________________ अङ्गकुमार 551- अभिधानराजेन्द्रः - भाग 1 अहंगकुमार विर्भावज्ञानस्यजगदभ्युद्धरणप्रवृत्तस्यैकान्तपरहितप्रवृत्तस्य स्वकार्यनिरपेक्षस्य धर्म कथयतोऽपि, तुशब्दस्य अपि शब्दार्थत्वात्, नास्ति कश्चिद्दोषः / किंभूतस्य ? इत्याह क्षान्तिसंपन्नस्य, अनेन क्रोधनिरासमाह / तथा दान्तस्योपशान्तस्य, अनेन मानव्युदास-माहा तथा-जितानि स्वविषयप्रवृत्ति-निषेधेनेन्द्रियाणियेन स जितेन्द्रियः, अनेन तु लोभनिरासमाचष्टे / मायायास्तु लोभनिरासा-देव निरासो द्रष्टव्यः, तन्मूलत्वात्तस्याः | भाषादोषाः असत्यसत्या मूषक शाऽसभ्यशब्दोचारणादयः तद्विवर्जक स्य तत्परिहर्तुः। तथा-भाषाया ये गुणाः,हित मितदेशकालासंदिग्धभाषणादयः। तन्नि-वेधकस्य सतो ब्रूवतोऽपि नास्ति दोषः / छद्मस्थस्य हि बाहुल्येन मौनव्रतमेव श्रेयः, समुत्पन्नकेवलस्य तु भाषणमपि गुणायेति / / 5 / / किंभूतं धर्ममसौ कथयति ? इत्याहिमहव्वए पंच अणुव्व एय, तहेव पंचासव संवरे या विरतिं इह सामणियम्मि पन्ने, लवादसप्पी समणे त्ति बेमि / / 6 / / महान्ति च तानि व्रतानि प्राणातिपातविरमणादीनि, तानि च साधूनां प्रज्ञापितवान् पञ्चापि / तदपेक्षयाऽणूनि लघूनि व्रतानि पञ्चैव, तानि श्रावकानुद्दिश्य प्रज्ञापितवान्। तथैव पञ्चाश्रवान् प्राणातिपातादिरूपान् कर्मणः प्रवेशद्वारभूतान; तत्संवरं च सप्तदशप्रकारं संयम प्रतिपादितवान् / संवरवतो हि विरतिर्भवत्यतो विरतिं च प्रतिपादितवान् / चशब्दात्तत्फलभूतौ निर्जरामोक्षौ च। इहास्मिन् प्रवचने, लोके वा, श्रमणस्य भावः श्रामण्यं-संपूर्णः संयमः, तस्मिन् वा विधेये मूलगुणान् महाव्रताणुव्रतरूपान, तथाउत्तरगुणान् महाव्रताणुव्रतरूपान्, कृत्स्ने संयमे विधातव्ये / प्राज्ञ इति क्वचित्पाठः / प्रज्ञाने तत्प्रतिपादितवानिति / किंभूतोऽसौ ? लवं कर्म, तस्मात् (अवसप्पी ति) अवसर्पणशीलोऽवसी,श्राम्यतीति श्रमणः तपश्चरणयुक्तः, इत्येतदहं ब्रवीमि / स्वयमेव च भगवान्पञ्चमहाव्रतोपपन्न इन्द्रियनोइन्द्रियगुप्तो विरतश्चासौ लवावसी सन् स्वतोऽन्येषामपि तथाभूतमुपदेशं दत्तवान्, इत्येतद् बवीमीति / यदि वाऽऽर्द्रक कुमारवचनमाकाऽसौ गोशालकस्तत्प्रतिपक्षभूतं वक्तुकाम इदमाह- इत्येतद्वक्ष्यमाणं यदहं ब्रवीमि तच्छृणु त्वम्, इति॥६॥ यथाप्रतिज्ञातमेवाह गोशालकः-- सीओदगं सेवउ बीयकायं, आहायकम्मं तह इत्थियाओ। एगंतचारिस्सिह अम्हधम्मे, तवस्सिणो णाभिसमेति पावं |7|| भवतेदमुद्ग्राहितम्-परार्थं प्रवृत्तस्याशोकादिप्रातिहार्यपरिग्रहः, तथा शिक्षादिपरिकरो, धर्मदेशना च, न दोषायेति यथा, तथाऽस्माकमपि सिद्धान्ते यदेतद्वक्ष्यमाणं, तन्न दोषायेति / शीतं च तदुदकं च