________________ अधिगरण 575 - अभिधानराजेन्द्रः - भाग 1 अधिगरण कृत्वा पश्चात्कलहायमानैः शाकवृक्षपत्रस्थानीयैः कषायैरुत्सिच्योत्सिच्यायमसारीकृतः, शिरस्तुण्डमुण्डनादिश्च प्रव्रज्या प्रयासो मुधैव विहित इति / आह- कथमेकमुहूर्तभाविनाऽपि क्रोधादिना चिरसंचितं चारित्रं क्षयमुपनीयते ? उच्यते - जं अज्जियं चरितं, देसूणाए वि पुष्वकोडीए। तं पिय कसायमेत्तो, नासेइ नरो मुहुत्तेण // यदर्जितं चारित्रं देशोनयाऽप्यष्टवर्षाधूनयाऽपि पूर्वकोट्या तदपि स्तोकमल्पतरकालोपार्जितमित्यपिशब्दार्थः / तदपि कषायि-तमात्रः उदीर्णमात्रक्रोधादिकषाय इत्यर्थः / नाशयति हारयति, नरः पुरुषो, मुहूर्तेन, अन्तर्मुहूर्तेनेति भावः / यथा-प्रभूत-कालसंचितोऽपि महान् तृणराशिः सकृत्प्रज्वालितेनापि अग्रिनासकलोऽपि भस्मसाद्भवति; एवं क्रोधानलेनापि सकृदुदीरितेन चिरसंचितं चारित्रमपि भस्मीभवतीति हृदयम् / एवमाचार्येण सामान्यतस्त-योरनुशिष्टिदातव्या, न त्वेकमेव कञ्चन विशिष्य भणनीयम् / यत आहआयरिएन भणे अह, एग निवारेइ मासियं लहुगं / रागद्दोसविमुक्को, सीयघरसमो उ आयरिओ॥ आचार्यो नैकमधिकरणकारिणं भणति अनुशास्ति। अथाचार्य एकमेव निवारयति अनुशास्ति, न द्वितीयम्, ततो मासिकं लघुकमापद्यते, असामाचारीनिष्पन्नमिति भावः / तस्मादाचार्यो रागद्वेषविमुक्तः शीतगृहसमो भवेत्। शीतगृहं नाम वर्द्ध-किरत्ननिर्मितं चक्रवर्तिगृहम; तच वर्षास्वनिवातप्रवातम्; शीतकाले सोष्मम्, ग्रीष्मकाले शीतलम्। यथा च तचक्र वर्तिनः सर्वत॒क्षम, तथा द्रमकादेरपि प्राकृतपुरुषस्य तत्सर्वर्तुक्षममेव भवति / एवमाचार्यरपि निर्विशेषैर्भवितव्यम्। अथ विशेषं करोति, तत इमे दोषाःवारेइ एस एवं, ममं न वारेइ पक्खरागेणं। बाहिरभाव गाढतरगं तुमं च पेक्खसी एक्कं // एष आचार्य आत्मीयोऽयमिति बुद्ध्या अमुं वारयति; एवं पक्षरागेण | क्रियमाणेन अननुशिष्यमाणः साधुर्बाह्यभावं गच्छति / यद्वा-स अननुशिष्यमाणो गाढतरमधिकरणं कुर्यात् / अथवा-तमाचार्य परिस्फुटमेव ब्रूयात्-त्वं मामेवैकं बाह्यतया प्रेक्षसे, ततश्वात्मानमुबध्य यदि मारयति, तत आचार्यस्य पाराञ्चिकमः अथो निष्कामति, ततो मूलम् / तस्माद् द्वावप्यनुशासनीयौ, अनुशिष्टौ च यद्युपशान्तौ ततः सुन्दरम् / अथैक उपशान्तो, न द्वितीयः, तेन चोपशान्तेन गत्वा स स्वापराधप्रतिपत्तिपुरस्सरं क्षामितः, परमसौ नोपशाम्यति / आहकथमेतदसौ जानाति यथाऽयं नोपशान्तः? उच्यते- यदा वन्द्यमानोऽपि न वन्दनकं प्रतीच्छति। यदि वाऽवमरत्नकोऽसौ ततस्तं रत्नाधिकं न वन्दते, आद्रियमाणोऽपि वा नाद्रियते। एवं तमनुपशान्तमुपलक्ष्य ततोऽसौ किं करोतीत्याहउवसंतोऽणुवसंतं, पासिज्जा विण्णवेइ आयरियं / तस्स उ पन्नवणट्ठा, निक्खेवो परो इमो होइ॥ उपशान्तः साधुरनुपशान्तमपरं दृष्ट्वा आचार्य विज्ञापयति- | क्षमाश्रमणाः ! उपशान्तोऽहं, परमेष ज्येष्ठार्योऽमुको वा नोपशाम्यति / तत आचार्यास्तस्य प्रज्ञापनार्थं परनिक्षेपं कुर्वन्ति / बृ० 1 उ०। (सच परनिक्षेपः 'पर' शब्द एवं करिष्यते) (7) अथ भावपरो व्याख्यायते, भावः क्षयोपशमादिः, तदपेक्षया परो भावान्तरवर्ती, भावान्तरः स वेदोदयिक-भाववृत्तिगृह्यते। तथा चाऽऽहआढणमन्मुट्ठाणं, वंदण संभुंजणा य संवासो। एयाइं जो कुणई, आराहण अकुणओ नस्थि / अकसायं निव्वाणं, सव्वेहिँ वि जिणवरेहिँ पन्नत्तं / सो लब्मइ भावपरो, जो उवसंते अणुवसंतो॥ आदरः अभ्युत्थानं, वन्दनं, संभोजनं, संवासश्चेत्येतानि पदानि य उपशान्तो भूत्वाकरोति, तस्याऽऽराधना अस्ति, यस्त्वेतानिन करोति, तस्याऽऽराधना नास्ति। एतेन "जो उवसमइ तस्स अस्थि आराहणा" इत्यादिकः सूत्रावयवो व्याख्यातः। अयं किमर्थ-मादरादिपदानामकरणे आराधना नास्ति ? इत्याह- अकषायं कषायाभावसंभवि निर्वाणं सकलकर्मक्षयलक्षणं सर्वैरपिजिनवरैः प्रज्ञप्तम् / अतो यः कश्चिदुपशान्तेऽपि साधावनुपशान्तः, आदरादि-पदानामकरणेन सकषायः, सभावपरो लभ्यते, औदयिक-भाववर्तित्वात्। अथाचार्यस्तमुपशान्तं साधं प्रज्ञापयन् प्रस्तुतयोजनां कुर्वन्नाहसो वट्टइ उदईए, भावे तुं पुण खओवसमियम्मि। जह सो तुह भावपरो, एमेव य संजमतवाणं / भोभद्र ! द्वितीयः साधुरद्याप्यौदयिके भावे वर्तते; त्वं पुनःक्षायोपशमिके भावे वर्तसे। अतो यथाऽसौत्वदपेक्षया भावपरस्तथा संयमतपोभ्यामप्येवं परः पृथग्भूत इत्यतस्त्वया न काचित्तदीया चिन्ता विधेया। बृ०१ उ० / नि० चू०। (8) अधिकरणं कृत्वाऽन्यगणसङ्क्रान्तिर्न कर्तव्याभिक्खु य अहिगरणं अवि ओसमित्ता इच्छिता अन्नं गणं उवसंपज्जित्ताणं विहरित्तए, कप्पइ तस्सपंचराइंदियं छेयं कडं, परिनिव्वविय परिनिव्वविय दोचं पितमेवगणं पडिनेअव्वं सिया, जहा वा तस्स गणस्स तहा सिया। भिक्षुः, चशब्दादाचार्यो पाध्यायौ वा, अधिकरणं कृत्वा तदधिकरणमप्यवशमय्य, इच्छेदन्यगणमुपसंपद्य विहर्तुम्, ततः कल्पते तस्य अन्यगणसंक्रान्तस्य पञ्चरात्रिंदिवं छेदं कर्तुम्, ततः परिनिर्वाप्य परिनिर्वाप्य कोमलवचःसलिलसेकेन कषायाग्निसंतप्तं सर्वशीतलीकृत्य, द्वितीयमपि वारंतमेवगणं संघप्रतिनेतव्यः स्यात्। यथा वा तस्य गणस्य, तथा कर्त्तव्यमेवेति सूत्रार्थः / बृ०५ उ०॥ (9) गच्छादनिर्गतस्याऽधिकरणे उत्पन्ने विधिःगच्छा अणिग्गयस्सा, अणुवसमंतस्सिमो विधी होइ। सज्झायमिक्खभत्तट्ट पाओसए व चउर एकेके। गच्छादनिर्गतस्यानुपशाम्यतोऽयं विधिर्भवति- सूर्योदयकाले यः स्वाध्यायः क्रियते तदवसरे प्रथममसौ नोद्यते, द्वितीयं भिक्षवतरणवेलायां, तृतीयं भक्तार्थनाकाले, चतुर्थ प्रादोषिका -