________________ अङ्गकुमार 561- अभिधानराजेन्द्रः - भाग 1 अहगकुमार मोक्षं प्रति, स एवंभूतस्तरीतुमतिलध्य समुद्रमिव दुस्तरं महाभवौघं मोक्षार्थमादीयत इत्यादानं सम्यग्दर्शन-ज्ञानचारित्ररूपं तद्विद्यते यस्यासावादानवान् साधुः; स च सम्यग्दर्शनेन सता परतीर्थिकतपःसमृद्ध्यादिदर्शनेन मौनीन्द्रादर्शनान्न प्रच्यवते; सम्यग्ज्ञानेन तु यथावस्थितवस्तुप्ररूपणतः समस्तप्रावादुकवादिनिराकरणेनापरेषां यथावस्थितमोक्षमार्गमाविर्भावयतीति; सम्यक् चारित्रेण तु समस्तभूतग्रामहितैषया निरुद्धाश्रवद्वारः सन् तपो विशेषाचानेकभावोपार्जितंकर्म निर्जरयति / स्वतोऽन्येषां चैवंप्रकारमेवंधर्ममुपाहरेद् व्यागृणीयादित्यर्थः / इतिः परिसमाप्त्यर्थे , ब्रवीमीति // 55 // सूत्र०२ श्रु०७ अ०|| अद्दग(य)पुर-न०(आर्द्रकपुर) नगरभेदे, यत्र आर्द्रककुमार उत्पन्नः / सूत्र०२ श्रु०६ अ० अद्दचंदण-न०(आर्द्रचन्दन) सरसचन्दने, औ०। 'अदचंदणाणुलित्तगत्ता इसिसिलिंधपुप्फप्पगासाइंसुहुमाइं असंकिलिट्ठाई वत्थाई परवपरिहिया" इति / आइँण सरसेन चन्दनेनाऽनुलिप्तं गात्रं येषां ते आर्द्रचन्दनानुलिप्तगात्राः। (सुपुरुषवर्णकः) औ०। अद्दण-पुं०(अर्दन) अर्द्ध-ल्युट्। गतौ, पीडायां, वधे, याचने च / वाचा स्वनामख्याते राजनि च, येन पद्मावती प्रार्थयित्वा माणिक्यदेवप्रतिमाऽऽनीता। ती०५१ कल्प। अद्दणो(ण्णो)-(देशी) आकुले, दे०ना०१ वर्ग! अदव-त्रि०(अद्रव) निगालिते, आव०६ अ०। अद्दव्व-न०(अद्रव्य) रूप्याधुचितद्रव्याभावे, पञ्चा०३ विवा अहहण-न०(आद्रहण) आ-द्रह-भावेल्युट्ा उत्क्वाथने, करणे-ल्युट्। / द्रव्यपाकायाग्नावुत्ताप्यमाने उदकतैलादौ, उपा०३ अ० अद्दा-स्त्री०(आर्द्रा) रुद्रदेवताके नक्षत्रभेदे, अनु०। 'दो अदाओ'" स्था०२ ठा०३ उ० "अद्दा खलु नक्खत्ते"। सू०प्र०१०पाहु०॥ अद्दा णक्खत्ते एगतारे'। पं०सं०१ द्वार। अद्दाइय-न०(आदर्शित) आदर्शनेन पवित्रीभूते, बृ०१ उ०। अदाओ-(देशी) दर्पणे, दे० ना०१ वर्ग। अदाग-पुं०(आर्दश) दर्पणे, स०) अद्दाय पेहमाणे मणुस्से किं अदाय पेहति, अत्ताणं पेहति, / पलिभागं पेहति ? गोयमा ! णो अघायं पेहति, णो अत्ताणं, पलिभागं पेहति / एवं एतेणं अभिलावेणं असि मणि दुद्धं पाणं तेल्लं फाणियरसं। (अद्दायमिति) आदर्श (पेहमाणे त्ति) प्रेक्ष्यमाणो मनुष्यः किमादर्श प्रेक्षते ? आहोस्विदात्मानम् ? अत्राऽऽत्मशब्देन शरीरमभिगृह्यते। उत पलिभागमिति? प्रतिभागं प्रतिबिम्बम्। भगवानाह- आदर्श तावत्प्रेक्षत एव, तस्य स्फुटस्वरूपस्य यथावस्थिततया तेनोपलम्भात् / आत्मानं आत्मशरीरं पुनर्न पश्यति, तस्य तत्रा-भावात् / स्वशरीरं हि आत्मनि व्यवस्थितं नादर्श, ततः कथमात्मशरीरंतत्र च पश्येत् इति ? प्रतिभागं स्वशरीरस्य प्रतिबिम्बंपश्यति। अथ किमात्मन : प्रतिबिम्बः ? उच्यतेछाया पुद्गला-त्मकम् / तथाहि-सर्वमै न्द्रियकं वस्तु स्थूलं चयापचयधर्मक, रश्मिवच; रश्मय इति छायापुद्गला व्यवहियन्ते।