________________ अदत्तादाण 540 - अभिषानराजेन्द्रः - भाग 1 अदत्तादाणवेरमण तत्था वि से न जाणइ, किम्मे किच्चा इमं फलं |7|| लब्ध्वाऽपि देवत्वं तथाविधक्रियापालनवशेन उपपन्नो देव-किल्विषे देवकिल्विषकाये तत्राप्यसौ न जानात्यविशुद्धावधिना किं मम कृत्वा इदं फलं किल्विषिकदेवत्वमिति सूत्रार्थः। अत्रैव दोषान्तरमाहतत्तो वि से चइत्ता णं, लब्भिही एलमूअयं / नरगं तिरक्खजोणिं वा, बोही जत्थ सुदुल्लहा / / 48|| ततोऽपि दिवलोकादसौ च्युत्वा लप्स्यत एलमूकतामजभाषाऽनुकारित्वं मानुषत्वे, तथा नरकं, तिर्यग्योनि वा, पारम्पर्येण लप्स्यते / बोधिर्यत्र सुदुर्लभः | सकलसम्पन्निबन्धना यत्र जिनधर्मप्राप्तिर्दुरापा / इह च प्राप्नोत्येलमूकतामिति वाच्ये असकृद्भावप्राप्तिख्यापनाय लप्स्यत इति भविष्यत्कालनिर्देशः / इति सूत्रार्थः / दश० 5 अ०२ उ०। (अदत्तादानस्य दर्पिका कल्पिका च प्रतिसेवा स्वस्थान एव वक्ष्यते) (शब्दादिविषयगृद्धौ अदत्तादानमापतितमिति उत्त०३२ अध्ययने दर्शितमन्यत्र वक्ष्यते) (साधर्मिकादिस्तैन्यं "अणवट्ठप्प" शब्देऽस्मिन्नेव भागे 296 पृष्ठे दर्शितम्) अदत्ता (दिण्णा) दाणकि रिया-स्त्री० (अदत्तादानक्रिया) आत्माद्यर्थमदत्तग्रहणे, स्था०५ ठा०२ उ० / स्वामिजीवगुरुतीर्थकरादत्तग्रहणे, ध० 3 अधि०। अदत्ता (दिण्णा) दाणवत्तिय-पुं० न० (अदत्तादानप्रत्ययिक) अदत्तस्य परकीयस्यादानं स्वीकरणमदत्तादानंस्तेयं, तत्प्रत्ययिको दण्डः। एतच सप्तमे क्रियास्थाने, सूत्र०। अहावरे सत्तमे किरियाठाणे अदिन्नादाणवत्तिए त्ति आहिज्जइ, से जहाणामए केइ पुरिसे आयहेउं वा० (णाइहेउं वा अगारहेउं वा) वा जाव परिवारहेउवा सयमेव अदिन्नं आदियइ, अन्नेणं वि अदिन्नं आदियावेति, अदिन्नं आदियंतं अन्नं समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावज्जं ति आहिज्जइ, सत्तमे किरियाठाणे अदिन्नादाणवत्तिएत्ति आहिए। एतदपि प्राग्वद् ज्ञेयम् / तद्यथा नाम कश्चित्पुरुष आत्मनिमित्तं (ज्ञातिनिमित्तम, अगारनिमित्त) यावत्परिवारनिमित्तं पर-द्रव्यमदत्तमेव गृह्णीयात्, अपरं च ग्राहयेद्, गृह्णन्तमप्यपरं सम-नुजानीयादित्येवं तस्यादत्तादानप्रत्ययिकं कर्म संबध्यते / इति सप्तमं क्रियास्थानमाख्यातमिति। सूत्र०२ श्रु०२ उ० आ० चू०प्र०व०। स्था०। अदत्ता (दिण्णा)दाणविरइ-स्त्री० (अदत्तादानविरति) परद्रव्यहरणविरतौ, महा०७ अ०। अदत्ता (दिण्णा) दाणवेरमण-न० (अदत्तादानविरमण) अदत्तादानाद् विरमणमदत्तादानविरमणम् / स्वाम्याद्यनुज्ञातं प्रत्याख्यामीति स्तेयविरतिरूपे व्रतभेदे, प्रश्न० 3 संव० द्वा० / तत्र स्थूलकाऽदत्त प्रत्याख्यानं तृतीयमणुव्रतं, सर्वाऽदत्तप्रत्याख्यानं तृतीयं महाव्रतमिति। / तत्र स्थूलकादत्तविरमणमित्थम् - "तदाऽणंतर चणं थूलग