________________ अहंगकुमार 557- अभियानराजेन्द्रः- भाग 1 अङ्गकुमार एतच तेषां महतेऽनायेति दर्शयतिजे यावि भुंजंति तहप्पगारं, सेवंति ते पावमजाणमाणा। मणं न एयं कुसला करेंति, वाया वि एसा बुझ्याउ मिच्छा / / 3 / / ये चापि रसगौरवगृद्धाः शाक्योपदेशवर्तिनः, तथाप्रकारं स्थूलोरभ्रं संस्कृतं घृतलवणमरिचादिसंस्कृतं पिशितंच, भुञ्जतेऽश्नन्ति, तेऽनार्याः, पापंकल्मषम्, अजानाना निर्विवेकिनः,सेवन्ते आददते।तथा चोक्तम् - "हिंसामूलममेध्यमास्पदमलं ध्यानस्य रौद्रस्य यद, बीभत्सं रुधिराविलं कृमिगृहं दुर्गन्धपूयादिकम्। शुक्रास्रक्प्रभवं नितान्तमलिनं सद्भिः सदा निन्दितं, को भुङ्क्ते नरकाय राक्षससमो मांसं तदात्मद्रुहः?" 11|| अपिच"मांस भक्षयिताऽमुत्र, यस्य मांसमिहाम्यहम्। एतन्मांसस्यमांसत्वं,प्रवदन्ति मनीषिणः" ||2|| तथा"योऽत्ति यस्य च तन्मांसमुभयोः पश्यतान्तरम्। एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते" ||3|| तदेवं महादोषं मांसादनमिति मत्वा यद्विधेयं तद्दर्शयतिएतदेवंभूतं मांसादनाभिलाषरूपं मनोऽन्तःकरणं, कुशला निपुणा मांसाशित्वविपाकवेदिनस्तन्निवृत्तिगुणाभिज्ञाश्च, न कुर्वन्ति, तद-भिलाषादात्मनो निवर्तयन्तीत्यर्थः / आस्तां तावद्भक्षणं, वागप्येषा यथा मांसभक्षणेऽदोष इत्यादिका भारत्यभिहितोक्ता मिथ्या। तुशब्दान्मनोऽपि तदनुमत्यादौ न विधेयमिति / तन्निवृत्तौ चेहैवानुपमा श्लाघा, अमुत्र च स्वर्गापवर्गगमन मिति। तथा चोक्तम् - "श्रुत्वादुःखपरम्परामतिघृणां मांसाशिनां दुर्गतिं, ये कुर्वन्ति शुभोदयेन विरतिं मांसादनस्यादरात्। तद्दीर्घायुरदूषितं गदरुजा संभाव्य यास्यन्ति ते, मर्त्यष्टभोगधर्ममतिषु स्वर्गापवर्गेषु च // 3aa इत्यादि। न केवलं मांसादनमेव परिहार्यमन्यदपि मुमुक्षूणां परि हर्त्तव्यमिति दर्शयितुमाहसव्वेसिजीवाण दयट्टयाए, सावज्जदोसं परिवजयंता। तस्संकिणो इसिणो नायपुत्ता, उद्दिभत्तं परिवज्जयंति||४|| सर्वेषां जीवानां प्राणार्थिनां, न केवलं पञ्चेन्द्रियाणामेवेति सर्वग्रहणम्। दयार्थतया दयानिमित्तं सावद्यमारम्भं महानयं दोष इत्येवं मत्वा तत्परिवर्जयन्तः साधवः / तच्छङ्किनो दोषशङ्किन ऋषयो महामुनयो ज्ञातपुत्रीयाः श्रीमन्-महावीरवर्द्धमानशिष्याः, उद्दिष्टं दानाय परिकल्पितं यद्भक्तपानादिकं, तत्परिवर्जयन्ति // 40 // किञ्चभूयामिसंकाएँ दुगंछमाणा, सव्वेसि पाणाण विहार दंडं। तम्हा ण मुंजंति तहप्पगारं, एसोऽणुधम्मो इह संजयाणं // 11 // भूतानां जीवानाम, उपमर्दशङ्कया सावद्यमनुष्ठानं जुगुप्समाना परिहरन्तः, तथा-सर्वेषां