________________ अदत्तादाण 536 - अभिधानराजेन्द्रः - भाग 1 अदत्तादाण येषां ते तथा। तत्र केशाः शिरोजाः, श्मश्रूणि कूर्चरोमाणि, शेषाणि तु रोमाणीति / (मलमुत्तम्मि त्ति) पुरीषमूत्रे निजके, (खुत्त त्ति) निमग्राः, तत्रैव चारकबन्धने मृताः अकामुकाः मरणेऽनभिलाषाः, ततश्च बद्ध्या पादयोराकृष्टाः, खातिकायां (छूट त्ति) क्षिप्ताः, तत्र तु खातिकायां, वृकशुनक्शृगालक्रोडमार्जारवृन्दस्य संदेशकतुण्डैः पक्षिगणस्य च विविधमुखशतै विलुप्तानि गात्राणि येषां ते तथा / कृता विहिता वृकादिभिरेव (विहग त्ति) विभागाः, खण्डशः कृता इत्यर्थः / केचिदन्ये - (किमिणाइ त्ति) कृमिवन्तश्च, कुथितदेहा इति प्रतीतम्। अनिष्टवचनैः शप्यमाना आक्रोश्यमानाः / कथम् ? इत्याहसुष्ठ कृतं, ततः कदर्थनमिति गम्यते। यदिति यस्मात् कदर्थनात्मृतः पाप इति / अथवा सुष्ठ कृतं सुष्ठु सम्पन्नं, यन्मृत एष पाप इति / तथा तुष्टन जनेन हन्यमानाः, लज्जामापयन्ति प्रापयन्तीति लज्जापनास्त एव कुत्सिताः लज्जापनकाः, लज्जावहा इत्यर्थः / ते च भवन्ति जायन्ते, न केवलमन्येषां, स्वजनस्यापि च दीर्घकालं यावदिति तथा मृताः सन्तः, पुनर्भरणानन्तरं, परलोकसमापन्नाः जन्मान्तरसमापन्नाः, निरये गच्छन्ति, कथंभूते ? निरभिरामे / अङ्गाराश्च प्रतीताः / प्रदीप्तकं च प्रदीपनकं च तत्कल्पस्तदुपमो योऽत्यर्थं शीतवेदनेनासातनेन कर्मणा उदीर्णानि उदीरितानि, सततानि अविच्छिन्नानि यानि दुःखशतानि तैः समभिभूतो यः स तथा तत्र / ततस्ततोऽपि नरकादुद्वृत्ताः सन्तः पुनः प्रपद्यन्ते तिर्यग्योनिम्, तत्रापि निरयोपमानामनुभवन्ति वेदनाम्, ते अनन्तरोदितादत्त-ग्राहिणः, अनन्तकालेन यदि नाम कथञ्चिन्मनुजभावं लभन्ते इति व्यक्तम् / कथम् ? इत्याह- नैकेषु बहुषु, निरयगतौ यानि गमनानि तिरश्चां च ये भवास्तेषां ये शतसहस्रसंख्यापरिवर्तास्ते तथा तेषु, अतिक्रान्तेषु सत्स्विति गम्यते। तत्रापि च मनुजत्वलाभे भवन्ति जायन्तेऽनार्याः शकयवनबब्बरादयः। किं भूताः? नीचकुल-समुत्पन्नाः, तथा आर्यजनेऽपि मगधादौ समुत्पन्ना इति शेषः / लोकबाह्या जनवर्जनीयाः, भवन्तीति गम्यम् तिर्यग्भूताश्च, पशुकल्पा इत्यर्थः / कथम् ? इत्याह- अकुशलास्तत्त्वेष्वनिपुणाः, कामभोगे तृषिता इति व्यक्तम् / (जहिं ति) यत्र नरकादिप्रवृत्तौ, न तु मनुजत्वं लभन्ते, यत्र निबध्नन्ति (निरयवत्तणि त्ति) निरयवर्तिन्यां नरकमार्गे, भवप्रपञ्चकरणेन जन्मप्राचुर्यकरणेन, (पणोल्लि त्ति) प्रणोदीनि तत्प्रवर्तकानि, तेषां जीवानामिति हृदयम् / यानि तानि तथा। अत्र द्वितीयाबहुवचनलोपो द्रष्टव्यः / पुनरपि आवृत्त्या संसारो भवो (नेम त्ति) मूलं येषां तथा, दुःखानीति भावः। तेषां यानि मूलानि तानि तथा, कर्माणीत्यर्थः। तानि निबध्नन्तीति प्रकृतम् / इह च मूला इति वाच्ये मूल इत्युक्तं प्राकृतत्वेन लिङ्ग व्यत्ययादिति। किं भूतास्ते मनुजत्वे वर्तमाना भवन्ति ? इत्याहधर्मश्रुतिविवर्जिताः धर्मशास्त्रविकला इत्यर्थः / अनार्या आर्येतराः, क्रूराः, जीवो-पघातोपदेशकत्वात् / क्षुद्राः, तथा मिथ्यात्वप्रधाना विपरीत-तत्त्वोपदेशकाः श्रुतिसिद्धान्ततां प्रपन्ना अभ्युपगताः, तथा ते च भवन्तीति / एकान्तदण्डरुचयः, सर्वथा हिंसनश्रद्धा इत्यर्थः / वेष्टयन्ते कोशिकाकारकीट इव, आत्मानमिति