________________ अङ्गकुमार ५६०-अभिधानराजेन्द्रः - भाग 1 अहगकुमार सत् तदसर्वज्ञैरवग्दिर्शभिः समं सदृशं तुल्यमुदाहृतमुपन्यस्तं, स्वमत्या स्वाभिप्रायेण, न पुनर्य-थावस्थितपदार्थनिरूपणेन / अथवाआयुष्मन् ! हे एकदण्डिन् ! विपर्यासमेव विपर्ययमेवोदाहरेदसर्वज्ञो यदशोभनं तच्छोभनत्वेन; इतरत्वितरथेति / यदि वा(विपर्यास इति) मत्तोन्मत्तप्रलापवदित्युक्तं भवतीति / / 51 / / (११)तदेवमेकदण्डिनो निराकृत्याऽऽककुमारो यावद्भग-वदन्तिकं व्रजति तावद् हस्तितापसाः परिवृत्य तस्थुरिदं च प्रोचुरित्याहसंवच्छरेणावि य एगमेगं, बाणेण मारेउ महागयं तु। सेसाण जीवाण दयट्ठयाए, वासं वयं वित्तिं पकप्पयामो ||5|| हस्तिनं व्यापाद्यात्मनो वृत्तिं कल्पयन्तीति हस्तितापसाः, तेषां मध्ये कश्चिद् वृद्धतम एतदुवाच / तद्यथा-भो आर्द्रककुमार ! सश्रुतिकेन सदाऽल्पबहुत्वमालोचनीयम्, तत्र ये अमी तापसाः कन्दमूलफलाशिनस्ते बहूनां सत्त्वानां स्थावराणां तदाश्रितानां वोदुम्बरादिषु जङ्गमानामुपघाते वर्तन्ते / येऽपि च भक्ष्येणात्मानं वर्तयन्ति तेऽप्याशंसादोषदूषिता इतश्चेतश्चाटाट्यमानाः पि-पीलिकादिजन्तूनां उपघाते वर्तन्ते / वयं तु संवत्सरेणापि, अपिशब्दात् षण्मासेन चैकैकं हस्तिनं महाकायं बाणप्रहारेण व्यापाद्य शेषसत्त्वानां दयार्थमात्मनो वृत्ति वर्तनं तदामिषेण वर्षमेकं यावत्कल्पयामः / तदेवं वयमेकसत्त्वोपघातेन प्रभूततरसत्त्वानारक्षां कुर्म इति / / 521 // साम्प्रतमेतदेवाऽऽर्द्रककुमारोहस्तितापसमतं दूषयितुमाहसंवच्छरेणावि य एगमेगं, पाणं हणंता अणियत्तदोसा। सेसाण जीवाण वहेऽलगाय, सिया य थोवं गिहिणो वितम्हा॥५|| संवत्सरेणैकैकं प्राणिनंनतोऽपि प्राणातिपातादनिवृत्तदोषास्ते भवन्ति / आशंसादोषश्च भवतां पञ्चेन्द्रियमहाकायसत्त्व-वधपरायणानामतिदुष्टो भवति / साधूनां तु-सूर्यरश्मि-प्रकाशितवीथिषु युगमात्रदृष्ट्या गच्छतामीर्यासमितिसमितानां द्विचत्वारिंशद्दोषरहितमाहारमन्वेषयतां लाभालाभसमवृत्तीनां कुतस्त्य आशंसादोषः ? पिपीलिकादिसत्त्वोपघातो वेत्यर्थः / स्तोकसत्त्वोपघातेनैवं भूतेन दोषाभावो भवताऽभ्युपगम्यते, तथा च सति गृहस्था अपि स्वारम्भदेशवर्तिन एव प्राणिनो घन्तीति शेषाणांचजन्तूनां क्षेत्रकालव्यवहितानां भवदभिप्रायेण वधेन प्रवृत्तायत एवं तस्मात्कारणात्स्यादेवं स्तोकमतिस्वल्पं यस्माद् घन्ति ततस्तेऽपि दोषरहिता इति // 53|| साम्प्रतमार्द्रककुमारो हस्तितापसान्दूषयित्वा तदुपदेष्टारं दूषयितुमाहसंवच्छरेणावि य एगमेगं, पाणं हणंता समणव्वयेसु। आयाऽहिए ते पुरिसे अणजे, णतारिसे केवलिणो भवंति // 5|| श्रमणानां यतीनांव्रतानि श्रमणव्रतानि, तेष्वपिव्यवस्थिताः सन्त एकैकं / संवत्सरेणापि, ये घन्ति, ये चोपदिशन्ति, तेऽनार्याः, असत्कर्मानुष्ठायित्वात् / तथा- आत्मानं परेषां चाहितास्ते पुरुषाः / बहुवचनमार्षत्वात् / न तादृशाः केवलिनो भवन्ति / तथाहि-एकस्य प्राणिनः संवत्सरेणापिघाते येऽन्ये पिशिताश्रितास्तत्संस्कारे च क्रियमाणे स्थावरजङ्गमा विनाशमुपयान्ति, तेतैः प्राणि-वधोपदेष्टुभिर्न दृष्टाः। न च तैर्निरवद्योपायो माधुकर्या वृत्त्या यो भवति स दृष्टः, अतस्तेन केवलमक्वलिनो विशिष्टविवेक-रहिताश्चेति। तदेवं हस्तितापसान्निराकृत्य भगवदन्तिकं गच्छन्तमाईककुमार महता कलकलेन लोके नाभिष्ट्रयमानं तं समुपलभ्य अभिनवगृहीतः संपूर्णलक्षणसंपूर्णो हस्ती समुत्पन्नस्तथाविधविवेकोचितं यद् यथाऽऽर्द्रककुमारोऽयमपकृ ताशेषतीथिको निष्प्रत्यूहं सर्वज्ञपादपद्मान्तिकं वन्दनाय व्रजति, तथाऽहमपि यद्यप्यपगताशेष-बन्धनः स्यांतत एनं महापुरुषमाईककुमारं प्रतिबुद्धतस्कर-पञ्चशतोपेतं, तथा प्रतिबोधितानेकवादिगणसमन्वितं परमया भक्त्यैतदन्तिकं गत्वा वन्दामीत्येवं यावदसौ हस्ती कृत-संकल्पस्तावत्नटनटदिति त्रुटितसमस्तबन्धनः सन्नाककुमारा-भिमुखं प्रदत्तकर्णतालस्तथो प्रसारितदीर्घकरः प्रधावितः, तदनन्तरं लोकेन कृतहाहारवगर्भकलकलेन पूत्कृतम् / यथा- "धिक कष्टं हतोऽयमाईककुमारो महर्षिर्महापुरुषः तदेवं प्रलपन्तो लोका इतश्वेतश्च प्रपलायमानाः, असावपि वनहस्तीसमाग-त्याऽऽर्द्रककुमारसमीपं भक्तिसंभ्रमावनतानभागोत्तमाङ्गो निवृत्त-कर्णतालः त्रिः प्रदक्षिणीकृत्य निहितधरणीतलदन्ताग्रभागः स्पृष्टकराग्रतचरणयुगलः सुप्रणिहितमनाः प्रणिपत्य महर्षिवनाभिमुखं ययाविति। तदेवमार्द्रककुमारतपोनुभावाद् बन्धनोन्मुखं महागजमुपलभ्य स पौरजनपदः श्रेणिकराजस्तमाककुमारं महर्षि तत्तपःप्रभाव चाभिनन्द्याभिवन्द्य च प्रोवाच-भगवन् ! आश्चर्यमिदं, यदसौ वनहस्ती तादृगविधाच्छस्त्रोच्छेद्योच्छृङ्खलाबन्धनाद्युष्मत्तपःप्रभावान्मुक्त इत्येतदतिदुष्करमित्येवमभिहिते, आर्द्रकुमारः प्रत्याह- भोः श्रेणिक महाराज! नैतदुष्करं यदसौ वनहस्ती बन्धनान्मुक्तः। अपि त्वेतद्दुष्कर यत् स्नेहपाशमोचनं, एतच्च प्राङ्-नियुक्तिगाथया प्रदर्शितम्। सा चेयम्"ण दुक्करं वारणपासमोयणं, गयस्स मत्तस्स वणम्मि रायं ! / जहा उ तत्थाऽऽवलिएण तंतुणा, सुदुक्कर में पडिहाइ मोयणं' ||1|| एवमार्द्रककुमारेण राजानं प्रतिबोध्य तीर्थकरान्तिकं गत्वाऽभिवन्द्य च भगवन्तं भक्तिभरनिर्भर आसाञ्चक्रे / भगवानपि तानि पञ्चापि शतानि प्रव्राज्य तच्छिष्यत्वेनोपनिन्य इति // 54|| साम्प्रतं समस्ताध्ययनार्थोपसंहारार्थमाहबुद्धस्स आणाएँ इमं समाहिं, अस्सि सुठिचा तिविहेण ताई। तरिउं समुदं च महाभवोघं, आयाणवंतं समुदाहरेजा // 55 // त्ति बेमि। बुद्धोऽवगततत्त्वः सर्वज्ञो वीरवर्द्धमानस्वामी, तस्य, आज्ञया तदाऽऽगमेन, इमं समाधि सद्धर्भावाप्तिलक्षणमवाप्यास्मि श्व समाधौ सुष्टु स्थित्वा मनोवाक्कायैश्च प्रणिहतेन्द्रियो न मिथ्यादृष्टिमनुमन्यते, केवलं तदाचरणजुगुप्सां त्रिविधेनापि करणेन न विधत्ते / स एवंभूत आत्मनः परेषां च त्राणशीलः, तायी वा गमनशीलो