अदिण्णादाणं पञ्चक्खामि। दुविहं तिविहेणं, ण करेमि, ण कारवेमि, मणसा वयसा कायसा"। स्थूलकमदत्तादानं चौर इति व्यपदेशनिबन्धनम्। उपा० 1 अ० / थूलगमदत्तादाणं समणोवासओ पचक्खाइ, से अदिन्नादाणे दुविहे पण्णत्ते / तं जहा- सचित्तादत्तादाणे, अचित्तादत्तादाणे अ1 अदत्तादान द्विविधम् - स्थूल, सूक्ष्म च / तत्र परिस्थूलविषय चौर्यारोपणहेतुत्वेन प्रसिद्धमिति दुष्टाध्यवसायपूर्वकं स्थूलम्, विपरीतमितरत्, स्थूलमेव स्थूलकं, स्थूलकं च तत् अदत्तादानं चेति समासः / तच्छ्रमणोपासकः प्रत्याख्यातीति पूर्ववत् / 'से' शब्दो मागधदेशीप्रसिद्धो निपातस्तच्छब्दार्थः। तच्चादत्तादानं द्विविधं प्रज्ञप्तम्, तीर्थङ्करगणधरैर्दिप्रकारं प्ररूपितमित्यर्थः / तद्यथेति पूर्ववत्। सह चित्तेन सचित्तं-द्विपदादिलक्षणं वस्तु, तस्य क्षेत्रादौ सुन्यस्तदुय॑स्तविस्मृतस्य स्वामिना अदत्तस्य चौर्यबुद्ध्या आदानं सचित्तादत्तादानम्। आदानमिति ग्रहणम् / अचित्तं वस्त्रकनकरत्नादि, तस्यापि क्षेत्रादौ सुन्यस्तदुर्यस्तविस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुद्ध्याऽऽदानमचित्तादत्तादानमिति। अदत्तादाणे को दोसो? अकजंते वा के गुणा? एत्थ इमं एगं चेव उदाहरणं / जहा- एगा गोट्ठी सावगो जतीए गोट्ठीए एगत्थपगरणं वट्टइ, जाणगते गोहिल्लएहिं घरं पेल्लियं थेरीए एकेको मोरपुत्तेण पाए पडतीए अंकिओ पभाए य रनो निवेइयं / राया भणइ- कहं ते जाणियव्वा ? थेरी भणइ-एते पादेसु अंकिया नगरसमागमे दिट्ठा, दो वि तिन्नि चत्तारि सव्वा गोट्ठिगहिया। एगो सावगो भणइ-न हरामि, न लंछिओ। तेहिं विभणियं-नएस हरइ। तेहिं विमुक्को। इयरे सासिया अविय सावगेण गोट्ठीन पविसियव्वं / जइ कहं विपओयणेण पविसइ, ताओ हारगं हिंसादि न देइ, न य तेसिं आओगट्ठाणेसु ठाइ। आव०६ अ०। तस्यातिचाराःतयाऽणंतरं च णं थूलगअदिण्णादाणस्स पंच अइयारा जाणियव्वा, नसमायरियव्वा। तं जहा- तेनाहडे, तक्करप्पओगे, विरुद्धरजाइक्कमे, कुडतुलाकुडमाणे, तप्पडिरूवगववहारे / उपा०१अ०। एतानि समाचरन्नतिचरति, तृतीयानुव्रत इति / 'दोसा पुणतेनाहडगहियं राया वि जाणेज्जा, सामी वा पञ्चभिजाणेजा, ततो मारेज वा, दंडेज वा' इत्यादयः शेषेष्वपि वक्तव्याः / उक्तं सातिचारं तृतीयाणुव्रतम् / आव०६ अ०। पा०/ध०२०11०। सर्वस्माददत्तादानाद् विरमणं त्वित्थम्अहावरे तो भंते ! महव्वए अदिन्नादाणाओ वेरमणं / सव्वं भंते ! अदिन्नादाणं पञ्चक्खामि / से गामे वा नगरे वा रन्ने वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा, नेव सयं अदिन्नं गिण्हिज्जा, नेवऽन्नेहिं अदिन्नं गिण्हाविन्जा, अदिन्नं गिण्हते वि अन्ने नसमणुजाणामि। जावञ्जीवाए, तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समण जाणामि / तस्स भंते!