________________ अहगकुमार 558- अभिधानराजेन्द्रः - भाग 1 अहगकुमार जे भोयए णितिए कुलालयाणं / से गच्छती लोलुवसपगाढे, तिव्वामितावीणरगामिसेवी ||4| स्नातकानां सहस्रद्वयमपि नित्यं ये भोजयन्ति। किंभूतानाम् ? कुलानि गृहाणि, आमिषान्वेषणार्थिनो, नित्यं येऽटन्ति ते कुलाटा मार्जाराः, कुलाटा इव कुलाटा ब्राह्मणाः / यदि वा- कुलानि क्षत्रि- यादिगृहाणि तानि नित्यं पिण्डपातान्वेषिणां परतओ काणामालयो येषां ते कुलालयास्ते / निन्द्यजीविकोपगतानामेवंभूतानां यो सहस्रद्वयं भोजयेत्सः सत्पात्रनिक्षिप्तदानो गच्छति बहुवेदनासु गतिषु / किंभूतः सन् ? लोलुपैरामिषपरैः गृद्धैः रससातागौरवाद्युपपन्नैः जिह्वेन्द्रिय-वशगैः संप्रगाढो व्याप्तः / यदि वा- किंभूते नरके याति ? लोलुपैरामिषगृध्नुभिरसुमद्भिर्याप्तो यो नरकस्तस्मिन्निति / किं भूतश्चासौ दाता ? नरकाभिसे वी भवति / तद्दर्शय-तितीव्रोऽसह्यो योऽभितापः क्रकचपाटनकुम्भीपाकतप्तत्रपुपानशाल्मल्यालिङ्गना-दिरूपः, स विद्यते यस्यासौ तीव्राभितापी। इत्येवंभूतवेदना भितप्तस्त्रयस्त्रिंशत्सागरोपमानि यावदप्रतिष्ठाननरकाधिवासी भवतीति / / 44|| दयावरं धम्म दुगंछमाणा, वहावहं धम्म पसंसमाणा। एग विजे भोययती असीलं, णिओ णिसं जाति कुओऽसुरेहिं ?||4|| दया प्राणिषु कृपा, तया वरः प्रधानो यो धर्मस्तमेव धर्म, जुगुप्समानो निन्दन; तथा-वधं प्राण्युपमईमावहतीति वधावहस्तं तथाभूतं धर्म, प्रशंसन् स्तुवन, एकमप्यशीलं निर्वृत्तं, षड्जीवकायोपमर्दैन यो भोजयेत्, किं पुनः प्रभूतान् ? नृयो राजन्यो वा यः कश्चिन्मूढमति-र्धार्मिकमात्मानं मन्यमानः स वराको निशेव नित्यान्धकारत्वान्निशा नरकभूमिस्तां याति, कुतस्तस्यासुरेष्वप्यधमदेवेष्वपि प्राप्तिरिति ? तथा- कर्मवशादसुमतां विचित्रजातिगमनाजातेर-शाश्वतत्वम्, अतो नजातिमदो विधेय इति। यदपि कैश्चिदुच्यते यथा-ब्राह्मणा ब्रह्मणो मुखाद्विनिर्गताः, बाहुभ्यां क्षत्रियाः, ऊरुभ्यां वैश्याः, पद्भयां शूद्राः, इति / एतदप्यप्रमाणत्वादतिफल्गुप्रायम्। तदभ्युपगमेचन विशेषो वर्णानांस्यात्। एकस्मात्प्रसूतेर्बुध्नशाखाप्रतिशाखाग्रभूतपनसोदुम्बरादिफलवद्ब्रह्मणो वा मुखादेवयवानां चातुर्वर्ण्यावाप्तिः स्यात्, न चैतदिष्यते भवद्भिः। तथा- यदि ब्राह्मणादीनां ब्रह्मणो मुखादेरुद्भवः, साम्प्रतं किं न जायते ? अथ युगादावेतदित्येवं सति, दृष्टहानिरदृष्टकल्पना स्यादिति / तथा यदि कैश्चिदभ्यधायि सर्वज्ञनिक्षेपावसरे, तद्यथा- सर्वज्ञरहितो-ऽतीतः कालः, कालत्याद्वर्तमानकालवत्। एवं च सत्येतदपि शक्यते वक्तुम्- यथा नातीतः कालो ब्रह्ममुखादिविनिर्गतचातुर्वर्ण्यसमन्वितः, कालत्वाद्वर्तमानकालवत् / भवति च विशेष पक्षीकृते सामान्यहेतुरित्यतः प्रतिज्ञार्थंकदेशासिद्धता नाशङ्कनीयेति / जातेश्चानित्यत्वं युष्मत्सिद्धान्त एवाभिहितम् / तद्यथा 'शृगालो वा एष जायते यः सपुरीषो दह्यते' इत्यादिना। तथा "सद्यः पतति मांसेन, लाक्षया लवणेन च / त्र्यहेण शूद्रीभवति, ब्राहाणः क्षीरविक्रयी' ||1|| इत्यादिलोके चावश्यंभावी जातिपातः। यत उक्तम्'कायिकैः कर्मणां दोषै-र्याति स्थावरतां