________________ अहंगकुमार 555 - अभियानराजेन्द्रः-भाग 1 अहगकुमार पिण्याकः खलः, तस्य पिण्डिभित्तकं, तदचेतनमपि सत् कस्मिंश्चित्संभ्रमेम्लेच्छादिविषये केनचिन्नश्यता प्रावरणं खलोपरि क्षिप्तं, तच म्लेच्छेनान्वेष्टु प्रवृत्तेन पुरुषोऽयमिति मत्वा, खलपिण्ड्या सह गृहीतम्, ततोऽसौम्लेच्छो वस्त्रवेष्टितां तां खलपिण्डी पुरुषबुद्ध्या शूले प्रोतां पावकेऽपचत् / तथा- अलाबुकं तुम्बकं कुमारोऽयमिति मत्वाऽनावेव पपाच, स चैवं चित्तस्य दुष्टत्वात्प्राणिवधजनितेन पातके न युज्यते अस्मत्सिद्धान्ते चित्तमूलत्वाच्छुभाशुभबन्धस्य, इत्येवं तावदकुशलचित्तप्रामाण्यादकुर्वन्नपि प्राणातिपातप्रतिघात-फलेन युज्यते // 26 // अमुमेव दृष्टान्तं वैपरीत्येनाऽऽहअहवा वि विभ्रूण मिलक्खु सूले, पिन्नागबुद्धीइ नरं पएजा। कुमारगं वा वि अलाबुयं ति, न लिप्पई पाणिवहेण अम्हं // 27 // अथवाऽपि सत्यपुरुषं खलबुद्ध्या कश्चिन्म्लेच्छः शूलप्रोतमग्नौ पचेत्, तथा- कुमारकं बालं, तुम्बकबुद्धयाऽनावेव पचेत् / नैवमेवासौ प्राणिवधजनितेन पातकेन लिप्यतेऽस्माकमिति // 27 / / किञ्चाऽन्यत्पुरिसं च विश्रूण कुमारगं वा, सूलम्मि केई पएज्जायतेए। पिन्नायपिंडी सतीमारुहेत्ता, बुद्धाण तं कप्पति पारणाए॥२८|| पुरुष वा,कुमारं वा, विद्ध्वा शूले कश्चित्पचेजाततेजस्यग्नावारुह्य खलपिण्डीयमिति मत्वा सती शोभनां तदेतबुद्धानामपि पारणाय भोजनाय कल्पते योग्यं भवति; किमुतापरेषाम् ? एवं सर्वास्ववस्थास्वचिन्तितं मनसाऽसंकलितं कर्मचयं नागच्छत्यस्मत्सिद्धान्ते / तदुक्तम्- "अविज्ञानोपचितं विपरिज्ञानोपचितमीर्यापथिक स्वप्नान्तिकं चेति कर्मोपचयं न याति // 28 // पुनरपि शाक्य एव दानफलमधिकृत्याऽऽहसिणायगाणं तु दुवे सहस्से, जे भोयए णितिए मिक्खुयाणं। तु पुन्नखंधं सुमहं जिणित्ता, भवंति आरोप्प महंतसत्ता / / 29ll स्नातका बोधिसत्त्वाः / तुशब्दात्पश्चशिक्षापदिकादिपरिग्रहः / तेषां भिक्षुकाणां सहस्रद्वयं, ये निजे शाक्यपुत्रीये धर्मे व्यवस्थिताः केचिदुपासकाः पचनपाचनाद्यपि कृत्वा भोजयेयुः समांस-गुडदाडिमेनेष्टन भोजनेन, ते पुरुषा महासत्त्वाः श्रद्धालवः पुण्य-स्कन्धं महान्तं समावणं, तेन च पुण्यस्कन्धेनारोप्याख्या देवा भवन्त्याकाशोपगाः, सर्वोत्तमा देवगतिं गच्छन्तीत्यर्थः // 26 // (7) तदेवं बुद्धेन दानमूलः, शीलमूलश्च धर्मः प्रवेदितः, तदेह्यागच्छ, बौद्धसिद्धान्तं प्रतिपद्यस्वेत्येवं भिक्षुकैरभिहितः सन्नाकोऽनाकुलया दृष्ट्या तान्वीक्ष्योवाचेदं वक्ष्यमाणमित्याहअजोगरूवं इह संजयाणं, पावं तु पाणाण पसज्झ काउं। आबोहिए दोण्ह वितं असाहु, __ वयति जे यावि पडिस्सुणंति॥