________________ अदत्तादाणवेरमण 543 - अभिधानराजेन्द्रः-भाग 1 अदत्तादाणवेरमण इतिकृत्वैवं विधमात्मौद्धत्यपरिहारपरं सकलसाधुसाधारणं वचनमाविष्करोति, इत्यतःस एवायंयो मया विवक्षितः। इत्येवं परसंबन्धि तप आत्मनि परप्रतिपत्तितः सम्पादयस्तपस्तेन उच्यते। एवं भगवन् ! स त्वं वाग्मी ? इत्यादिभावनया परसंबन्धिनी वाचमात्मनि तथैव सम्पादयन् वास्तेन उच्यते। तथा (रूवतेणेय त्ति) एवं रूपवन्तमुपलभ्य स त्वं रूपवानित्यादि भावनया रूपस्तेनः / रूपं च द्विधाशारीरसुन्दरता, सुविहतसाधुनेपथ्यं च / तत्र साधुनेपथ्यं यथा - "देहोरुगाउ-मन्ने, जेसिं जल्ले ण फासियं अंगं / मलिणा य चोलपट्टा, दोन्नि य पाया समक्खाया" ||1|| तत्र सुविहिताकाररञ्जनीयं जनमुपजीवितुकामः सुविहितः, सुविहिताकारधारी रूपस्तेनः। (आयारे चेव त्ति) आचारे साधुसामाचार्याविषये स्तेनो यथा-सत्वं यः क्रियारुचिः श्रूयते ? इत्यादिभावना। तथैव (भावतेणे यत्ति) भावस्य श्रुतज्ञानादिविशेषस्य स्तेनो भावस्तेनः / यथा- कमपि कस्यापि श्रुतविशेषस्य व्याख्यानविशेषमन्यतो बहुश्रुतादुपश्रुत्य प्रतिपादयति, यथाऽयं मया पूर्वश्रुतपर्यायोऽभ्यूहितो, नाऽन्यः। एवमभ्यूहितुं प्रभुरिति।तथा-शब्दकरो रात्रौ महता शब्देनोल्लापः स्वाध्यायादिकारको गृहस्थभाषाभाषको वा। तथा-भझञ्झाकरो येन येन गणस्य भेदो भवति तत्तत्कारी, येन गणस्य मनो-दुःखमुत्पद्यते तद्भाषी / तथा- कलहकरः कलहहेतुभूतकर्तव्यकारी / तथा-वैरकरः, प्रतीतः / विकथाकारी-स्त्र्यादिकथाकारी। असमाधिकारकश्चित्तास्वा-स्थ्यकर्ता स्वस्य, परस्य वा। तथा-सदा अप्रमाणभोजी द्वात्रिंशत्कवलाधिकाहारभोक्ता / सततमनुबद्धवैरश्च सततमनुबद्धं प्रारब्धमित्यर्थः, वैरं वैरिकर्म येन स तथा। नित्यरोषी सदाकोपः (से तारिसे त्ति) सतादृशः पूर्वोक्तस्वरूपः। (नाराहए वयमिणं ति) नाराधयतिन निरतिचारं करोति, व्रतं महाव्रतम्, इदम्-अदत्तादानविरतिस्वरूपं, स्वाम्यादिभिरननुज्ञातकारित्वातस्येति। अह के रिसए पुणाई आराहए वयमिणं, जे से उवहिं भत्तपाणादाणसंगहणकुसले अचंतबालदुब्बलगिलाणवुड्डमासखवणे पवत्तिआयरियउवज्झाए सेहे साहम्मिए तवस्सि कुलगणसंघचेइयडेय निजरट्ठी वेयावचं अणिस्सियं दसविहं बहुविहं करेइ, नय अचियत्तस्स घरं पविसइ,नय अचियत्तस्स भत्तपाणं गिण्हइ, न य अचियत्तस्स सेवइ पीढफलगसेज्जासंथारगवत्थपायकं बलदंडगरओहरणनिसेजचोलपट्टमुहपोत्तियपायपुंछणाइ भायणभंडोवहिउवगरणं, न य परिवायं परस्स जंपति, न यावि दोसे परस्सगेण्हति, परव्वएसेण विन किंचि गेण्हति, णय विपरिणामेति कंचि जणं, ण याविणासेति दिण्णसुकयं दाऊण य काऊण य ण होइ पच्छाताविते,संविभागसीले संगहोवग्गहकुसले, से तारिसए आराहेति वयमिणं / अथ प्रश्नार्थः / कीदृशः पुनः, 'आई' इति अलङ्कारे, आराधयति व्रतमिदम् ? इह प्रश्नोत्तरमाह- (जे से इत्यादि) यः साधुरुपधिभक्तपानादानं च संग्रहणंच तयोः कुशलो विधिज्ञोयः सतथा। बालश्चेत्यादि समाहारद्वन्द्वः / ततोऽत्यन्तं