नरः / वाचिकैः पक्षिमृगतां, मानसैरन्त्यजातिताम्" // 1 // इत्यादि- गुणैरप्येवंविधैर्न ब्राह्मणत्वं युज्यते / तद्यथा- 'षट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि / अश्वमेधस्य वचनात्, न्यूनानि पशुभिस्त्रिभिः" / / 1 / / इत्यादि वेदोक्तत्वान्नायं दोष इति चेत् / नन्विदमभिहितमेव- "न हिंस्यात्सर्व भूतानि" इत्यतः पूर्वोत्तरविरोधः / तथा- "आततायिनमायान्तमपि वेदान्तगं रणे। जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् // 1 // तथा शूद्रं हत्वा प्राणायाम जपेत्, अपहसितं वा कुर्यात, यत्किञ्चिता दद्यात, तथा- 'नास्थिजन्तूनां शकटभरं मारयित्वा ब्राह्मणं भोजयेत्" इत्येवमादिका देशना विद्वज्जनमनांसि न रञ्जयतीत्यतोऽत्यर्थमसमञ्जसमिव लक्ष्यते युष्मदर्शनमिति॥४५॥ (10) तदेवमार्द्रककुमारं निराकृतब्राह्मणविवाद भगवदन्तिकं गच्छन्तं दृष्ट्या एकदण्डिनोऽन्तराले एवमूचुः। तद्यथा- भो आर्द्रककुमार! शोभनं कृतं भवता यदेते सर्वारम्भप्रवृत्ता गृहस्थाः शब्दादिविषयपरायणाः पिशिताशनेन राक्षसकल्पा द्विजातयो निराकृताः; तत्सांप्रतमस्मसिद्धान्तं शृणु, श्रुत्वा चावधारय। तद्यथा- सत्त्वरजस्तमसांसाम्यावस्था प्रकृतिः, "प्रकृतेर्महाँस्ततो-ऽहङ्कारस्तस्माद्गणश्च षोडशकः। तस्मादपि षोडशकात्पञ्च (तन्मात्राणि ते) भ्यः पञ्च भूतानि" / / 1 / / तथा चैतन्यं पुरुषस्य स्वरूपमिति / एतत्त्वार्हतैरप्याश्रितमतः पञ्चविंशतितत्त्वपरिज्ञानादेव मोक्षावाप्तिरित्यतोऽस्मत्सिद्धान्त एव श्रेयान्नापर इति। तथा न युष्मत्सिद्धान्तोऽतिदूरेण भिद्यते इति। एतद्दर्शयितुमाहदुहओ वि धम्मम्मि समुट्ठियामो, अस्सि सुठिचा तह एसकालं! आयारसीले बुइएऽह नाणं, णसंपरायम्मि विसेसमत्थि।।४६|| योऽयमस्मद्धर्मो, भवदीयश्चार्हतः, स उभयरूपोऽपि कथंचित्स-मानः / तथाहि-युष्माकमपि जीवास्तित्वे सति पुण्यपाप-बन्धमोक्षसद्भावः,न लोकायतिकानामिव तदभावे प्रवृत्तिः, नापि बौद्धानामिव सर्वाधारभूतस्यान्तरात्मन एवाभावः / तथाऽस्माकमपि पञ्च यमा अहिंसादयः, भवतां च त एव पञ्च महाव्रतरूपाः। तथेन्द्रियनोइन्द्रियनियमोऽप्यावयोस्तुल्य एव / तदेवमुभयस्मिन्नपि धर्मे बहुसमाने सम्यगुत्थानोत्थिता यूयं, वयं च, तस्मादस्मिन् धर्मे सुष्ठ स्थिताः, पूर्वस्मिन्, काले, वर्तमाने, एष्ये च, यथागृहीतप्रतिज्ञानिर्वोढारः / न पुनरन्ये यथा व्रतेश्वर-यागविधानेन प्रव्रज्यां मुक्तवन्तो, मुञ्चन्ति, मोक्ष्यन्ति चेति। तथाऽऽचारप्रधानं शीलमुक्तं यमनियमलक्षणं न फल्गुवत् कुहकाजीवनरूपम्, अथानन्तरं ज्ञानं च मोक्षाङ्गतयाऽभिहितं, तच श्रुतज्ञानं, केवलाख्यं च, यथास्वमावयोर्दर्शने प्रसिद्धम् / तथासंपर्ययन्ते स्वकर्मभिर्धाम्यन्ते प्राणिनो यस्मिन्स संपरायः संसारः, तस्मिश्चावयोर्न विशेषोऽस्ति / तथाहि- यथा भवतां कारणे कार्य नैकान्तेनासदुत्पद्यते, अस्माकमपि तथैव; द्रव्यात्मतया नित्यत्व भवद्भिरप्याश्रितमेव / तथोत्पादविनाशावपि युष्मदभिप्रेतो, आविर्भावतिरोभावाश्रयणादस्माकमपीति / / 46|| पुनरपि तथैवैकदण्डिनः सांसारिकजीवपदार्थसाम्यापादन-याऽऽहु:अव्वत्तरूपं पुरिसं महंतं,