३०|| इहास्मिन्भवदीये शाक्यमते, संयतानां भिक्षूणां, यदुक्तं प्राक्, तदत्यन्तेनायोग्यरूपमघटमानकम् / तथाहि- अहिंसार्थमुत्थितस्य त्रिगुप्तिगुप्तस्य पञ्चसमितिसमितस्य सतः प्रव्रजितस्य सम्यगज्ञानपूर्विकां क्रियां कुर्वतो भावशुद्धिः फलवती भवति, तद्विपर्यस्तमतेस्त्वज्ञानावृतस्य महामोहाकुलीकृतान्तरात्मतया खलपुरुषयोविवेकमजानतः कुतस्त्या भावशुद्धिः / अत्यन्तमसाम्प्रतमेतद् बुद्धमतानुसारिणाम्, यत्खलबुद्ध्या पुरुषस्य शूले प्रोतनपचनादिकम् / तथा बुद्धस्येवान्नबुद्ध्या पिशितभक्षणानुमत्यादिकमिति / एतदेव दर्शयति- प्राणानामिन्द्रिया-णामपगमेन तुशब्दस्यैवकारार्थत्वात् पापमेव कृत्वा रस-सातागौरवादिगृद्धास्तदभावं व्यावर्णयन्ति / एतच तेषां पापा- भावव्यावर्णनमबोध्यै अबोधिलाभार्थ तयोर्द्वयोरपि संपद्यते, अतोऽसाध्वेतत्। कयोद्धयोः? इत्याह-ये वदन्ति पिण्याकबुद्ध्या पुरुषपाके ऽपि पातकाभावं, ये च तेभ्यः शृण्वन्त्येतयोयोरपि वर्गयोरसाध्वेतदिति / अपि च नाज्ञानावृतमूढजनभावशुद्ध्या शुद्धिर्भवति। यदि च स्यात्, संसारमोचकादीनामपि तर्हि कर्मविमोक्षः स्यात् / तथा- भावशुद्धिमेव केवलामभ्युपगच्छता भवतां शिरस्तुण्डमुण्डनपिण्डपातादिकं, चैत्यकर्मादिकं चानुष्ठानमनर्थकमापद्यते, तस्मान्नैवंविधया भावशुद्ध्या शुद्धिरुपजायत इति स्थितम् // 30 // परपक्षं दूषयित्वाऽऽर्द्रकः स्वपक्षाऽविर्भावनायाऽऽहउड्डं अहेयं तिरियं दिसासु. विनाय लिंगं तसथावराणं। भूयामिसंकाइ दुगच्छमाणा, वदे करेजाव कुओ विहऽत्थि? ||31|| ऊर्ध्वमधस्तिर्यक्षु या दिशः प्रज्ञापनादिकास्तासु सर्वास्वपि दिक्षु, त्रसानां, स्थावराणां च जन्तूनां यत् त्रसस्थावरत्वेन जीवलिङ्गं चलनस्पन्दनाङ्कुरोद्भवच्छेदम्लानादिकं, तद्विज्ञाय भूता-भिशङ्कया जीवोपमर्दोऽत्र भविष्यतीत्येवंबुद्ध्या सर्वमनुष्ठानं जुगुप्समानस्तदुपमर्द परिहरन् वदेत् / (कुतोऽपि) अतः कुतोऽस्ती-हास्मिन्नेवंभूतेऽनुष्ठाने क्रियमाणे प्रोच्यमाने वाऽस्मत्पक्षे युष्म-दापादितो दोष इति ? // 31 // अधुना पिण्याके पुरुषबुद्ध्यसम्भवमेव दर्शयितुमाहपुरिसे त्ति विन्नत्तिन एवमत्थि, अणारिए सेऽपुरिसे तहा हु। को संभवो पिन्नागपिंडियाए? वाया वि एसा बुझ्या असचा // 32 // तस्यां पिण्याकबुद्ध्यां पुरुषोऽयमित्येवमत्यन्तजडस्यापि विज्ञप्तिरेव नास्ति, तस्माद्य एवं वक्ति सोऽत्यन्तोऽपुरुषः / तथा- ऽभ्युपगमेन, हुशब्दस्यैवकारार्थत्वेऽनार्य एवासौ यः पुरुषमेव खलोऽयमिति मत्वा हतेऽपि नास्ति दोष इत्येवं वदेत् / तथाहि-कः संभवः पिण्ड्यां पुरुषबुद्धेः ? इत्यतो वागपीयमीदृगसत्येति, सत्त्वोपघातकत्वात्। ततश्च निःशङ्कप्रहार्यनालोचको निर्विवे कतया बद्ध्यते, तस्मात् पिण्याककाष्ठादावपि प्रवर्तमानेन जीवोपमर्द-भीरुणा साशकेन प्रवर्तितव्यमिति // 32 //