________________ अङ्गकुमार 554 - अभिषानराजेन्द्रः - भाग 1 अङ्गकुमार क्रियमाणे तस्योदयार्थी श्रमण इति ब्रवीम्यहमिति // 20 // न चैवंभूता वणिज इत्येतदाककुमारो दर्शयितुमाहसमारभंते वणिया भूयगाम, परिग्गहं चेव ममायमाणा। ते णातिसंजोगमविप्पहाय, आयस्स हेउं पगरंति संगं / / 21 / / ते हि वणिजः, चतुर्दशप्रकारमपि भूतग्राम जन्तुसमूह, समारभन्ते तदुपमर्दिकाः क्रियाः प्रवर्तयन्ति, क्रयविक्रयार्थं शकटयानवाहनोष्ट्रमण्डलिकादिभिरनुष्ठानैरिति। तथा- परिग्रहं द्विपदचतुष्पदधनधान्यादिकं ममीकुर्वन्ति ममेदमित्येवं व्यवस्थापयन्तिाते हि वणिजो ज्ञातिभिः स्वजनैः सह यः संयोग-स्तमविप्रहायापरित्यज्य, आयस्य लाभस्य हेतोर्निमित्तादपरेण सार्द्ध सङ्गं संबन्धं प्रकुर्वन्ति / भगवांस्तु षड्जीवरक्षापरोऽपरिग्रहस्त्यक्तस्वजनपक्षः सर्वत्राप्रतिबद्धो धर्मार्थमन्वेषयन् गत्वाऽपि धर्मदेशनां विधत्ते, अतो भगवतो वणिग्भिः सार्द्धन सर्वसाधर्म्यमस्तीति // 21 // पुनरपि वणिजां दोषमुद्भावयन्नाहवित्तेसिणो मेहुणसंपगाढा, ते भोयणट्ठा वणिया वयंति। वयं तु कामेसु अज्झोववन्ना, अणारिया पेमरसेसु गिद्धे / / 22 / / वित्तं द्रव्यं तदन्वेष्टुं शीलं येषां ते वित्तैषिणः। तथा- मैथुने स्त्रीसंपर्के, संप्रगाढा अध्युपपन्नाः। तथा-ते भोजनार्थमाहारार्थ, वणिज इतश्चेतश्च व्रजन्ति, वदन्ति वा। तांस्तुवणिजो वयमेवं ब्रूमः- यथैते कामेष्वध्युपपन्ना गद्धाः, अनार्यकर्मकारित्वादनार्या रसेषु च सातागौरवादिषु गृद्धा मूर्च्छिताः,नत्वेवंभूता भगवन्तोऽर्हन्तः, कथं तेषां तैः सह साधर्म्यमिति ? दूरत एव निरस्तैषा कथेति॥२२॥ किश्चान्यत्आरंभगं चेव परिम्गहं च, अविउस्सिया णिस्सिय आयदंडा। तेसिंच से उदए जं वयासी, चउरंतऽणंताय दुहायणेह / / 23 / / आरम्भं सावद्यानुष्ठानं च, तथा-परिग्रहं चाऽव्युत्सृज्यापरित्यज्य, तस्मिन्नेवारम्भे क्र यविक्र यपचनपाचनादिके, तथा-परिग्रहे च धनधान्यहिरण्यसुवर्णद्विपदचतुष्पदादिके, निश्चयेन श्रिता बद्धा निःश्रिताः, वणिजो भवन्ति, तथाऽऽत्मैव दण्डो, दण्डयतीति दण्डो, येषां ते भवन्त्यात्मदण्डाः, असदाचारप्रवृत्तेरिति। भावोऽपि चैषां वणिजां परिग्रहारम्भवतां स उदयो लाभो यदर्थ ते प्रवृत्ताः,यं चत्वं लाभं वदसि, स तेषां चतुरन्तश्चतुर्गतिको यः संसारोऽनन्तस्तस्मै तदर्थं भवतीति। न चेहासावेकान्तेन तत्प्रवृत्तस्यापि भवतीति // 23 // एतदेव दर्शयितुमाहणेगंत णऽचंतिय उदएवं, वयंति, ते दो वि गुणोदयम्मि / से उदए सादि मणंत पत्ते, तमुदयं साहयइ ताइ णाई // 25 // एकान्तेन भवतीत्यैकान्तिकः, तथा न:तल्लाभार्थं प्रवृत्तस्य विपर्ययस्यापि दर्शनात् / तथा- नाप्यात्यन्तिकः सर्वकालभावी, तत्क्षयदर्शनात्;स तेषामुदयोलाभो नैकान्तिको