प्राणिनां दण्डयतीति दण्डः समुपतापस्तं, विहाय परित्यज्य, सम्यगुत्थिताः सत्साधवो यतस्ततो न भुञ्जते, तथाप्रकारमाहारमशुद्धजातीयमेषोऽनुधर्मः, इहास्मिन्प्रवचने, संयताना यतीनां तीर्थकराचरणात् / अनु पश्चाचर्यत इत्यनुना विशेष्यते / यदि चाणुरिति स्तोकेनाप्यतिचारेण वा बाध्यते शिरीषपुष्पमिव सुकुमार इत्यतोऽणुना विशेष्यत इति // 41 // किचाऽन्यत् - निगंथधम्मम्मि इमं समाहिं, अस्सिं सुठिचा अणिहो चरेजा। बुद्धे मुणी सीलगुणोववेए. अचस्थतं पाउणती सिलोगे||१२॥ अस्मिन्मौनीन्द्रधर्मे बाह्याभ्यन्तररूपो ग्रन्थोऽस्यास्तीति नि-ग्रन्थः, स चासौ धर्मश्च निर्ग्रन्थधर्मः, स च श्रुतचारित्राख्यः, क्षान्त्यादिको वा सर्वज्ञोक्तः, तस्मिन्नेवभूतेधर्मे व्यवस्थिते, इमं पूर्वोक्तं समाधिमनुप्राप्तः, अस्मिँश्वाशुद्धाहारपरिहाररूपे समाधौ, सुष्टु, अतिशयेन स्थित्वा, अनीहोऽमायः / अथवा- निहन्यत इति निहः, न निहोऽनिहः, परीषहैरपीडितः। यदि वा-स्निह बन्धने, स्निह इति स्नेहरूपबन्धनरहितः संयममनुष्ठानंचरेत्। तथा-बुद्धोऽवगततत्त्वो, मुनिः कालत्रयवेदी, शीलेन क्रोधाद्युपशमरूपेण, गुणैश्च मूलोत्तरगुणभूतैरुपेतो युक्त इत्येवंगुणकलितोऽत्यर्थतां सर्वगुणातिशायिनीं सर्वद्वन्द्वोपरमरूपां संतोषात्मिकां श्लाघां प्रशंसां लोके लोकोत्तरे वाऽऽप्नोति। तथा चोक्तम् - "राजानं तृणतुल्यमेव मनुते शक्रेऽपि नैवादरो, वित्तोपार्जनरक्षणव्ययकृताः प्राप्नोति नो वेदनाः। संसारान्तरवर्त्यपीह लभते संमुक्तवन्निर्भयः, संतोषात्पुरुषोऽमृतत्वमचिराद्यायात्सुरेन्द्रार्चितः" // 1 / / इत्यादि। (8) तदेवमाककुमारं निराकृतगोशालकाजीवकबौद्धमतमभिसमीक्ष्य साम्प्रतं द्विजातयः प्रोचुः / तद्यथा- भो आर्द्रककुमार ! शोभनमकारि भवता, यदेते वेदबाह्ये द्वे अपि मते निरस्ते, तत्साम्प्रतमप्यार्हतं वेदबाह्यमेव, अतस्तदपि नाश्रयणार्ह भवद्विधानाम् / तथाहि-भवान् क्षत्रियवरः, क्षत्रियाणां च सर्ववर्णोत्तमा ब्राह्मणा एवोपास्याः, न शूद्राः, अतो यागादिविधिना ब्राह्मणसेवैव युक्तिमतीत्येतत्प्रतिपादनायाऽऽहसिणायगाणं तु दुवे सहस्से, जे भोयए णितिए माहणाणं / ते पुन्नखंधे सुमहज्जणित्ता, भवंति देवा इति वेयवाओ॥४३॥ तुशब्दो विशेषणार्थः। षट्कर्माभिरता वेदाध्यापकाः शौचा-चारपरतया नित्यं स्नायिनो ब्रह्मचारिणः स्नातकाः,तेषां सहस्रद्वयं नित्यं ये भोजयेयुः कामिकाहारेण ते समुपार्जितपुण्य स्कन्धाः सन्तो देवाः स्वर्गनिवासिनो भवन्तीत्येवंभूतो वेदवाद इति // 43 / / अधुनाऽऽर्द्रककुमारएतद्दूषयितुमाहसिणायगाणं तु दुवे सहस्से,