________________ अहगकुमार 559 - अभिधानराजेन्द्रः - भाग 1 अङ्गकुमार सणातणं अक्खयमव्वयं च। सव्वेसु भूतेसु वि सव्वतो से, ___ चंदो व्व ताराहिँ समत्थरूवे // 47 // पुरिशयनात्पुरुषो जीवः,तंयथा भवन्तोऽभ्युपगतवन्तस्तथा वयमपि / तमेव विशिनष्टि-अमूर्त्तत्वादव्यक्तं रूपमस्यासाव-व्यक्तरूपः, तथा करचरणशिरोग्रीवाद्यवयवतया स्वतोऽवस्थानात् / तथा- महान्तं लोकव्यापिनं, तथा-सनातनं शाश्वतं, द्रव्यार्थतया नित्यं, नानाविधगतिसंभवेऽपि चैतन्यलक्षणात्मस्वरूपस्याप्रच्युतेः / तथाअक्षयं केनचित्प्रदेशानां खण्डशः कर्तुमशक्यत्वात्। तथा- अव्ययम्, अनन्तेनापि कालेनैकस्यापि तत्प्रदेशस्य व्ययाभावात्। तथा- सर्वेष्वपि भूतेषु कायाकारपरिणतेषु प्रतिशरीरं सर्वतः सामस्त्यान्निरंशत्वादसावात्मा भवति / क इव? चन्द्र इव शशीव, ताराभिरश्विन्यादिभिर्नक्षत्रैर्यथा समस्तरूपः संपूर्णः संबन्धमुपयात्येवमसावपि आत्मा प्रत्येकं शरीरैः सह संपूर्णः संबन्धमुपयाति, तदेवमेकदण्डिभिर्दशनसाम्यापादनेन सामवादपूर्वकं स्वदर्शनारोपणार्थमाईककुमारोऽभिहितः, यत्रैतानि संपूर्णानि निरुप-चरितानि पूर्वोक्तानि विशेषणानि, धर्म संसार-योर्विद्यन्ते, स एव पक्षः सश्रुतिकेन समाश्रयितव्यो भवति। एतानि चास्मदीय एव दर्शने यथोक्तानि सन्ति, नार्हते, अतो भवताऽप्यस्मद्दर्शनमेवाभ्युपगन्तव्यमिति॥४७॥ तदेवमभिहितः सन्नाककुमारस्तदुत्तरदानायाऽऽहएवं ण मिजंति ण संसरंति, न माहणा खत्तिय वेसपेस्सा। कीडा य पक्खी यसरीसिवाय, नरा य सव्वे तह देवलोए।४८| यदि वा प्राक्तनश्लोकः "अव्वत्तरूवं" इत्यादिको वेदान्तवाद्यात्माद्वैतमतेन व्याख्यातव्यः तथाहि-ते एकमेवाव्यक्तं पुरुषमात्मानं महान्तमाकाशमिव सर्वव्यापिनं सनातनमन-न्तमक्षयमव्ययं सर्वेष्वपि भूतेषु चेतनाचे तनेषु सर्वतः सर्वात्मतयाऽसौ व्यवस्थित इत्येवमभ्युपगतवन्तः / यथा-सर्वास्वपि तारास्वेक एव चन्द्रः संबन्धमुपयात्येवं चासावपि, इत्यस्य चोत्तरदानायाह-(एवमित्यादि) एवमिति / तथा- भवतां दर्शने एकान्तेनैव नित्योऽविकार्यात्माऽभ्युपगम्यते इत्येवं पदार्थाः सर्वेऽपि नित्याः / तथा च सति कुतो बन्धमोक्षसद्भावः ? बन्धाभावाचन नारकतिर्यड्नरामरलक्षणश्चतुर्गतिकः संसारः / मोक्षाभावाच निरर्थकं व्रतग्रहणं भवतां, पञ्चरात्रोपदिष्टयमनियमप्रतिपत्तिश्चेत्येवं च यदुच्यते भवता यथाऽऽक्योस्तुल्यो धर्म इति / तदयुक्तमुक्तम्। तथा-संसारान्तर्गतानांच पदार्थानां न साम्यम्। तथाहि- भवतां द्रव्यैकत्ववादिनां सर्वस्य प्रधानादभिन्नत्वात्कारप्पमेवास्ति, कार्य च कारणाभिन्नत्वात्सर्वात्मना न विद्यते। अस्माकं च द्रव्य-पर्यायोभयवादिनां कारणे कार्यं द्रव्यात्मतया विद्यते, नपर्यायात्मकतया। अपिच-अस्माकमुत्पादव्ययघौव्ययुक्तमेव सदित्युच्यते; भवतां तुघौव्यंयुक्तमेव सदिति। यावप्याविर्भावतिरोभावौ भवतोच्येते,तावपि नोत्पादविनाशावन्तरेण भवितुमुत्सहेते / तदेवमैहिकामुष्मिकचिन्तायामावयोन कथशित्साम्यम् / किंच- सर्वव्यापित्वे