________________ अगकुमार ५५०-अभिधानराजेन्द्रः - भाग 1 अङ्गकुमार सभागओ गणओ भिक्खुमज्झे। आइक्खमाणो बहुजन्नमत्थं, न संधयाती अवरेण पुव्वं // 2 // तं च राजपुत्रकमाईककुमारं प्रत्येकबुद्धं भगवत्समीपमागच्छन्तं गोशालकोऽब्रवीत्- यथा हे आर्द्रक ! यैदहं ब्रवीमि तच्छृणु। पुरा पूर्व, यदनेन भवत्तीर्थकृता कृतं तचेदमिति दर्शयति- एकान्तेजन-रहिते प्रदेशे चरितुं शीलमस्येत्येकान्तचारी, तथा श्राम्यतीति श्रमणः, पुराऽऽसीत्तपश्चरणोधुक्तः, सांप्रतं तूणैस्तपश्चरणविशेषैनिभर्सितो मां विहाय देवादिमध्यगतोऽसौ धर्मं किल कथयति, तथा भिक्षून् बहूनुपनीय प्रभूतशिष्यपरिकरं कृत्वा भवद्विधानां मुग्धजनानामिदानी पृथक् पृथग्, विस्तरेणाचष्टे धर्ममिति शेषः ||1|| पुनरपि गोशालक एव 'सा जीविया' इत्याद्याह-येयं बहुजनमध्यगतेन धर्मदेशना युष्मद्-गुरुणाऽऽरब्धा सा जीविका प्रकर्षण स्थापिता प्रस्थापिता, एकाकी विहरन लौकिकैः परिभूयत इति मत्वा लोकपङ्क्तिनिमित्तं महान् परिकरः कृतः / तथा चोच्यते - "छत्रछात्रं पात्रं,, वस्त्रं यष्टिच चर्चयति भिक्षुः / वेषेण परिकरण च, कियताऽपि विना न भिक्षाऽपि" ||1|| तदनेन दम्भप्रदानेन जीविकार्थमिदमारब्धम् / किंभूतेन ? अस्थिरेण, पूर्व ह्ययं मया सार्द्धमेकाक्यन्तप्रान्ताशनेन शून्यारामदेवकुलादौ वृत्तिं क-ल्पितवान्, न च तथाभूतमनुष्ठानं सिकताकवलवन्निरास्वादं यावज्जीवं कर्तुमलम्, अतो मां विहायायंबहून् शिष्यान् प्रतार्यवंभूतेन स्फुटाटोपेन विहरतीत्यतः कर्तव्येऽस्थिरश्चपलः, पूर्वचर्या-परित्यागेनापरकल्पसमाश्रयात्। एतदेव दर्शयति-सभायां गतः सदेवमनुजपर्षदि व्यवस्थितो (गणओ ति) गणशो बहुशः, अनेकश इति यावत्। भिक्षूणांमध्ये गतो व्यवस्थितः, आचक्षाणो बहुजनेभ्यो हितो बहुजन्योऽर्थस्तमर्थ बहुजनहितं कथयन् विहरति / एतचास्यानुष्टानं पूर्वापरेण न संधत्ते / तथाहि- यदि सांप्रतीयं वृत्तं प्राकारत्रयं सिंहासनाशोकवृक्षभामण्डलचामरादिकं मोक्षाङ्गमभविष्यत्ततो या प्राक्तन्येकचर्या क्लेशबहुला तया कृता सा क्लशाय के वलमस्येति / अथ कर्मनिर्जरणहेतुका परमार्थभूता, ततः साम्प्रतावस्था परप्रतारकत्वाद् दम्भकल्पेत्यतः पूर्वोत्तरयोरनुष्ठानयोनिव्रतिकधर्मदेशनारूपयोः परस्परतो विरोध इति // 2 // अपिचएगंतमेवं अदुवा वि इण्हिं, दोवग्गमन्नं न समेति जम्हा। (एगंतमित्यादि) यद्येकान्तचारित्रमेव शोभनं, पूर्वमाश्रितत्वात्ततः सर्वदाऽन्यनिरपेक्षैस्तदेव कर्तव्यम् / अथ चेदं साम्प्रतं महापरिवारवृत्तं साधु मन्यते, ततस्तदेवादावप्याचरणीयमासीत् / अपि च-द्वे अप्येते छायाऽऽतपवदत्यन्तविरोधनीवृत्ते नैकत्र समवायं गच्छतः। तथाहि-यदि मौनेन धर्मस्ततः किमियं महता प्रबन्धेन धर्मदेशना ? अथाऽनयैव धर्मस्ततः किमिति पूर्वं मौनव्रतमाललाप? यस्मादेवं तस्मात्पूर्वोत्तरव्याहतिः। (3) तदेवं गोशालकेन पर्यनुयुक्त आर्द्रककुमारः श्लोकपश्चार्द्धनोत्तरदानायाहपुट्विं