नात्यन्तिकश्चेत्येवं तद्विदो वदन्ति। तौ च द्वावपि भावौ विगतगुणोदयौ भवतः। एतदुक्तं भवति-किं तेनोदयेन लाभरूपेण यो नैकान्तिकः, नात्यन्तिकश्व, पश्चादनायेति / यश्च भगवतः(से) तस्य दिव्यज्ञानप्राप्तिलक्षण उदयो लाभो यो वा धर्मदेशनाऽवाप्तनिर्जरालक्षणः, सच सादिरनन्तश्च। तमेवंभूतमुदयं प्राप्तो भगवानन्येषामपि तथा- भूतमेवोदयं साधयति कथयति, श्लाघते वा। किंभूतो भगवान् ? तायी। अय-वय-मय-पय-चय-तय-णयगतावित्यस्य दण्डकधातोणिनिप्रत्यये रूपम, मोक्षं प्रति गमनशील इत्यर्थः / त्रायी वा, आसन्नभव्यानां त्राण-करणात्। तथा- ज्ञाती, ज्ञाता क्षत्रिया, ज्ञातं वा वस्तुजातं विद्यते यस्य स ज्ञाती; विदितसमस्तवेद्य इत्यर्थः / तदेवंभूतेन भगवता तेषां वणिजां निर्विवे किनां कथं सर्वसाधर्म्यमिति ? // 24 // (6) सांप्रतं कृतदेवसमवसरणपद्मावलीदेवच्छन्दकसिंहास-नाद्युपभोग कुर्वन्नप्याधा कर्मकृतवसतिनिषेधकसाधुवत्कथं तद-नुमतिकृतेन कर्मणाऽसौ न लिप्यते ? इत्येतद्गोशालकमत-माशङ्कयाऽऽहअहिंसयं सव्वपयाणुकंपी, धम्मे ठियं कम्मविवेगहेउं। तमायदंडेहिं समायरंता, अबोहिए-ते पडिरूवमेयं / / 2 / / असौ भगवान् समवसरणाद्युपभोगं कुर्वन्नप्यहिंसकः सन्नुपभोगं करोति। एतदुक्तं भवति-नहितत्र भगवतो मनागप्याशंसा, प्रतिबन्धो वा विद्यते, समतृणमणिमुक्तालोष्टकाञ्चनतया तदुपभोगं प्रति प्रवृत्तेर्देवानामपि प्रवचनोद्विभावयिषूणां कथं नु नाम भव्यानां धर्माभिमुखं प्रवृत्तिर्यथा स्यादित्येवमर्थमात्मलाभार्थच प्रवर्तनात्, अतो भगवानहिंसकः। तथासर्वेषां प्रजायन्त इति प्रजा जन्तवः, तदनुकम्पी च, तान्संसारे पर्यटतोऽनुकम्पयते तच्छीलश्च / तमेवंरूपं धर्मपरमार्थरूपे व्यवस्थित कर्मविवेकहेतुभूतं भवद्विधा आत्म-दण्डैः समाचरन्त आत्मकल्पं कुर्वन्ति, वणिगादिभिरुदाहरणैः / एतचाबोधेरज्ञानस्य प्रतिरूपं वर्तते। एकंतावदिदमज्ञानं यत्स्वतः कुमार्गप्रवर्तनम्। द्वितीयं चैतत्प्रतिरूपमज्ञानं यद् भगवतामपि जगद्वन्द्यानां सर्वातिशयनिधानभूतानामितरैः समत्वापादनमिति // 25 // साम्प्रतमार्द्रककुमारमपहस्तितगोशालकं ततो भगवदभिमुखं गच्छन्तं दृष्ट्वाऽथान्तराले शाक्यपुत्रीया भिक्षव इदमूर्यदेत-द्वणिग्दृष्टान्तदूषणेन बाहामनुष्ठानं दूषितं, तच्छोभनं कृतं भवता; यतोऽतिफल्गुप्राय बाह्यमनुष्ठानम्, आन्तरमेव त्वनुष्ठानं संसार-मोक्षयोः प्रधानाङ्गम्, अस्मत्सिद्धान्ते चैतदेव व्यावर्ण्यते। इत्येत-दाईककुमार! भो राजपुत्र! त्वमवहितः शृणु, श्रुत्वा चावधारयेति भणित्वा ते भिक्षुका आन्तरानुष्ठानसमर्थकमात्मीयसिद्धान्ता-ऽऽविर्भावनायेदमाहुः• पिन्नागपिंडीमवि विद्धसूले, केई पएज्जा पुरिसे इमे त्ति। अलाउयं वा वि कुमारए त्ति, स लिंपती पाणिवहेण अम्हं // 26 //