यद् बालदुर्बलग्लानवृद्धमासक्षपकं तत्तथा। तत्र विषये वैयावृत्त्यं करोतीति योगः। तथा- प्रवृत्त्याचार्योपाध्याये, इह द्वन्द्वैकत्वात् प्रवृत्त्यादिषु / तत्र प्रवर्त्तितलक्षणमिदम् - "तवसंजमजोगेसुं, जोजोगोजत्थ तं पवत्तेइ / असहुं व नियत्तेई, गणतत्तिल्लो पवत्तेई" // 1 // इतरौ प्रतीतौ। तथा - (सेहे त्ति) शैक्षे अभिनवप्रव्रजिते, सा-धर्मिके समानधर्मिके, लिङ्ग प्रवचनाभ्यां तपस्विनि चतुर्थ-भक्तादिकारिणि, तथा कुलं गच्छसमुदायरूपं चन्द्रादिकं, गणः कुलसमुदायः कोटिकादिकः, सङ्घस्तत्समुदायरूपः, चैत्यानि जिनप्रतिमाः, एतासां योऽर्थः प्रयोजन स तथा। तत्र च निर्जरार्थः कर्मक्षयकामः, वैयावृत्त्यं व्यावृत्तकर्मरूपमुपष्टम्भनमित्यर्थः / अनिश्रितंकीर्त्यादिनिरपेक्ष, दशविधंदशप्रकारम्। आह च"वेयावचं वावड-भावो इह धम्मसाहणणिमित्तं। अन्नाइयाण विहिणा, संपायणमेस भावत्थो||१|| आयरिय 1 उवज्झाए 2, थेर 3 तवस्सी 4 गिलाण 5 सेहाण 6 / साहम्मिय 6 कुल ८गण संघ 10 संगयं तमिह कायव्वं" ||2|| इति। बहुविधं भक्तपानादिदानभेदेनानेकप्रकारं, करोतीति। तथा-न च नैवच (अचियत्तस्स त्ति) अप्रीतिकारिणो गृहं प्रविश-ति।नच नैव च (अचियत्तस्स त्ति) अप्रीतिकारिणः सत्कं गृह्णाति यद् भक्त-पानम्। न वा (अचियत्तस्स त्ति) अप्रीतिकर्तुः सत्कं सेवते भजते, पीठफलक शय्यासंस्तारकवस्त्रपात्रकम्बलदण्डकरजो हरणनिषद्याचोलपट्टकमुखपोत्तिकापादप्रोच्छनादि भाजनभाण्डोपध्युपकरणम् / तथा-न च परिवादं परस्य जल्पति, न चापि दोषान् परस्य गृह्णाति। तथा-परव्यपदेशेनापिग्लानादिव्याजेनापि, न किञ्चिद् गृह्णाति, न च विपरिणमयति दानादिधर्माद्विमुखीकरोति, कञ्चिदपि जनम्।न चापि नाशयति अपह्नवद्वारेण दत्तसुकृतं वितरणरूपं सुचरितं परसंबन्धि, तथा- दत्त्वा च देय, कृत्वा वैयावृत्त्यादिकार्य, न भवति पश्चात्तापवान्। तथा- संविभागशीलः लब्धभक्तादि संविभागकारी। तथा संग्रहे शिष्यादिसंग्रहणे, उपग्रहे च तेषामेव भक्तश्रुतादिदानेनोपष्टम्भने यः कुशलः स तथा / (से तारिसे त्ति) स तादृश आराधयति व्रतमिदमदत्तादानविरतिलक्षणम्। इमं च परदव्वहरणवेरमणपरिरक्खणट्ठयाए पवयणं भगवया सुकहियं अत्तहियं पेचाभाविकं आगमसिं भ सुद्धं नेयाउयं अकुडिलं अनुत्तरं सव्वदुक्खपावाणं विउसमणं / (इमं चेत्यादि) इमं च प्रत्यक्ष प्रवचनमिति संबन्धः / परद्रव्यहरणविरमणस्यपरिरक्षणं पालनंसएवार्थः, तद्भावस्तत्। तस्यैव प्रवचन शासनमित्यादि व्यक्तम्। अस्य पञ्च भावनातस्स इमा पंच मावणाओ ततियस्स वयस्स हुंति परदव्वहरणवेरमणपरिरक्खणट्ठाए / पढमं देवकुलसमापवाऽऽवसहरुक्खमूलआरामकंदराऽऽगरगिरिगुहकमंतुजाणजाणसालकुवियसालमंडवसुण्णघरसुसाणलेणआवणे अण्णम्मि य एवमादियम्मि दगमट्टिय बीजहरिततसपाणअसंसत्ते अहाकडे फासुए विविते पसत्ते उवस्सए होइ विहरियव्वं / आहाकम्मबहुले यजे से आसियसम्मजिओसित्तसोहियछाणदुमणलिंपण अणु लिंपणजलणभंडचालणं अंतोबाहिं मज्झे च असंजमो जत्थ वट्टति संजयाणं अट्टा वजेयव्वे हु