च इन्निं च अणागतं वा, एगंतमेवं पडिसंधयाति||३|| (पुट्विं चेत्यादि) पूर्वं पूर्वस्मिन्काले, यन्मौनव्रतिकत्वं, या | चैकचर्या, तच्छद्मस्थत्वाद् घातिकर्मचतुष्टयक्षयार्थम् / सांप्रतं यन्महाजनपरिवृतस्य धर्मदेशनाविधानं, तत् प्राग्बद्धभवोपग्राहिकर्मचतुष्टयक्षपणोद्यतस्य विशेषतस्तीर्थकरनाम्नो वेदनार्थम्, अपरासां चोचैर्गोत्रशुभायु मादीनां शुभप्रकृतीनामिति / यदि वा पूर्व साम्प्रतमनागते च काले रागद्वेषरहितत्वादेकत्वभावनाऽनतिक्रमणाचैकत्वमेवानुपचरितं भगवानशेषं जनहितं धर्मं कथयन् प्रतिसंदधाति। नतस्य पूर्वोत्तरयोरवस्थयोरा-शंसारहितत्वाद्भेदोऽस्ति, अतो यदुच्यते भवता पूर्वोत्तर-योरवस्थयोरसाङ्गत्यं, तत् प्लवत इति // 3 // एतद्धर्मदेशनया प्राणिनां कश्चिदुपकारो भवत्युत नेति ? भवतीत्याहसमिच लोगं तसथावराणं, खेमंकरे समणे माहणे वा। आइक्खमाणो वि सहस्समज्झे, एगंतयं सारयती तहचे // 4 // सम्यग्यथावस्थितं लोकं षड्द्रव्यात्मकं मत्वाऽवगम्य के-वलालोकेन परिच्छिद्य, त्रस्यन्तीति सास्त्रसनामकर्मोदयात्, द्वीन्द्रियादयः, तथा तिष्ठन्तीति स्थावराः स्थावरनामकर्मोदयात्, स्थावराः पृथिव्यादयः, तेषामुभयेषामपि जन्तूनां, क्षेमंशान्तिः-रक्षा, तत्करणशीलः क्षेमंकरः। श्राम्यतीति श्रमणः- द्वादश-प्रकारतपोनिष्टप्सदेहः / तथा - 'मा हण' इति प्रवृत्तिर्यस्यासौ माहनः, ब्राह्मणो वा, स एवंभूतो निर्ममो रागद्वेषरहितः, प्राणिहितार्थं न लाभपूजाख्यात्यर्थ धर्ममाचक्षाणोऽपि, प्राग्वत् छद्मस्थावस्थायां मौनव्रतिक इव वाक्संयत उत्पन्नदिव्यज्ञानत्वाद्भाषागुणदोषविवेकज्ञतया भाषणेनैव गुणावाप्तेः, अनुत्पन्नदिव्यज्ञानस्यतु मौनव्रतिकत्वेनेति। तथा- देवासुरनर-तिर्यक्सहस्रमध्येऽपि व्यवस्थितः, पङ्काधारपङ्कजवत्, तद्दोष-व्यासङ्गाभावात्। ममत्वविरहादाशंसादोषविकलत्वादे-कान्तमेवासौ सारयति - प्रख्याति नयति, साधयतीति यावत्। ननु चैकाकिपरिकरोपेतावस्थयोरस्ति विशेषः, प्रत्यक्षेणैवोपल भ्यमानत्वात् / सत्यमस्ति / विशेषो बाह्यतो, न त्वान्तरतोऽपीति दर्शयति-तथा प्राग्वत्, अर्चा लेश्या शुक्लध्यानाख्या यस्य स तथार्चः। यदि वाऽर्चा शरीरं, तच प्राम्वद्यस्य स तथार्चः / तथाहि असावशोकाद्यष्टप्रातिहार्योपेतोऽपि नोत्सेकं याति, नापि शरीरं संस्कारायत्तं विदधाति। स हि भगवानात्यन्तिकराग द्वेषप्रहाणादेकाक्यपि जनपरिवृतो, जनपरिवृतोऽप्येकाकी, न तस्य तयोरवस्थयोः कश्चिद्विशेषोऽस्ति / तथा चोक्तम्- "रागद्वेषौ विनिर्जित्य, किमरण्ये करिष्यसि ? अथ नो निर्जितावेतौ, किमरण्ये करिष्यसि ?" ||1|| इत्यतो बाह्यतनं गमनान्तरमेव कषायजयादिकं प्रधानं कारणमिति स्थितम् // 4 // (4) अपगतरागद्वेषस्य प्रभाषमाणस्यापि दोषाभावं दर्शयितुमाहधम्मं कहंतस्स उणत्थि दोसा, खंतस्स दंतस्स जितिंदियस्स। भासायदोसे य विवज्जगस्स, गुणे य भासाय णिसेवगस्साशा तस्य भगवतोऽपगतघनघातिकलङ्कस्योत्पन्नसकलपदार्था