________________ अदत्तादाणवेरमण 545 - अभिधानराजेन्द्रः - भाग 1 अदत्तालोयण गृहपतेरुपाश्रये निलये वसेत- निवासं करोति, शय्यां शयनीयं तत्र गवेषयेन्मृगयेत् / न च विषमांसती समां कुर्यात्।न निर्वातप्रवातोत्सुकत्वं, कुर्यादिति वर्तते। न च दंशमशकेषु विषयेषु क्षुभितव्यम्-क्षोभः कार्यः / अतश्च दंशाद्यपनयनार्थमनिर्धूमो वा न कर्त्तव्यः / एवमुक्तप्रकारेण संयमबहुलः पृथिव्यादिसंरक्षणप्रचुरः, संवरबहुलः प्राणातिपाताद्याश्रवद्वारनिरोधप्रचुरः, संवृतबहुलः कषायेन्द्रियसंवृतप्रचुरः, समाधिबहुलश्चित्तस्वास्थ्यप्रचुरः, धीरो बुद्धिमान-क्षोभो वा, परीषहेषु कायेन स्पृशन् न मनोरथमात्रेण तृतीयसंवरमिति प्रक्रमगम्यम् / सततमध्यात्मनि आत्मानमधिकृत्य आत्मालम्बनं, ध्यानं चित्तनिरोधस्तेन युक्तो यः स तथा। तत्रात्मध्यानं 'अमुगगेहे, अमुगकुले, अमुगसिस्से, अमुगरम्मट्ठाणट्ठिए, न मे तस्विराहणे' इत्यादि- रूपणम्। (समीए ति) समितः समितिभिः, एकः ससहायोऽपि रागाद्यभावात् चरेदनुतिष्ठेत्, धर्म चारित्रम् / अथ तृतीयभावनानिगमनायाहएवमन्तरोदितन्यायेन शय्यासमिति-योगेन शयनीयविषयसम्यक् प्रवृत्तियोगेन, शेषं पूर्ववत्। चउत्थं साहारणपिंडवायलाभे सइ भोत्तव्वं संजएण समितं,न सायसूपादिकं, न क्खु घनं, न वेगियं, न तुरियं, न चवलं,न साहसं,नयपरस्सपीलाकरं सावजं, तह भोतव्वं जह से ततियं वयं न सीयति साहारणपिंडवायलाभे सुहमे अदिण्णादाणवयनियमवेरमणे, एवं साहारणपिंडवायलाभे समितिजोगेण भाविओ भवति अंतरप्पा णिचं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुण्णाय उग्गहरुयी||४|| इह चतुर्थ भावनावस्तु अनुज्ञातभक्तादिभोजनलक्षणम् / तचैवम्साधारणः सङ्घादिसाधर्मिकस्य सामान्यो यः पिण्डः, तस्य भक्तादेः, पात्रस्य पतद्ग्रहलक्षणस्य, उपलक्षणत्वादु-पध्यन्तरस्य च, पात्रे वाऽधिकरणे, लाभो दायकात्सकाशात् प्राप्तिः स साधारणपिण्डपात्रलाभः, तत्र सति, भोक्तव्य-मभ्यवहर्तव्यम् / परिभोक्तव्यं च केन कथम् ? इत्याह-संयतेन साधुना, (समियं ति) सम्यक्, यथाऽदत्तादानं भवतीत्यर्थः / सम्यक्त्वमेवाऽऽह - न शाकसूपादिकम्, साधारणस्य पिण्डस्य शाक सूपाधिके भागे भुज्यमाने सङ्घादिके साधोरप्रीतिरुत्पद्यते। ततस्तददत्तं भवति / तथा-न खलु धनं प्रचुरं, प्रचुरभोजनेऽप्यप्रीतिरेव, प्रचुरभोजनता च साधारणे पिण्डे भोजकान्तरापेक्षया वेगेन भुज्यमाने भवतीति। तन्निषेधायाह-नवेगितं, ग्रासस्य गिलने वेगवत् / न त्वरितं मुखक्षेपे; न चपलं हस्तग्रीवादिरूपकायचलनवत् / न साहसमवितर्कितम्, अत एव न च परस्य पीडाकरं च तत्सावा चेति परस्यपीडाकरं सावद्यम्, किंबहुनोक्तेन ? तथा भोक्तव्यं संयतेन नित्यं यथा (से) तस्य संयतस्य, तद्वा, तृतीयव्रतं न सीदति भ्रश्यति / दुरीक्षं चेदं, सूक्ष्मत्वात् / इत्यत आहसाधारण पिण्डपात्रे लाभे विषयभूते सूक्ष्म सुनिपुणमतिरक्षणीयत्वादणुकमपि तदित्याह- अदत्तादानविरमणलक्षणेन व्रतेन यन्नियमनमात्मनो नियन्त्रणं तत्तथा / पाठान्तरेण- अदत्तादानाद् व्रतमिति बुद्ध्या नियमेनावश्यतया / यद्विरमणं निवृत्तिस्तत्तथा / एतन्निगमयन्नाह- एवमुक्तन्यायेन साधारण-पिण्डपात्रलाभे विपयभूते समितियोगेन सम्यक्प्रवृत्तिसंबन्धेन भावितोभवत्यन्तरात्मा। किंभूतः ? इत्याह - 'निच्चमित्यादि' तथैव। पंचमगं साहम्मिएसु विणओ पउंजियव्वो। उवयरणपारणासु विणओ पउंजियो वायणपरियट्टणासु विणओ पउंजियव्वो, दाणग्गहणपुच्छणासु विणओ पउंजियव्वो, निक्खमण-. पवेसणासु विणओ पउंजियव्वो, अण्णेसु य एवमाइसु बहुसु कारणसतेसु विणओ पउंजिव्वो, विणओ वि तवो, तवो वि धम्मो, तम्हा विणओ पउंजियव्वो गुरुसु साहुसु तवस्सीसु य, एवं विणएण भाविओ भवति अंतरप्पा निचं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुण्णायउग्गहरुयी / / 5 / / (पंचमगं ति) पञ्चमं भावनावस्तु। किं तदित्याह-साधर्मिकेषु विनयः प्रयोक्तव्यः / एतदेव विषयभेदेनाह - (उवकरणपारणासु ति) आत्मनोऽन्यस्य वा उपकरणं ग्लानाद्यवस्थायामन्येनोप-कारकरणम्, तच पारणे तपसः श्रुतस्कन्धादिश्रुतस्य पारगमनम्, उपकरणपारणे, तयोः विनयः प्रयोक्तव्यो, विनयश्वेच्छा-कारादिदानेन बलात्कारपरिहारादिलक्षण एकत्र, अन्यत्र च गुर्वनुज्ञया भोजनादिकृत्यकरणलक्षणः। तथा-वाचना सूत्रग्रहणं, परिवर्तना तस्यैव गुणनम्, तयोविनयः प्रयोक्तव्यो वन्दना-दिदानलक्षणः / तथा- दानं लब्धस्यान्नादेग्लानादिभ्यो वितरणं, ग्रहणं तु तस्यैव परेण दीयमानस्यादानम्, प्रच्छना विस्मृत-सूत्रार्थप्रश्रः, एतासु विनयः प्रयोक्तव्यं, तत्र दानग्रहणयोर्गु-र्वनुज्ञालक्षणः / प्रच्छनायां तु वन्दनादिर्विनयः / तथा निष्क्रमण-प्रवेशनायास्तु आवश्यिकीनैषध्यादिकरणम् / अथवा हस्तप्रसारणपूर्वकं प्रमार्जनानन्तरं पादविक्षेपलक्षणः / किं बहुना प्रत्येक विषयभणनेनेत्यत आह-अन्येषु चैवभादिकेषु कारणशतेषु विनयः प्रयोक्तव्यः / कस्मादेवमित्याह(विनयोऽपि) न केवलमन-शनादितपः, अपितु विनयोऽपि तपो वर्तते, आभ्यन्तरतपोभेदेषु पठितत्वात्तस्य / यद्येवं ततः किम् ? अत आहतपोऽपि धर्मः, न केवलं संयमो धर्मः, तपोऽपि धर्मो वर्तते, चारित्रांशत्वात्तस्य। यत एवं तस्माद्विनयः प्रयोक्तव्यः। केषु? इत्याहगुरुषु साधुषु तपस्विषु च अष्टमादिकारिषु ; विनयप्रयोगे हि तीर्थकराद्यनुज्ञा-स्वरूपादत्तादानविरमणं परिपालितं भवतीति पञ्चमभावना-निगमनार्थमाह-एवमुक्तन्यायेन भावितो भवत्यन्तरात्मा। किंभूतः? - 'नित्यमित्यादि' पूर्ववत्॥ एवमिणं संवरस्सदारं सम्मंचरियं होइसुपणिहियं इमेहिं पंचहिं वि कारणेहिं मणवयणकायपरिरक्खिएहिं निचं आमरणंतं च एस जोगो नेयवो धिइमया मइमया अणासवो अकलुसो अच्छिद्दो अपरिस्साई असंकिलिट्ठो सुद्धो सव्वजिणमणुण्णाओ, एवं तइयं संवरदार फासियं पालियं सोहियं तिरियं किट्टियं सम्मं आराहियं आणाए अणुपालियं भवति, एवं नायमुणिणा भगवया पण्णवियं परूवियं पसिद्धं सिद्धिवरसासणमिणं आघवियं सुदेसियं पसत्थं ततियं संवरदारं सम्मतं त्ति बेमि / इदं च निगमनसूत्रं पुस्तकेषु किञ्चित् साक्षादेव यावत्करणेन चदर्शितम्। व्याख्या चास्य प्रथमसंवराऽध्ययनवदवसेयेति समाप्तभष्टमाऽध्ययनविवरणम्। प्रश्न०३ संव० द्वा०! अदत्ता(दिण्णा)लो यण-त्रि० (अदत्तालोचन ) अदत्ता