SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ अधिगरण 576 - अभिधानराजेन्द्रः - भाग 1 अधिगरण ऽऽवश्यकवेलायाम् / एवं चतुरो वारानेकै कस्मिन् दिने नोद्यते, तत्राधिकरणं प्रभाते प्रतिक्रान्तानां स्वाध्याये अप्रस्थापिते। एवमादौ कारणे तदुत्पद्यतेदुप्पडिलेहियमादिसु, नोदिएँ सम्म अपडिवज्जत्ते। ण वि पट्ठति उवसम-कालो ण सुद्धो जियं वाऽसी॥ दुष्प्रत्युपेक्षितं कुर्वन; आदिशब्दादप्रत्युपेक्षमाणः, असामाचार्या या प्रत्युपेक्षमाणो नोदितः सम्यग्यदिन प्रतिपद्यते, ततो अधिकरणं भवेत्। उत्पन्ने चाधिकरणे यदि स्वाध्यायेऽप्रस्थापिते स्वयमेवोपशान्तस्ततः सुन्दरम्। अथ नोपशान्तस्ततोयः प्रस्थापनार्थमुपतिष्ठते, सवारणीयः / यथा- तिष्ठतु तावद् यावत् सर्वेऽपि नो मिलिताः, तत आगतेषु सर्वेषु सूरयो ब्रुवते- आर्याः ! पश्यत इमे साधवः स्वाध्यायं न प्रस्थापयन्तिा ते चेष्टोत्तरं प्रयच्छ-न्त्यवश्यं-कालोनशुद्धः पराजितं तेषां साधूनां सूत्रश्रुतं, ततोनस्थापयन्ति। एवं भणतो मासगुरु, साधवश्च सर्वेऽपि प्रस्थापयन्ति स्वाध्यायं च कुर्वन्ति। काले प्रतिक्रान्ते भिक्षावेलायां जातायामिदमाचार्या भण्यन्ते - णोतरण अभत्तट्ठी, ण च वेला अभुंजणाऽजिण्णं / ण य पडिकमंति उवसम, णिरतीयारा तु पच्छाऽह॥ आर्य ! साधवस्त्वदीयेनानुपशमनेन भिक्षां नावचरन्ति, तत उपशमं कुरु / स चेष्टोत्तरं प्राह-यूयमभक्तार्थिनो, न वा भिक्षावेला, एवमुक्ते सर्वेऽप्यवतरन्ति, तस्याऽनुपशान्तस्य द्वितीयं मासगुरु। भिक्षा-निवृत्तेषु साधुषु गुरवो भणन्ति- आर्य! साधवो न भुञ्जते। स प्राह- नूनं साधूनां नजीर्णम् / एवमुक्ते सर्वेऽपि समुदिता भुञ्जते, तस्य पुनस्तृतीयं मासगुरु। भूयोऽपि प्रतिक्रमणवेलायां भणन्ति- आर्य ! साधवो न प्रतिक्रामन्ति, उपशमं कुरु / स चेष्टोत्तरं प्रत्याह- तुरिति वितर्के, संभावयाम्यहं निरतीचाराः श्रमणास्तेन न प्रतिक्रामन्ति, एवमुक्ते सर्वेऽपि प्रतिक्रामन्ति / तस्य पुनश्चतुर्गुरुकम् / एवं प्रभातकाले अधिकरणे उत्पन्ने विधिरुक्तः। अन्नम्मि वि कालम्मी, पढंत हिंडंत मंडलाऽवस्से। तिन्नि व दोण्णि व मासा, हों ति पडिकंत गुरुगा उ॥ अथान्यस्मिन् काले अधिकरणमुत्पन्नम्, कदेत्याह- पठतां हीनाधिकादिपठने, भिक्षां हिण्डमानानां, मण्डल्यां वा समुद्विशतामावश्यके वा। तत्र यदि द्वितीयवेलायामधिकरणमुत्पन्नं तदा त्रयो गुरुमासाः, चतुर्थवेलायामुत्पन्ने अनुपशान्तस्यद्वौ गुरुमासौ, एवं विभाषा कर्तव्या। अथ प्रतिक्रान्ते प्रतिक्रमणे कृतेऽपिनोपशान्तस्ततश्चतुर्गुरुकाः। एवं दिवसे दिवसे, चाउक्काले तु सारणा तस्स। जति वारे ण सारेति, गुरूण गुरुगो तु तति वारे // एवमनुपशान्तस्य दिवसे दिवसे चतुष्काले स्वाध्यायप्रस्थापनादिसमयरूपे, तस्य सारणा कर्तव्या / यदि यावतो वारान् आचार्यो न सारयति, तावतो वारान् मासगुरुकाणि भवन्ति। एवं तु अगीतत्थे, गीतत्थे सारिए गुरु सुद्धो। जति तं गुरू ण सारे, आवत्ती होइ दोण्हं पि। एवं दिने दिनेसारणाविधिरगीतार्थस्य कर्तव्यः,यस्तुगीतार्थः, सयद्येक