SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ अदत्तादाणवेरमण 544- अभिवानराजेन्द्रः - भाग 1 अदत्तादाणवेरमण उवस्सए से तारिसए सुत्तपरिकुटे / एवं विवित्तवासवसहिस- | मितिजोगेण भावितो भवति अंतरप्पा निचं अहिकरणकरणकारावणपावकम्मविरए दत्तमणुण्णा-यउग्गहरुयी||१|| (पढमं ति) प्रथमं भावनावस्तु विविक्तवसतियासो नाम / तत्राऽऽहदेवकुलं प्रतीतम्, सभा महाजनस्थानम्, प्रपा जलदानस्थानम्, आवसथः परिव्राजकस्थानम्, वृक्षमूलं प्रतीतम्, आरामो माधवीलताद्युपेतो दम्पतिरमणाश्रयो वनविशेषः, कन्दरा दरी आकरो लोहाद्युत्पत्तिस्थानम्, गिरिगुहा प्रतीता / कमन्तिो यत्र सुधादि परिकर्म्यते, उद्यानं पुष्पादिमवृक्षसंकुलमुत्सवादी बहुजनभोग्यम्, यानशाला रथादिगृहम्, कुफ्तिशाला तूल्या-दिगृहोपस्करशाला, मण्डपो यज्ञादिमण्डपः, शून्यगृह, श्मशानं च प्रतीतम्। लयनं शैलगृहम्, आपणः पण्यस्थानम्, एतेषां समाहारद्वन्द्वः / ततस्तत्र, अन्यस्मॅिश्चैवमादिके एवंप्रकारे, उपाश्रवे, भवति विहर्तव्यमिति सम्बन्धः / किंभूते ? दकमुदकम्, मृत्तिका पृथिवीकायः, बीजानि शाल्यादीनि, हरितं दूर्वादिवनस्पतिः, त्रसप्राणा द्वीन्द्रियादयः, तैरसंसक्तो यः स तथा, तत्र।तथाकृते गृहस्थेन स्वार्थे निर्वर्तिते, (फासुएत्ति) पूर्वोक्तगुणयोगादेव प्रासुके निर्जीवे, विविक्ते स्त्र्यादिदोषरहिते, अत एव प्रशस्ते, उपाश्रये वसतौ, भवति विहर्त्तव्यमासितव्यम् / यादृशे पुनासितव्यं तथाऽसावुच्यते - (आहाकम्मबहुले यत्ति) आधया साधूनां सत्कस्याधानेन साधूनाश्रित्येत्यर्थः, यत्कर्म पृथिव्या-द्यारम्भक्रिया, तदाधाकर्म / आह च - "हिययम्मि समाहेउ, एगमणेगं च गाहगं जंतु। वहणं करेइ दाया, कायाण तमाह कमंतुं"||१| तेन बहुलः प्रचुरः, तद् वा बहुलं यत्र सतथा। (जे से त्ति) य एवंविधः स वर्जयितव्य एवोपाश्रय इति संबन्धः / अनेन मूलगुणाः शुद्धस्य परिहार उपदिष्टाः / स तथा (आसिय त्ति) आसिक्तमासेवनमीषदुदकच्छटक इत्यर्थः। (सम्मञ्जिय त्ति) सन्मार्जनं शलाकाहस्तेन कचवरशोधनम्, उत्सिक्तमत्यर्थ जलाभिषेचनम्, (सोहियत्ति) शोभनं वन्दनमालाचतुष्क-पूरणादिना शोभाकरण, (छादण त्ति) छादनं दर्भादिपटलकरणम्, (दुमण त्ति) सेढिकया धवलनम्, (लिंपण त्ति) छगणादिना भूमेः प्रथमतो लेपनम्, (अणुलिंपण त्ति) सकृल्लिप्ताया भूमेः पुनर्लेपनम्, (जलण त्ति) शैत्यापनोदाय वैश्वानरस्य ज्वलनम, शोधनार्थं वा प्रकाशकरणाय वा दीपप्रबोधनम् / (भण्डचालण त्ति) भाण्डादीनां पिठरकादीनां, पण्यादीनां वा तत्र गृहस्थस्थापितानां साध्वर्थं चालनं स्थानान्तरस्थापनम्। एतेषां समाहारद्वन्द्वः, विभक्तिलोपश्च दृश्यः। तत आसिक्तादिरूपः अन्तर्बहिश्च उपाश्रयस्य; मध्ये मध्ये च, असंयमो जीवविराधना, यत्र यस्मिन्नुपाश्रये, वर्तते भवति, संयतानां साधूनाम्, अर्थाय हेतवे, (वज्जेयव्वे हु त्ति) वर्जयितव्य एव उपाश्रयो वसतिः, स तादृशः, सूत्रप्रतिक्रुष्टः- आगमनिषिद्धः। प्रथमभावना-निगमनायाऽऽहएवमुक्तेनानुष्ठानप्रकारेण, विविक्तो लोकद्वयाश्रित-दोषवर्जितः, विविक्तानां वा निर्दोषाणां वासो निवासो यस्यां सा विविक्तवासवसतिः, तद्विषया या समितिः सम्यकप्रवृत्तिः, तया यो योगःसंबन्धः, तेन भावितो भवत्यन्तरात्मा / किंविधः ? इत्याह-नित्यं सदा, अधिक्रियतेऽधिकारीक्रियते, दुर्गतावात्मा येन तद् दुरधिकरणं दुरनुष्ठानं, तस्य यत्करणं कारापणं च तदेव पापकर्म पापोपादानक्रिया, ततो विरतो यः स तथा। दत्तोऽनुज्ञातश्च योऽवग्रहोऽवग्रहणीय वस्तु तत्ररुचिर्यस्य स तथेति। बितियं आरामुजाणकाणणवणप्पदेसभागे जं किंचि इक्कडं वा कढिणगं वा जंतुगं वा परमेरकुचकुसदमप्पलालसूयगवल्लयपुप्फफलतयपवालकंदमूलतणकट्ठसक्कराई गेण्हति सेजोवहिस्स अट्ठा न कप्पए, उग्गहे अदिण्णम्मि गेण्हिउं जे हणि हणि उग्गहं अणुण्णविय गेण्हितव्वं / एवं उग्गहसमितिजोगेण भावितो भवति अंतरप्पा णिचं अहिकरणकरणकारावणपावकम्मविरए दत्तमणुण्णायउम्गहरुयी।।२।। (बितियं ति) द्वितीय भावनावस्तु अनुज्ञातसंस्तारकग्रहणं नाम / तचैवम्-आरामो दम्पतिरमणस्थानभूतमाधवीलतागृहादियुक्तः, उद्यानं पुष्पमवृक्षसंकुलमुत्सवादौ बहुजनभोग्यम्, काननं सामान्यवृक्षोपेतं, नगरासन्नं, च; वनं नगरविप्रकृष्टम्, एतेषां प्रदेशरूपो यो भागः स तथा तत्र / यत्किञ्चिदिति सामान्ये-नावग्रहणीय वस्तु / तदेव विशेषेणाह - 'इक्कडं वा' दंदणसदृशंतृणविशेष एव। कठिनकं जन्तुकं च जलाशय विशेषतृणमेव, पर्णमित्यर्थः। तथापरा तृणविशेषः, मेरा तुमुञ्जसिरिका, कू! येन तृणविशेषेण कुविन्दाः कूत् कुर्वन्ति, कुशदर्भयोराकारकृतो विशेषः, पलालं कङ्ग्यादीनाम्, सूयको मेदपाटप्रसिद्ध-स्तृणविशेषः। वल्वजः तृणविशेषः, पुष्पफलत्वप्रवाल-कन्दमूलतृणकाष्ठशर्कराः प्रतीताः; ततः परादीनां द्वन्द्वः; पुनस्ता आदिर्यस्य तत्तथा। तद् गृह्णाति आदत्ते / किमर्थम् ? शय्योपधेः संस्तारकरूपस्योपधेः, अथवा संस्तारकस्योपधेश्वार्थाय हेतव इह तदिति शेषो दृश्यः, ततस्तं, न कल्प्यते न युज्यते / अवग्रहे उपाश्रयान्तर्वर्तिनि अवग्राह्ये वस्तुनि, अदत्तेऽननुज्ञाते शय्यादायिना (गिहिउंजे त्ति) गृहीतमादातुं, 'जे' इति निपातः / अयमभिप्रायः-उपाश्रयमनुज्ञाप्य तन्मध्यगतं तृणाद्यपि तु ज्ञापनीयम्, अन्यथा तदग्राह्य स्यादिति / एतदेवाह - (हणि हणि ति) अहनि अहनि प्रतिदिवसम् / अयमभिप्रायः- उपा-श्रयानुज्ञापनादिने उपगृह्णन्ति अवग्राह्यमिक्कडादि; अनुज्ञाप्य ग्रहीतव्यमिति / एवमित्यादिनिगमनं प्रथमभावनावदवसेयम् नवरमवग्रहसमितियोगेन अवग्रहणीयतृणादिविषयसम्यक्प्रवृत्ति-संबन्धिनेत्यर्थः। ततियं पीठफ्लगसेज्जासंथारगट्ठयाए रुक्खान च्छिंदियव्वा, न यछेयणभेयणेण य सेजा कारियव्वा, जस्सेव उवस्सए वसेजा, सेजं तत्थेव गवेसेना, न य विसमं करेजा, न य निवायपवायउस्सुगत्तं, न डंसमसगेसु क्खुभियव्वं अग्गिधूमो य न कायव्वो, एवं संजमबहुले संवरबहुले संवुडबहुले समाहिबहुले धीरो काएण फासयंते सययं अज्झप्पज्झाणजुत्ते समीए, एवं एगे चरेज धम्मं, एवं सिजासमितिजोगेण भावितो भवइ अंतरप्पा णिचं अहिकरणकरणकारावणपावकम्मविरइदत्तमणुण्णायउग्गहरुयी॥३॥ इदं तु तृतीयभावनावस्तु शय्यापरिकर्मवर्जनं नाम / तचैवम् पीठ फलक शय्यासंस्तारकार्थतायै वृक्षा न छे त्तव्याः, न च छे दनेन तद्भूम्याश्रितवृक्षादीनां कर्त्तनेन, भेदनेन च, तेषां पाषाणादीनां वा शय्या शयनीयं कारयितव्या। तथा- यस्यैव
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy