदे प्रस्थापिते निर्गतस्ततो मूलम्, एवं भिक्षो रुक्तगणावच्छेदक स्यानवस्थाप्ये आचार्यस्य पारशिके पर्यवस्यति /