दिनं स्वाध्यायभिक्षाभक्तार्थनावश्यकलक्षणेषु चतुर्यु स्थानेषु सारितस्तदा परतस्तमसारयन्नपि गुरुः शुद्धः, यदि पुनः तमगीतार्थ गीतार्थ वा गुरुर्न सारयति, ततोद्वयोरप्याचार्यस्यानुपशाम्यतश्च प्रायश्चित्तस्यापत्तिः / अन्ये ब्रुवते-अगीतार्थस्यानुपशाम्यतोऽपि नास्ति प्रायश्चित्तं, यस्तु गुरुरगीतार्थ न नोदयति, तस्य प्रायश्चित्तम्। गच्छो य दोणि मासे, पक्खे पक्खे इमं परिहवइ। भत्तट्ठणसज्झायं, वंदण लावं ततो परेण / / एवमनुपशाम्यन्तं गच्छो द्वौ मासौ सारयति, इदं पुनः पक्षे पक्षे परिहापयति / तद्यथा-अनुपशान्तस्य पक्षे गते गच्छेतेन सार्द्ध भक्तार्थन न करोति, नगृह्णाति वा, नवा किमपितस्य ददातीत्यर्थः / द्वितीये पक्षे गते स्वाध्यायं तेन समं न करोति, तृतीये पक्षे गते वन्दनं न करोति, चतुर्थोऽपि पक्षो यदा गतो भवति, ततः परमालापमपि तेन सार्द्ध वर्जयति। आयरिय चउर मासे, संभुजति चउर देइ सज्झायं। वंदणलावे चउरो, तेण परं मूलनिच्छुमणा / / आचार्यः पुनश्चतुरोमासान् सर्वैरपि प्रकारैस्तेन समं संभुङ्क्ते, ततः परं चतुरोमासान् भक्तार्थनं वर्जयति, स्वाध्यायंतु ददाति। ततश्चतुरोमासान् स्वाध्यायं परिहत्य वन्दनालापौ ददाति, ततः परं वर्षे पूर्णे सांवत्सरिके प्रतिक्रान्तेऽनुपशान्तस्य गणान्निष्कासनं कर्त्तव्यम्। एवं बारसमासे, दोसु तवो सेसए भवे छेदो। परिहीयमाण तद्दिव-से तव मूलं पडिकंते॥ एवं द्वादशमास्यामप्यनुपशाम्यतोर्द्वयोरादिममासयोर्यावद्गच्छेन विसर्जितस्तावत्तपः प्रायश्चित्तमेव, शेषेषु दशसुमासेषु पञ्चरात्रिंदिवं छेदो यावत्सांवत्सरिकम्, एवं प्राप्तं भवति- पर्युषणारात्रौ प्रतिक्रान्तानामधिकरण उत्पन्ने एष विधिरुक्तः / (परिहायमाण तदिवस ति) पर्दूषणापारणकदिनादेकैकदिवसेन परिहीयतः, तावन्नेयं यावत्तदिवसं, पर्युषणादिवस एवाधिकरण उत्पन्ने तत्रतपो मूलं वा भवति तच्छेदः / अथ प्रतिक्रमणं कुर्वतामुत्पन्नं ततः सांवत्सरिके कायोत्सर्गे कृते मूलं च केवलं भवति। एतदेव सुव्यक्तमाहएवं एक्के क्कदिणे, हवेतु ठवणादिणे वि एसेव। चेइयवंदणसारे, तम्मि वि काले तिमासगुरू / / भाद्रपदशुद्धपञ्चम्यामनुदिते आदित्ये यद्यधिकरणमुत्पद्यते, ततः पर्युषणायामप्यनुपशान्ते संवत्सरो भवति / षष्ठ्यामुत्पन्ने एकदिवसो न संवत्सरः। सप्तम्यां दिवसद्वयम्। एवमेकैक दिन हापयित्वा तावन्नेयं यावत् प्रस्थापनादिनं पर्युषणादिवसः। तत्र वाऽनुदिते रवौ कलहे उत्पन्ने एवमेव नोदना कर्तव्या / प्रथम स्वाध्यायप्रस्थापनं कर्तुकामैः सारणीयम्, ततश्चैत्यवन्दनार्थं गन्तुकामाः सारयेयुः / तत्राप्यनुप-शान्ते प्रतिक्रमणवेलायां सारयन्ति / एवं तस्मिन्नपि पर्युषणाकालदिवसे त्रिषु स्वाध्यायप्रस्थापनादिषु स्थानेषु नोदितस्यानुपशान्तस्य त्रीणि मासगुरुकाणि भवन्ति। पडिकंते पुण मूलं, पडिक्कमंते व होज्ज अधिकरणं / संवच्छरमुस्सग्गे, कयम्मि मूलंन सेसाई॥ पर्युषणादिने सर्वेषामधिकरणानां व्यवच्छित्तिः कर्तव्ये तिकृत्वा
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy