________________ अहगकुमार 553- अभिधानराजेन्द्रः - भाग 1 अङ्गकुमार हीनाः, जात्याद्यतिरिक्ता वा, ताभ्यां पराजितस्य महाँश्छायाभंश इति। तानेव विशिनष्टिलपन्तीति लपा वाचालाः, घोषितानेकतर्कविचित्रदण्डकाः। तथा- न लपा मौनव्रतिका निष्ठतयोगाः, गुटिकादियुक्ता वा, यद्वशादभिधेयविषया वागेव न प्रवर्तते / ततस्तद्भयेनासौ युष्मत्तीर्थकृदागन्तागार दौ नैव व्रजतीति।।१५।। पुनरपि गोशालक एवाऽऽहमेहाविणो सिक्खिय बुद्धिमंता, सुत्तेहिँ अत्थेहिँ य णिच्छयन्ना। पुच्छिसु मा णे अणगार अन्ने, इति संकमाणो ण उवेति तत्थ।।१६|| मेधा विद्यते येषां ते मेधाविनो ग्रहणधारणसमर्थाः, तथाऽऽचार्यादः समीपे शिक्षा ग्राहिताः शिक्षिताः, तथौत्पत्तिक्यादि-चतुर्विधबुद्ध्युपेता बुद्धिमन्तः, तथा-सूत्रेऽपि सूत्रविषयेऽर्थे विनिश्चयज्ञाः, यथावस्थितसूत्रार्थवेदिन इत्यर्थः / ते चैवंभूताः सूत्रार्थविषयं मा प्रश्नमकार्षुः, अन्येऽनगरा एके केचन, इत्येवमसौ शङ्कमानस्तेषां बिभ्यन्न तत्र तन्मध्ये उपैत्युपगच्छतीति / ततश्च न ऋजुमार्ग इति, भययुक्तत्वात्तस्य / तथा-म्लेच्छविषयं गत्वा न कदाचिद्धर्मदेशनां च करोति, आर्यदेशेऽपिन सर्वत्र / अपितु कुत्रचिदेवेत्यतो विषमदृष्टित्वाद् रागद्वेषवय॑साविति / / 16 / / एतद् गोशालकमतं परिहर्तुकाम आर्द्रक आहणोऽकामकिच्चा ण य बालकिच्चा, रायामिओगेण कुओ भएणं?| वियागरेज्जा पसिणं नवा वि, सकामकिच्चं सिह आरियाणं / / 17|| स हि भगवान्प्रेक्षापूर्वकारितया नाकामकृत्योभवति, कमनं काम इच्छा; न कामोऽकामस्तेन कृत्यं कर्त्तव्यं यस्यासावकामकृत्यः, स एवंभूतो न भवति, अनिच्छाकारीन भवतीत्यर्थः / यो युत्प्रेक्षापूर्वकारितया वर्तते, सोऽनिष्टमपि स्वपरात्मनो निर-र्थकमपि कृत्यं कुर्वीत। भगवांस्तु सर्वज्ञः सर्वदर्शी परहितैकरतः कथं स्वपरात्मनोनिरुपकारकमेवं कुर्यात् ? तथा च-बालस्येव कृत्यं यस्य स बालकृत्यः, न चासो बालवदनालोचितकारी, न परानुरोधान्नापि गौरवाद्धर्मदेशनादिकं विधत्ते / अपि तु यदि कस्यचिद्भव्यसत्त्वस्योपकाराय तद्भाषितं भवति, ततः प्रवृतिर्भवति, नान्यथा / न राजाभियोगेनासौ धर्मदेशनादौ कथञ्चित्प्रवर्तते, ततः कुतस्तस्य भयेन प्रवृत्तिः स्यादित्येवं व्यवस्थिते केनचित्क्वचित्संशयकृतं प्रश्नं व्यागृणीयाद्, यदि तस्योपकारो भवत्युपकारमन्तरेण न च नैव व्यागृणीयाद्, यदि वाऽनुत्तरसुराणां मनःपर्यायज्ञानिनां च द्रव्यमनसैव तन्निर्णयसं भवादतो न व्यागृणीयादित्युच्यते / यदप्युच्यते भवता यदि वीतरागोऽसौ किमति धर्मकथां करोतीति चेदित्याशङ्कयाहस्वकामकृत्येन स्वेच्छाचारितयाऽसावपि तीर्थ कृन्नामकर्मणः क्षपणाय न यथाकथञ्चिदतोऽसावग्लानः, इहास्मिन् संसारे आर्यक्षेत्रे चोपकारयोग्ये आर्याणां हि सर्वहे यधर्मदूरवर्तिनां तदुपकाराय धर्मदेशनां व्यागृणीयादसाविति / किञ्चाऽन्यत् - गतां च तत्था अदुवा अगता, वियागरेजा समियाऽऽसुपन्ने। अणारिया दंसणओ परित्ता, इति संकमाणा ण उवेति तत्थ / / 18|| स हि भगवान् परहितैकरतो गत्वाऽपि विनेयासन्नम्, अथवा-ऽप्यगत्वा यथा भव्यसत्त्वोपकारो भवति तथा भगवन्तोऽर्हन्तोधर्मदेशनां विदधति। उपकारे सति गत्वाऽपि कथयन्ति, असति तु स्थिता अपिन कथयन्ति / अतो न तेषां रागद्वेषसंभव इति / केवलमाशुप्रज्ञः सर्वज्ञः समतया समदृष्टितया चक्रवर्त्तिद्रमकादिषु पृष्टो वा धर्म व्यागृणीयात्; "जहा पुण्णस्स कत्थइ तहा तुच्छरस कत्थई'' इति वचनात् / इत्यतो न रागद्वेषसद्भावस्तस्येति / यत्पुनरनार्यदशमसौ न व्रजति तत्रेदमाहआनार्याः क्षेत्रभाषा-कर्मभिर्बहिष्कृताः, दर्शनतोऽपि परि समन्तादिता गताः, प्रभ्रष्टा इति यावत् / तदेवमसौ भगवानित्येतत् तेषु सम्यग्दर्शनमात्रमपि कथंचिन्न भवति इत्याशङ्कमानस्तत्र न व्रजतीति। यदि वा विपरीत-दर्शनिनो भवन्त्यनार्याः शकयवनादयः, ते हि वर्तमानसुखमेवैकमङ्गीकृत्य प्रवर्तन्ते, न पारलौकिकमङ्गीकुर्वन्त्यतः सद्धर्मपराङ्मुखेषु तेषु भगवान्न याति, न पुनस्तद्-द्वेषादिबुद्ध्येति / यदप्युच्यतेत्वया यथाऽनेकशास्त्रविशारंदगुटिकासिद्धविद्यासिद्धादितीर्थकपराभवभयेन न तत्समाजे गच्छतीति / एतदपि बालप्रलपितप्रायम् / यतः सर्वज्ञस्य भगवतः समस्तैरपि प्रावादु कै मुखमप्यवलोकयितुं न शक्यते, वादस्तु दूरोत्सारित एवेत्यतः कुतस्तस्य पराभवः? भगवाँस्तु केवलालोकेन यत्रैव स्वपरोप-कारं पश्यति तत्रैव गत्वाऽपि धर्मदेशनां विधत्त इति // 18 // पुनरन्येन प्रकारेण गोशालक आहपन्नं जहा वणिए उदयट्ठी, आयस्स हेउं पगरेति संग। तओवमे समणे नायपुत्ते, इन्चेव मे होति मती वियको ||16|| यथा वणिक् कश्चिदुदयार्थी पण्यं व्यवहारयोग्यं भाण्ड कर्पूरागरुकस्तूरिकाम्बरादिकं देशान्तरंगत्वा विक्रीणाति, तथा आयस्य लाभस्य हेतोः कारणान्महाजनसङ्गं विधत्ते, तदु-पमोऽयमपि भवत्तीर्थकरः श्रमणो ज्ञातपुत्र इत्येवं मे मम मतिर्भवति, वितर्को मीमांसा वेति॥१९॥ एवमुक्तो गोशालकेनाईक आहनवं न कुजा विहुणे पुराणं, चिचाऽमइंताई स आह एव। पन्नावया वंभवतं ति वुत्ता, तस्सोदयट्ठी समणे त्ति बेमि // 20 // योऽयं भवता दृष्टान्तः प्रदर्शितः, स किं सर्वसाधर्म्यण, उत देशतः? यदि देशतस्ततोननः क्षतिमावहति। यतो वणिग्वद्यत्रैवोपचयं पश्यति तत्रैव क्रियां व्यापारयति, न यथा-कथञ्चिदित्येतावता साधर्म्यमस्त्येव / अथ सर्वसाधर्म्यणेति / तन्न युज्यते / यतो भगवान् विदितवेद्यतया सावद्यानुष्ठानरहितो नवं प्रत्यग्रं कर्म न कुर्यात् / तथाविधूनयत्यपनयति पुरातनं यद्भवोपग्राहिकर्म बद्धम् / तथा-त्यक्त्वा अमतिं विमति, त्रायी भगवान् सर्वस्य परित्राणशीलः, विमतिपरित्यागेन चैवंभूत एव भवतीति भावः / तायी वा मोक्ष प्रति। अय-वय-मय-पयचय-तय-णय गतावित्यस्य रूपम् / स एव भगवानेवाऽऽह- यथा विमतिपरित्यागेन चैवंभूत एव भवतीत्येतावता च संदर्भण ब्रह्मणो मोक्षस्य, व्रतं ब्रह्मव्रतमित्येतदुक्तम् / तस्मिँश्चोक्ते, तदर्थं वाऽनुष्ठाने