सर्वात्मनामविकारित्वे चात्माद्वैते चाभ्युपगम्यमाने नारकतिर्यनराऽमरभेदन बालकुमारकसुभगदुर्भगाऽऽन्यदरिद्रा-दिभेदेन वा न मीयेरन्न परिच्छे-घेरन्, नापि स्वकर्मचोदिता नाना-गतिषु संसरन्ति, सर्व व्यापित्वादेकत्वाद्वा। तथा- नब्राह्मणाः, न क्षत्रियाः, न वैश्याः, न प्रेष्या न शूद्राः, नापि कीटपक्षिसरीसृपाश्च भवेयुः / तथा- नराश्च सर्वेऽपि देवलोकाश्चेत्येवं नानागतिभेदे नो भिद्येरन्। अतो न सर्वव्यापी आत्मा, नाप्यात्माद्वैतवादोऽप्यायाति, अतः प्रत्येकं सुखदुःखानुभवः समुपलभ्यते / तथा- शरीरत्वक्पर्यन्तमात्र एवात्मा, तत्रैव तद्गुणविज्ञानोपलब्धेरिति स्थितम् // 48 // तदेवं व्यवस्थिते युष्मदागमो यथार्थाभिधायी न भवति, असर्वज्ञप्रणीतत्वात, असर्वज्ञप्रणीतत्वं चैकान्तपक्षसमाश्रयणादित्येवमसर्वज्ञस्य मार्गोद्भावनं दोषमाविर्भावयन्नाहलोयं अयाणित्तिह केवलेणं, कहंति जे धम्ममजाणमाणा। णासंति अप्पाण परं च णट्ठा, संसारघोरम्मि अणोरपारे॥४६॥ लोकं चतुर्दशरज्वात्मकं, चराचरं वा लोकम, अज्ञात्वा केवलेन दिव्यज्ञानावभासेनेहास्मिन् जगति, ये तीर्थका अजानाना अविद्वांसो धर्म दुर्गतिगमनमार्गस्यार्गलाभूतं, कथयन्ति प्रतिपादयन्ति, ते स्वतो नष्टा अपरानपि नो त्रायन्ते / क्व ?, घोरे भयानके संसारसागरे (अणोरपारे त्ति) अर्वाग्भागपरभागवर्जितऽनाद्यनन्त इत्येवंभूते संसारार्णवे आत्मानं प्रक्षिपन्तीति यावत्॥४६॥ साम्प्रतं सम्यग्ज्ञानवतामुपदेष्ट्रणां गुणानाविर्भावयन्नाहलोयं विजाणंतिह केवलेणं, पुग्नेण नाणेण समाहिजुता। धम्म समत्तं च कहंति जे ऊ, तारंति अप्पाण परं च तिन्ना ||5|| लोकं चतुर्दशरज्ज्वात्मकं केवलालोकेन केवलिनो विविध-मनेकप्रकारं जानन्ति विदन्तीहास्मिन् जगति प्रकर्षण जानाति प्रज्ञः, पुण्यहेतुत्वात् पुण्यम् / तेन तथाभूतेन ज्ञानेन समाधिना च युक्ताः, समस्तं धर्म श्रुतचारित्ररूपं, ये तु परहितैषिणः, कथयन्ति प्रतिपादयन्ति, ते महापुरुषास्ततः संसारसागरं तीर्णाः, परं च तारयन्ति सदुपदेशदानत इति के वलिनो लोकं जानन्तीत्युक्ते यत्पुनाने नेत्युक्तं तद् बौद्धमतोच्छेदेन ज्ञानाधार आत्मा अस्तीति प्रतिपादनार्थमिति एतदुक्तं भवति-यथाऽऽदेशिकः सम्यड्मार्गज्ञ आत्मानं परं च तदुपदेशवर्तिन महाकान्ताराद्विवक्षितदेशप्रापणेन निस्तारयत्येवं केवलिनोऽप्यात्मानं परं च संसारकान्तारान्नि-स्तारयन्तीति / / 50|| पुनरप्याककुमार एवाहजे गरहियं ठाणमिहावसंति, जे यावि लोए चरणोववेया। उदाहमंतं तु समं मईए, __ अहाउसो ! विप्परियासमेव // 51 // असर्वज्ञप्ररूपणमेवंभूतं भवति / तद्यथा- ये के चित्संसारा न्तर्वर्तिनोऽशुभकर्मणोपेता समन्वितास्तद्विपाकसहायाः, गर्हितं निन्दितं जुगुप्सितं निर्विवेकिजनाचरितं, स्थानं पदं कर्मानुष्ठानरूपमिहास्मिन् जगति, आसेवन्ते जीविकाहेतुमाश्रयन्ति, यथा चये सदुपदेशवर्तिनो लोकेऽस्मिन् चरणेन विरतिपरिणामरूपेणोपेता; समन्विताः, तेषामुभयेषामपि, यदनुष्ठानं शोभनाशोभनस्वरूपमपि