तेच छायापुद्गलाः प्रत्यक्षत एव सिद्धाः, सर्वस्यापि स्थूलवस्तुनश्छायाया अध्यक्षता प्रतिप्राणिप्रतीतेः / अन्यच्च- यदि स्थूलवस्तु व्यवहिततया, दूरस्थिततया वा नादर्शादिष्ववगाढरश्मिर्भवति, ततोनतस्मात्तदृश्यते, तस्मादवसीयतेसन्ति च्छायापुद्गला इति / ते च च्छायापुद्गलास्तत्तत्सामग्रीवशाद्विचित्रपरिणमनस्वभावाः / तथाहि-ते छायापुद्गला दिवा वस्तुन्यभास्वरप्रतिगताः सन्तः स्वसंबन्धिद्रव्याकारमाबिभ्राणाः श्यामरूपतया परिणमन्ते, निशि तु कृष्णाभाः, एतच प्रसरति दिवसे सूर्यकरनिकरम्, निशि तु चन्द्रोद्योते प्रत्यक्षत एव सिद्धः / त एव च्छायापरमाणव आदर्शादिभास्वरद्रव्य-प्रतिगताः सन्तः स्वसंबन्धिद्रव्याकारमादधाना यादृगवर्णाः स्वसंबन्धिनि द्रव्ये कृष्णो, नीलः, सितः, पीतोवा, तदाभाः परिणमन्ते। एतदप्यादर्शादिष्वध्यक्षतः सिद्धम् / ततोऽधिकृतसूत्रेऽपि ये मनुष्यस्य छायापरमाणव आदर्शादिकमुपसंक्रम्य स्वदेहवर्णा-भतया, स्वदेहाकारतया च परिणमन्ते, तेषां तत्रोपलब्धिर्न शरीरस्य, ते च प्रतिबिम्बशब्दवाच्याः। अत उक्तं न शरीरं पश्यति, किन्तु प्रतिभागमिति / नैवैतत्स्वमनीषिकाविजृम्भितम्। यत उक्तं आगमे"भासा उ दिवा छाया, अभासुरगता निसिं तु कालाभा। सा चेव भासुरगया, सदेहवन्ना मुणेयव्वा / / 1 / / जे आदरिसं तत्तो, देहावयवा हवंति संकंता। तेसिं तत्थऽवलद्धी, पगासयोगा न इयरेसिं'' // 2 // एतन्मूलटीकाकारोऽप्याह-यस्मात्सर्वमेव हि ऐन्द्रियकं स्थूलं द्रव्यं चयापचयधर्मकं, रश्मिवच भवति, यतश्चादर्शादिषु छाया स्थूलस्य दृश्यतेऽवगाढरश्मिनः / न चादर्श अनवगाढरश्मिनः स्थूलद्रव्यस्य कस्यचिदर्शनं भवति / न चान्तरितं दृश्यते किञ्चित्, अतिदूरस्थं वा इति। पलिभागं प्रतिभागं (पेहति) पश्यति / एवमसिमण्या-दिविषयाण्यपि षट् सूत्राण्यपि भावनीयानि। सूत्रपाठोऽप्येवम्- "असिं देहमाणं मणूसे किं असिं देहइ, अत्ताणं देहइ, पलिभाग देहइ" इत्यादि / प्रज्ञा०१५ पद / स्था०। स्फटिकादिमणौ, नि०चू० 13 उ०। 'अणायार' शब्देऽस्मिन्नेव भागे 313 पृष्ठे आदर्श मुखप्रलोकनप्रस्तावेऽप्येतदुक्तम्) अद्दागपासिण(न०)-पुं०(आदर्शप्रश्न) प्रश्नविद्याभेदे, यथा आदर्श देवताऽवतारः क्रियते / एतद्वक्तव्यताप्रतिबद्धे प्रश्नव्याकरणानामष्टमेऽध्ययने च / परमिदानी प्रश्नव्याकरणेषु एतदध्ययनं न दृश्यते। स्था०१ ठा० अदागविज्जा-स्त्री०(आदर्श विद्या) विद्याविशेषे, ययाऽऽतुर आदर्श प्रतिबिम्बितोपमृज्यमानः प्रगुणो जायते। व्य०५ उ०। अदागसमाण-पुं०(आदर्शसमान) आदर्शन समानस्तुल्य इति श्रमणोपासकभेदे, स्था० / यो हि साधुभिःप्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत्प्रतिपद्यते सन्निहितार्थानादर्शकवत्, स आदर्शसमानः।स्था०४ ठा०३ उ०। अद्दामलग-न०(आर्द्रामलक) पीलुवृक्षसंबन्धिनि मधुरे, (इति संप्रदायः)। ध०२ अधि०। पञ्चा०। "अद्दामलगप्पमाणं सचित्तपुढविकायं गेहति" / नि०चू०१ उ०। शणवृक्षसंबन्धिनि मुकुरे, प्रव०४ द्वारा