शीतोदकमप्रासुकोदकम्; तत्सेवनं परिभोगं करोतु, तथा-बीज कायोपभोगम, आधाकर्माश्रयणं, स्त्रीप्रसङ्ग च विदधातु, अनेन च स्वपरोपकारः कृतो भवतीति / अस्मदीये धर्मे प्रवृत्तस्य एकान्तचारिण आरामोद्यानादिष्वेकाकिविहारोद्यतस्य तपस्विनो नाभिसमेतिनाभिसंबन्धमुपयाति पापमशुभकर्मेति / इदमुक्तं भवति-एतानि शीतोदकादीनि यद्यपीषत्कर्मबन्धाय, तथापि धर्माधारं, शरीर प्रतिपालयत एकान्तचारिणस्तपस्विनो बन्धाय न भवन्तीति / / 7 / / (5) बीजाद्युपभोगिनो न श्रमणव्यपदेशभाजःसीतोदगं वा तह बीयकायं, आहायकम्मं तह इत्थियाओ। एयाइँ जाणं पडिसेवमाणा, अगारिणो अस्समणा भवंति||८|| एतत्परिहतुकाम आह-एतानि प्रागुपन्यस्तानि अप्रासुकोदकपरिभोगादीनि प्रतिसेवन्तोऽगारिणो गृहस्थास्ते भवन्त्यश्रमणाश्वाप्रव्रजिताश्चैवं जानीहि / यतः-"अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमलुब्धता'' इत्येतच्छ्रमणलक्षणं चैषां शीतोदक बीजाधाकर्मस्त्रीपरिभोगवतां नास्तीत्यतस्ते नामाकाराभ्यां श्रमणाः, न परमार्थानुष्ठानत इति॥८॥ पुनरप्याक एवैतदूषणायाहसिया य बीओदगइत्थियाओ, पडिसेवमाणा समणा भवंतु। अगारिणो वि य समणा भवंतु, सेवंति ऊ ते वि तहप्पगारं || स्यादे तद् भवदीयं मतं, यथा ते एकान्तचारिणः क्षुत्पिपासादिप्रधानतपश्चरणपीडिताश्च तत्कथं ते न तपस्विनः ? इत्येत. दाशङ्क्याऽऽर्द्रक आह-(बीओदग त्ति) यदि बीजाद्युपभोगिनोऽपि श्रमणा इत्येवं भवताऽभ्युपगम्यते, एवं तर्खगारिणोऽपि गृहस्थाः श्रमणा भवन्तु, तेषामपि देशिकावस्थायामाशंसावतामपि निष्किञ्चनतयैकाकिविहारित्वं, क्षुत्पिपासादिपीडनं च संभाव्यते / अत आह(सेवंति ऊ) तुरवधारणे, सेवन्त्येव, तेऽपि गृहस्थाः / तथाप्रकारमेकाकिविहारादिकमिति / / 6 / / पुनरप्याईको बीजोदकादिभोजिनां दोषाभिधित्सयाऽऽहजे याविबीओदगभोत्ति भिक्खू, भिक्खं वि हिंडंति य जीवियट्ठी। ते णातिसंजोगमविप्पहाय, कायोवगाऽणंतकरा भवंति|१०|| ये चापि भिक्षवः प्रव्रजिताः, बीजोदकभोजिनः सन्तो द्रव्यतो ब्रह्मचारिणोऽपि भिक्षां वाऽटन्ति जीवितार्थिनः, ते तथाभूताः, ज्ञातिसंयोगं स्वजनसंबन्धं, विप्रहाय त्यक्त्वा कायात्कायेषु चोपगच्छन्तीति कायोपगाः, तदुपमईकारम्भप्रवृत्तत्वात्, संसारस्यानन्तकरा भवन्तीति / इदमुक्तं भवति-केवलं स्त्रीपरिभोग एव तैः परित्यक्तोऽसावपि द्रव्यतः शेषेण तुबीजोदकाद्युपभोगेन गृहस्थकल्पा एव ते / यत्तु भिक्षाऽटनादिकमुपन्यस्यं तेषां, तद् गृहस्थानामपि केषांचित्संभाव्यते, नैतावता श्रमणभाज इति // 10 // अधुनैतदाकर्ण्य गोशालकोऽपरमुत्तरं दातुमसमर्थोऽन्यतीर्थ कान्सहायान् विधाय सोल्लुण्ठमसारं वक्तुकाम आहइमं वयं तु तुम पाउकुव्वं, पावाइणो गरिहसि सव्व एव।