________________ अधिगरण 574 - अभिधानराजेन्द्रः - भाग 1 अधिगरण द्वितीयोऽपि प्रविष्टः, तयोश्च युद्धे लग्नेऽसहवेदनातन हस्तिना वनखण्डस्य चूर्णं कृतमिति, एष दृष्टान्तः / अयमर्थोपनयः- यथा तेषामुपेक्षमाणानां तत्पद्मसरः सर्वेषामप्याश्रयभूतं विनष्ट, तस्मिँश्च विनश्यमाने तेऽपि विनष्टाः, एवमत्राप्याचार्यादीनामुपेक्षमाणानां महान् दोष उपजायते / कथमिति चेत् ? उच्यते-इह तावधिकरणकारिणावुपेक्षितौ परस्परं मुष्टामुष्टि वा दण्डादण्डि वा युध्येतां, ततश्च परम्परया राजकुले ज्ञाते सति महान् दोषः, यतः स राजादिस्तेषां साधूनां बन्धनं वा, ग्रामनगरादेर्निष्कासनं वा, कण्टकमर्दनं वा कुर्यात्। किञ्चान्यत् - तावो भेदो अयसो, हाणी दंसणचरित्तनाणाणं / साहुपदोसो संसारवडणो साहिकरणस्स॥ तापो, भेदो, अयशो, हानिर्दर्शनज्ञानचारित्राणां, तथा-साधुप्रद्वेषः संसारवर्द्धनो भवति, एते साधिकरणस्य दोषा भवन्तीति समासार्थः। ___ अथैनामेव गाथां विवृणोतिअइभणिय अभणिए वा, तावो भेदो उ जीवचरणाणं / रूवसरिसं न सील, जिम्हं मण्णे अयस एवं / / तापो द्विधा-प्रशस्तोऽप्रशस्तश्च। तत्रातिभणिते सति चिन्तयति-धिङ् मां येन तदानीं स साधुर्बहुभिर्विधैरसद्व्याख्या-नैरभ्याख्यातःइत्थमित्थं चाक्रुष्टः, एष प्रशस्तस्ताप उच्यते। अथाऽभणितं,न तथाविधं तस्य मुखे भणितं, ततश्चिन्तयति-हा ! मन्दभाग्यो विस्मरणशीलोऽहं यन्मया तदीयं जात्यादिमर्मनिकुरम्बंन प्रकाशितं, एष अप्रशस्तस्तापो मन्तव्यः / तथा कलहं कृत्वा जीवितभेदं चरणभेदं वा कुर्युः, पश्चात्तापात्तप्तचेतसो विहाय-सादिमरणमभ्युपगच्छेयुः, उन्निष्क्रमणं वा कुर्युरिति भावः / लोकोऽपि ब्रूयात्- अहो ! अमीषां श्रमणानां रूपसदृशं बहिः प्रशान्ताकारं रूपमवलोक्यते,तादृशं शीलं मनःप्रणिधानं नास्ति। यद्वा-किम् ? मन्ये जिहां लज्जनीयं किमप्यनेन कृतं, येनैवं प्रम्लानवदनो / दृश्यते, एवमादिकमयशः समुच्छलति। आकुट्ट तालिए वा, पक्खापक्खि कलहम्मि गणभेदो। एगयर सूयएहिँ व, रायादि सिटे गहणादी। जकारमकारादिभिर्वचनैराकृष्ट, ताडिते वा चपेटादण्डादिभिराहते सति, पक्षापक्षि परस्परपक्षपरिग्रहेण साधूनांकलहे जाते सति गणभेदो भवति, तथा- तयोः पक्षयोर्मध्यादेकतरपक्षण राजकुलं गत्वा शिष्ट कथिते सति, सूचकैर्वा राजपुरुषविशेषैः राजादीनां ज्ञापिते ग्रहाणाकर्षणादयो दोषा भवन्ति / वत्तकलहो विन पढइज्जऽवच्छलत्ते य दंसणे हाणी। जह कोहाइविवड्डी, तह हाणी होइ चरणे वि / / वृत्तकलहोऽपि कलहकरणोत्तरकालमपि कषायकलुषितः पश्चात्तापतप्तमानसो वा यन्न पठति, तेन ज्ञानपरिहाणिः, साधौ प्रद्वेषिते साधर्मिकवात्सल्यं विराधितं भवति, अवात्सल्ये च दर्शनपरिहाणिः, यथा च क्रोधादीनां कषायाणां वृद्धिस्तथा चरणेऽपि चारित्रस्य