________________ अहगकुमार 556- अभिवानराजेन्द्रः - भाग 1 अहगकुमार किञ्चान्यत् वायाभियोगेण जमावहेज्जा, णो तारिसं वायमुदाहरिजा। अट्ठाणमेयं वयणं गुणाणं, णो दिक्खिए बूयऽनुदालमेयं / / 33 / / याचाऽभियोगो वागभियोगः, तेनापि यद्यस्मात्, आवहेत् पापं कर्म, ततो विवेकी भाषागुणदोषज्ञो, न तादृशी भाषामुदाहरेन्नाभिदध्यात् / यत एवं ततोऽस्थानमेतद्वचनं गुणानाम्, नहि प्रव्रजितो यथावस्थितार्थाभिधाय्येतदनुदारमसुष्ठ परिस्थूरं निःसारं निरुप-पत्तिकं वचनं ब्रूयात् / तद्यथा- पिण्याकोऽपि पुरुषः; पुरुषोऽपि पिण्याकः / तथाऽलाबुकमेव बालकः, बालक एवाऽलाबुकमिति // 33 / / साम्प्रतमार्द्रककुमार एव तं भिक्षुकं युक्तिपराजितं सन्तं सोल्लुण्ठं बिभणिषुराहलद्धे अढे अहो एव तुब्भे, जीवाणुभागे सुविचिंतिए य। पुव्वं समुहं अवरं च पुढे, ओलोइए पाणितले ठिए वा||३४|| अहो ! युष्माभिः, अथानन्तर्ये वा, एवंभूताभ्युपगमे सति लब्धार्थों विज्ञानं यथावस्थितं तत्त्वमिति तथावगतः सु विचिन्तितो भवद्भिर्जीवानामनुभागः कर्मविपाकस्तत्पीडेति, तथैवंभूतेन विज्ञानेन भवतां यशः पूर्वसमुद्रमपरं च पृष्ठं गतमित्यर्थः / तथा भवद्भिरेवंविधविज्ञानावलोकनेनावलोकितः पाणितलस्थ इवायं लोक इति; अहो ! भवतां विज्ञानातिशयः, यदुत भवन्तः पिण्याकपुरुषयोर्बालाऽलाबुकयोर्वा विशेषानभिज्ञया पापस्य कर्मणो यथैतद्भावाभावं प्राक्कल्पितवन्त इति // 34 / / तदेवं परपक्षं दूषयित्वा स्वपक्षस्थापनायाऽऽहजीवाणुभागं सुविचिंतयंता, आहारिया अन्नविहे य सोहिं। न वियागरे छन्नपओपजीवी, एसोऽणुधम्मो इह संजयाणं // 3 // मौनीन्द्रशासनप्रतिपन्नाः सर्वज्ञोक्तमार्गाऽनुसारिणो जीवानामनुभागमवस्थाविशेष, तदुपमर्दैन पीडां वा, सुष्ठ विचिन्तयन्तः पर्यालोचयन्तोऽन्नविधौ शुद्धिमाहृतवन्तः स्वीकृतवन्तः, द्विचत्वारिंशद्दोषरहितेन, शुद्धेनाहारेणाहारं कृतवन्तो न तु यथा भवतां पिशिताद्यपि पात्रपतितं न दोषायेति / तथा-छन्नपदोपजीवी मातृ स्थानोपजीवी सन् न व्यागृणीयात् / एषोऽनन्तरोतो, अनु पश्चाद्धर्मोऽनुधर्मस्तीर्थकरानुष्ठानादनन्तरं भवतीत्यमुना विशिष्यते। इहास्मिन् जगति, प्रवचने वा, सम्यग्यतानां सत्साधूनां न तु पुनरेवंविधभिक्षूणामिति / यच्च भवद्भिरोदनादेरपि प्राण्यङ्ग-समानतया हेतुभूततया मांसादिसादृश्यं चोद्यते, तदविज्ञाय लोकतीर्थान्तरीयमतम्। तथाहि- प्राण्यङ्गत्वेन तुल्येऽपि कि-चिन्मासं किश्चिच्चामांसमित्येवं व्यवहियते / तद्यथा-मोक्षीररुधिरादेर्भक्ष्याभक्ष्यव्यवस्थितिः, तथासमानेऽपि स्त्रीत्वे भार्यास्वनादौ गम्यागम्यव्यवस्थितिरिति / तथाशुष्कतर्कदृष्ट्या यो प्राण्यङ्गत्वादिति हेतुर्भवतोपन्यस्यते / तद्यथा "भक्षणीयं भवेन्मांसं, प्राण्यङ्गत्वेन हेतुना / ओदनादिवदित्येवं, कश्चिदाहेति तार्किकः" |1|| सोऽसिद्धानकान्तिकविरुद्धदोषदुष्टत्वादपकर्णनीयः / तथाहि-निरंशत्वाद् वस्तुनस्तदेव मांसं, तदेव च प्राण्यङ्ग मिति प्रतिज्ञार्थं कदेशादसिद्धः / तद्यथा-नित्यः शब्दो नित्यत्वात् / अथ भिन्नं प्राण्यङ्ग, ततः सुतरामसिद्धः, व्यधिकरणत्वात् / यथा- देवदत्तस्य गृहं, काकस्य काष्र्ण्यम् / तथाऽनै कान्तिकोऽपि, श्वादिमांसस्याभक्ष्यत्वात् / अथ तदपि क्वचित्कथंचित्केषांचिद्भक्ष्यमिति चेत् ? एवं च सत्यन्यादेरभक्ष्यत्वादनैकान्तिकत्वम्। तथा-विरुद्धव्यभिचार्यपि, यथाऽयं हेतुर्मासस्य भक्ष्यत्वं साधयति, एवं बुद्धानामपूज्यत्वमपि / तथालोकविरोधिनी चेयं प्रतिज्ञा। मांसोदनयोरसाम्या दृष्टा-न्तविरोधश्चेत्येवं व्यवस्थिते यदुक्तं प्राग्- यथा बुद्धानामपि पारणाय कल्पत एतदिति, तदसाध्विति स्थितम् / / 3 / / अन्यदपि भिक्षुकोक्तमाककुमारोऽनूद्य दूषयितुमाहसिणायगाणं तु दुवे सहस्से, जे भोयए णितिए भिक्खुयाणं। असंजए लोहियपाणि से ऊ, णियच्छते गरिहमिहेव लोए॥३६|| स्नातकानां बोधिसत्त्वकल्पानां भिक्षणां नित्यं यः सहस्रद्वयं भोजये दित्युक्तं प्राक् / तद् दूषयति-असंयतः सन् रुधिरक्लिन्नपाणिरनार्य इव गहीं निन्दा जुगुप्सापदवीं साधुजनानामिह लोक एव निश्चयेन गच्छति, परलोके वाऽनार्यगम्यां गतिं यातीति / एवं तावत्सावद्याऽनुष्ठानानुमन्तॄणामपात्रभूतानां यद्दानं तत्कर्मबन्धायेत्युक्तम् / / 36 / / किञ्चान्यत्थूलं उभं इह मारिया णं, उद्दिमत्तं च पगप्पइत्ता। तं लोणतेल्लेण उवक्खडेत्ता, सपिप्पलीयं पगरंति मंसं // 37|| आर्द्रककुमार एव तन्मतमाविष्कुर्वन्निदमाह- स्थूलं बृहकायमुपचितमांसशोणितम्, उरभ्रमरणकम्, इह शाक्यशासने, भिक्षुकसंघोद्देशेन व्यापाद्य घातयित्वा, तथोद्दिष्टभक्तं च प्रकल्पयित्वा, तदुरभ्रमांसं लवणतैलाभ्यामुपसंस्कृत्य पाचयित्वा, सपिप्पलीकमपरद्रव्यसमन्वितं प्रकर्षेण भक्षणयोग्यं मांसं कुर्वन्तीति॥३७।। संस्कृत्य च यत्कुर्वन्ति, तईशयितुमाहतं मुंजमाणा पिसितं पभूतं, ण ओवलिप्पामो वयं रएणं। इचेवमाहंसु अणज्जधम्म, अणारिया बाल रसेसु गिद्धा॥३८|| तत्पिशितं शुक्रशोणितसंभूतमनार्या इव भुजाना अपि प्रभूतं तद्रजसा पापेन कर्मणानक्यमुपलिप्यामः, इत्येवंधाष्टोपेताः प्रोचुः। अनार्याणामिव धर्मः स्वभावो येषां ते तथाऽनार्य-कर्मकारित्वादनार्याः, बाला इव बाला विवेकरहितत्वाद्रसेषु च मांसादिकेषु गृद्धा अध्युपपन्नाः॥३८||