________________ अधम्म ५६७-अभिधानराजेन्द्रः-भाग 1 अधम्मस्थिकाय सावद्यानुष्ठानेनैव दहनाङ्कननिर्लाञ्छनादिना कर्मणा वृत्तिर्वतन कल्पयन् कुर्वाणो विहरति, ज्ञा०१८ अ० रा०ा विपा० भ०। आव०) षोडशे गौणाब्रह्मणि च, तस्याऽचारित्ररूपत्वात्। प्रश्न०४ आश्र० द्वा०। अध(ह)म्मक्खाइ-त्रि०(अधर्मख्याति) अधर्मेण ख्यातिर्यस्य। रा०ान धर्माद् ख्यातिर्यस्येति च / भ०१२ श०२ उ०। अविद्यमानधर्मोऽयमित्येवं प्रसिद्धिके, विपा०१ श्रु०१ अ०॥ अध(ह)म्मक्खाइ(ण)-त्रि०(अधर्माऽऽख्यायिन) अधर्ममाख्यातुं शीलं यस्य स तथा / ज्ञा०१८ अ०। न धर्ममाख्यातीत्येवंशीलो वा / भ०३ श०७ उ०। अधर्मप्रतिपादके, विपा०१ श्रु०१अ० अध(ह)म्मजुत्त-न०(अधर्मयुक्त) 3 ता पापसंबद्धेतद्दो-षोदाहरणभेदे, स्था०। यद्धि उदाहरणं कस्यचिदर्थस्य साधना-योपादीयते केवलं पापाभिधानरूपं, येन चोक्तेन प्रतिपाद्य-स्याधर्मबद्धिरुपजायते, तदधर्मयुक्तम् / तद्यथा- उपायेन कार्याणि कुर्यात्, कोलिकनलदामवत्। तथाहिपुत्रखादकमत्कोटकमार्गणोपलब्धबिलवासानामशेषमत्कोटकानां तप्तजलस्य बिले प्रक्षेपणतो मारणदर्शनेन रञ्जितचित्तचाणक्यावस्थापितेन चौरग्राहे नलदामाभिधानकु विन्देनचौर्यसहकारितालक्षणोपायेन विश्वासिता मिलिताश्चौरा विषमिश्रभोजनदानतः सर्वे व्यापादिता इति / आहरणतद्दोषता चास्याधर्मयुक्तत्वात्तथाविधश्रीतुरधर्म-बुद्धिजनकत्वाचेति, अत एव नैवंविधमुदाहर्तव्यं यतिनेति / स्था०४ ठा०३ उ०। इदं च नलदामकुविन्दोदाहरणं लौकिकम्, / तथैव "चाणक्केण णंदे उच्छाइए चंदगुत्ते रायाणए ठविए एवं सव्वं वण्णित्ता जहा सिक्खाए, तत्थ णंदमंतिएहिं मणुस्सेहिं सह चोरगाहो मिलिओ णगरं मुसइ / चाणको वि अन्नं चोरग्गाहं च ठविउकामो तिदंडं गहेऊण परिवायगवेसेण णयरं पविट्ठो, गओ णलदामकोलियसगासं, उवविठ्ठो वणणसालाए अत्थइ, तस्स दारओ मक्कोमडएहिं खाइओ, तेण कोलिएण बिलं खणित्ता दड्डा / ताहे चाणक्केण भण्णइ-किं एए डहसि ? कोलिओ भणइ-जइ एए समूलजाला ण उच्छाइजंति, तो पुणो वि खाइस्संति। ताहे चाणक्केण चिंतियं-एस मएलद्धो चोरगाहो, एस णंदतेणया समूलया उद्धरिसिहिइ / चोरग्गाहो कओ, तेण तिदंडिणा विस्संभिया-अम्हे सम्मिलिया मुसामो त्ति। तेहिं अन्ने वि अक्खाया- जे तत्थ मुसगा बहुया, सुहतराग मुसामो त्ति। तेहिं अन्ने वि अक्खाया। ताहे ते तेण चोरग्गाहेण मिलिऊण सव्वे विमारिया। एवं अहम्मजुत्तण भाणियव्यं,ण य कायव्वं ति। इदंतावल्लौकि-कम्। अनेन लोकोत्तरमपि चरणकरणानुयोग द्रव्यानुयोगं चाधिकृत्य सूचितमवगंतव्यम्, एकग्रहणात्तज्जातीय-ग्रहणमिति न्यायात्। तत्र चरणकरणानुयोगेन- "णेवं अहम्मजुत्तं, कायव्यं किं वि भाणियव्वं वा / थोवगुणं बहुदोसं, विसेसओ ठाणपत्तेणं / / 1 / / तम्हा सो अन्नेसि पि आलंबणं होइ' द्रव्यानुयोगे तु-"वादम्मितहा रूवे, विजाय बलेण पवयणट्ठाए / कुजा सावजं पि हु, जह मोरीण उलिमादीसु / / 1 / / सो परिवायगो विलक्खीकओ ति" |औदाहरणदोषता चास्याधर्मयुक्तत्वादेव भावनीयेति / गतमधर्मयुक्तद्वारम् / दश०१ अ०। अध(ह)म्मत्थिकाय-पुं०(अधर्मास्तिकाय) न धारयति गतिपरिणतावपि जीवपुद्गलाँस्तत्स्वभावतया नाऽवस्थपयति, स्थित्युपष्टम्भ कत्वात्तस्येति अधर्मः, स चासौ अस्तिकायश्च / उत्त० 35 अ०। कर्म० जीवपुद्गलानां स्थितिपरिणामपरिणतानां तत्परिणामोपष्टम्भकेऽमूर्तेऽसङ्ख्यातप्रदेशसघातात्मके द्रव्यविशेषे, प्रज्ञा० पद। अनु० स्था०। आव०। द्रव्या०। (सिद्धिरस्य 'अत्थिकाय' शब्देऽस्मिन्नेव भागे 513 पृष्ठे दर्शिता) तत्त्वंचअहम्मत्थिकाए णं भंते ! जीवाणं किं पवत्तइ ? गोयमा! अहम्मत्थिकाए णं जीवाणं ठाणणिसीयण-तुयट्टण मणस्स य एगत्तीभावकरणया जे यावण्णे तहप्पगारा थिरसभावा सवे ते अहम्मत्थिकाए पवत्तति ठाणलक्खणेणं अहम्मत्थिकाए। (ठाणनिसीयणतुयट्टण ति) कायोत्सर्गासनशयनानि, प्रथमाबहुवचन-- लोपदर्शनात्। तथा मनसश्चअनेकत्वस्यैकत्वस्यभवनमेकत्वीभावस्तस्य यत्करण तत्तथा। भ०१३ श०४ उ० अस्येमान्यभिवचनानिअहम्मत्थिकायस्स णं भंते ! केवइया अभिवयणा पण्णता? गोयमा ! अणेगा अभिवयणा पण्णत्ता / तं जहा अधम्मेति वा अधम्मत्थिकाएति वा, पाणातिवाय० जाव मिच्छादंससल्लेति वा ईरियाअसमिएत्ति वा० जाव उच्चारपासवण० जाव पारिट्ठावाणिया असमितीति वा मणअगुत्तीति वा वइ अगुत्तीति वा काय अगुत्तीति वा, जे यावण्णे तहप्पगारा सवे ते अहम्मत्थिकायस्स अभिवयणा। भ०२० श०२ उ०) 'अट्ठ अहम्मत्थिकायमज्झप्पएसा पण्णत्ता' 1 ते च रुचकरूपा इति। स्था०८ ठा० अधर्मास्तिकायसिद्धिः- अधर्मोऽधर्मास्तिकायः, स्थितिः स्थानं गतिनिवृत्तिरित्यर्थः / तल्लक्षणमस्येति स्थानलक्षणः / स हि स्थितिपरिणतानां जीवपुद्गलानां स्थितिलक्षणकार्य प्रत्यपेक्षाकारणत्वेन व्याप्रियत इति, तेनैव लक्ष्यत इत्युच्यते / अनेनाप्यनुमानमेव सूचितम् / तच्चेदम् -यद्यत्कार्यं तत्तदपेक्षाकारणवत्, यथाघटादि कार्यम् / तथा चासौ स्थितिः, यच्च तदपेक्षाकारणं तदधर्मास्तिकाय इति / अत्र च नैयायिकादिः सौगतो वा वदेत्नास्त्यधर्मास्तिकायः, अनुपलभ्यमानात्, शशविषाणवत् / तत्र यदि नैयायिकः, तदाऽसौ वाच्यः- कथं भवतोऽपि दिगादयः सन्ति ? अथ दिगादिप्रत्ययलक्षण-कार्यदर्शनाद्भवति हि कार्यात्कारणानुमानम्, एवं सति स्थितिलक्षणकार्यदर्शना-दयमप्यस्तीति किं न गम्यते? अथतत्र दिगादिप्रत्ययकार्यस्यान्यतोऽसंभवात्तत्कारणभूतान् दिगादीन अनुमिमीमहे इति मतिरिहाप्याकाशादीनामवगाहना दिस्वस्वकार्यव्यापृतत्वेन ततोऽसंभवात्, अधर्मास्तिकायस्यैव स्थितिलक्षणं कार्यमिति किं नानुमीयते? अथासौन कदाचिद् दृष्टः, एतद्विगादिष्वपि समानम् / अथ सौगतः, सोऽप्येवं वक्तव्यः, यथा- भवतः कथं बाह्यार्थसंसिद्धिः? नहि कदाचिदसौ प्रत्यक्षगोचरः, साकारज्ञानवादिनः सदा तदाकारस्यैव संवेदनात् / तथा च तस्याप्यनुलभ्यमानत्वादभाव एव / अथाकारसंवेदनेऽपि तत्कारिणमथ परिकल्पते, धूमज्ञान इवाग्निः /