परिहाणिर्भवति, विशुद्धसंयमस्थानप्रतिघातेनाविशुद्धसंयम-स्थानेषु गमनं भवतीत्यर्थः / एतच व्यवहारमाश्रित्योक्तम्। निश्चयतस्तुअकसायं खु चरित्तं, कसायसहितो न संजओ होइ। साहूण पदेसेण य, संसारं सो विवड्डेइ। खुशब्दस्यैवकारार्थत्वादकषायमेव कषायविरहितमेव चारित्रं भगवद्भिः प्रज्ञप्तम्, अतो निश्चयनयाभिप्रायेण कषायसहितः संयत एव न भवति, चारित्रशून्यत्वात्। तथा साधूनामुपरि यः प्रद्वेषस्तेनासौ संसारं वर्द्धयति, दीर्घतरं करोति। यत एते दोषास्तत उपेक्षा न विधेया। किं पुनस्तर्हि कर्तव्यम् ? इत्याहआगाढे अहिगरणे, उवसम अवकडणा य गुरुवयणं / उवसमह कुणह झायं, छड्डुणया सायपत्तेहिं / / आगाढे कर्कशे, अधिकरणे उत्पन्ने द्वयोरप्युपशमः कर्तव्यः / कथमित्याह- कलहायमानयोस्तयोः पार्थस्थितैः साधुभिरपकर्षणमपसारणं कर्तव्यम्, गुरुभिश्वोपशमनार्थमिदं वचनमाभिधातव्यम्-आर्याः ! उपशाम्यतोपशाम्यत / अनुपशान्तानां कुतः संयमः ? कुतो वा स्वाध्यायः? तस्मादुपशमं कृत्वा स्वाध्यायं कुरुथ। किमेवं द्रमकवत् कनकरसस्य शाकपत्रैः छर्दना परित्यागं कुरुथ ? कः पुनरयं द्रमकः ? उच्यते जहा-एगो परिव्वायगो दमगपुरिसं चिंता-सोगसागरावगाढं पासति / पुच्छति य - किमेवं चिंतापरो? तेण से सम्भावो कहितो, दारिद्वाभिभूतो मि त्ति / तेण भण्णइ सो-इस्सरं तुम करेमि, जतो सीतातववातपरिस्सम अगणंतेहिं तिसाखुधावेयणं सहंतेहिं बंभचारीहिं अचित्तकं दमूलपत्तपुप्फफलाहारीहिं समीपत्तपुडएहिं भावतो अरुसमाणेहिं घेत्तव्यो / एस से उवचारो। तेण दमगेण सो कणगरसो उवचारेण गहितो, तुंबयं भरितं / ततो णिग्गतो तेण परिव्वायगेण भणियं-सुरुद्वेण वि तुमे एस सागपत्तेण ण छड्डियव्यो। ततो सो परिव्वायगो गच्छंतो दमगपुरिसं पुणो पुणो भणति-ममपभावेण ईसरो भविस्सासि। सो य पुणो पुणो वजमाणो रुट्ठो भणति-जं तुज्झ पसाएण इस्सरत्तणं, तेण मे न कजं, तं कणगरसं सागपत्तेण छड्डेति / ताहे परिव्वायगेण भणियं-हा हा दुरात्मन् ! किमयं तुमे कयं? जं अज्जियं समीख-ल्लएहिं तवनियमबंभमइएहिं। तं दाणि पच्छ नाहिह, छडुतो सागपत्तेहिं॥ यदर्जितं शमीसंबन्धिभिः खल्लकैः पत्रपुटैस्तपोनियमब्रह्मयुक्तः तदिदानी शाकपत्रैः परित्यजन् पश्चात्परित्यागकालादूर्ध्वमुपरित ज्ञास्यसि, यथा दुष्ठु मया कृतं, यच्चिरसंचितः कनकरसः शाकपत्रैरुत्सिच्य परित्यक्तः। एवं परिव्राजकेण द्रमक उपालब्धः / अथाचार्यस्तावधिकरणकारिणावुपालभते / अर्चा यचारित्रं कनकरसस्थानीयं तपोनियमब्रह्मचर्यमयैः शमीखल्लक रर्जितं परीषहोपसर्गादिश्रमं न गणयसि, चिरात्कथं कथमपि मीलितं तदिदानीं शाक पत्रसदृशैः कषायैः परित्यजन्तः पश्चात्परितप्यमानमनाः स्वयमेव ज्ञास्यसि / यथा- हा ! बहुकालोपार्जितेन संयमकनकरसेन तुम्बकस्थानीयं स्वजीवबहुचूर्ण