प्रतीतम् / अष्टकर्मलक्षणैस्तन्तुभिर्यद् धनं बन्धनम् / तथा एवमनेन आत्मनः कर्मभिर्बन्धनलक्षणप्रकारेण नरकतिर्यड्नरामरेषु यद् गमनं तदेव पर्यन्तचक्रवालं बाह्यपरिधेर्यस्य स तथा तम, संसारसागरं वसन्तीति सम्बन्धः। किं भूतम् ? इत्याह- जन्मजरामरणान्येव करणानि साधनानि यस्य तत्तथा, तच गम्भीरदुःखं चत्तदेव प्रक्षुभितं सञ्चलितं प्रचुर सलिलं | यत्र स तथा तम् / संयोगवियोगा एव- वीचयस्तरङ्गा यत्र स तथा / चिन्ताप्रसङ्गः चिन्तासातत्य, तदेव प्रसृतं प्रसरो यस्य स तथा। वधा हननानि, बन्धाः संयमनानि, तान्येव महान्तो दीर्घतया, विपुलाश्च विस्तीर्णतया, कल्लोला महोर्मयो यत्र स तथा; करुणविलपिते लोभ एव कलकलायमानो यो बोलो ध्वनिः स बहुलो यत्र स तथा। ततः संयोगादिपदानां कर्मधारयः। अतस्तम्। अवमाननमेवापूजनमेव, फेनो यत्र स तथा। तीव्रखिंसनं वाऽत्यर्थनिन्दा पुलपुलप्रभूता अनवरतोद्भूता या रोगवेदनास्ताश्च परिभूतविनिपातश्चपराभिभवसम्पर्कः, परुषधर्षणानि च निष्ठरवचननिर्भत्सितानि, समापतितानि समापन्नानि, येभ्यस्तानि तथा तानि च तानि कठिनानि कर्कशानि, दुर्भदानीत्यर्थः / कर्माणि च ज्ञानावरणादीनि, क्रिया वा, ये प्रस्तराः पाषाणाः, तैः कृत्वा तरङ्ग रिङ्गद् वीचिभिश्चलन, नित्यं धुवं, मृत्युश्च भयं चेति त एव वा तोयपृष्ठ जलोपरितनभागो यत्र स तथा / ततः कर्मधारयः / अथवा- अपमानेन फेनेन, फेनमिति तोयपृष्ठस्य विशेषणम् / अतो बहुव्रीहिरेव अतस्तम्। कषाया एव पातालाः पातालकलशास्तैः संकुलो यः स तथा तम्। भवसहस्राण्येय जलसञ्चयस्तोयसमूहो यत्र स तथा तम् / पूर्व जननादिजन्यदुःखस्य सलिलतोक्ता, इह तु भवानी जननादि-धर्मवतां जलविशेषसमुदायतोक्ते ति न पुनरुक्तत्वम् / अनन्तमक्षयं, उद्वेजनकमुद्रेगकरम्, अनर्वाक्पारं विस्तीर्णस्वरूपम्, महाभयादिविशेषणत्रयमेकार्थम्। अपरिमिता अपरिमाणा ये महेच्छा बृहदभिलाषा लोकास्तेषां कलुषाऽविशुद्धा या मतिः सा एव वायुवेगस्तेन (उसम्ममाण त्ति उत्पाट्यमानं यत्तत्तथा / तस्य आशा अप्राप्तार्थसम्भावनाः, पिपासा प्राप्तार्थकाङ्गाः, त एव पातालाः पातालकलशाः, पातालं व समुद्रजलतलं, तेभ्यस्तस्माद्वा कामरतिः शब्दादिष्वभिरतिः रागद्वेषबन्धनेन च बहुविध-संकल्पाश्चेति द्वन्द्वः / तल्लक्षणस्य विपुलस्योदकरजस उदकरणोर्यो रयो वेगस्तेनान्धकारो यः स तथा तम्। कलुषमतिवातेनाऽऽशादिपातालाद्युत्पाद्यमानकामरत्याधुदकरजोरयोऽन्धकारमित्यर्थः / मोह एव महावर्तो मोहमहावर्तः, तत्र भोगा एव कामा एव, भ्राम्यन्तो मण्डलेन सञ्चरन्तो, गुप्यन्तो व्याकुलीभवन्त उद्वलन्त उच्छलन्तो, बहवः प्रचुराः गर्भवासे मध्यभागविस्तरे, प्रत्यवनिवृत्ताश्च उत्पत्य निपतिताः, प्राणिनो यत्र जले तत् तथा / तथा प्रधावितानि इतस्ततः प्रकर्षण गतानि यानि व्यसनानि तानि समापन्नाः प्राप्ता येते। पाठान्तरेण-बाधिताः पीडिता ये व्यसनसमापन्ना व्यसनिनः, तेषां हृदि यत् प्रलपितं तदेव चण्डमारुतस्तेन समाहतममनोज्ञ वीचिव्याकुलितं भङ्गैस्तरङ्गैः, स्फुटन् विदलन्, अनिष्टस्तैः कल्लोलैर्महोर्मिभिः संकुलं च जलं तोयं यत्र स तथा तम्। मोहावर्तभोगरूपभ्राम्यदादिविशेषणप्राणिकं व्यसनमापन्नरुदि-तलक्षणदण्डमारुतसमाहतादि विशेषणंजलंयत्रेत्यर्थः / प्रमादा मद्यादयः,तएव बहवश्चण्डा रौद्राः, दुष्टाः क्षद्राः, श्वापदा व्याघ्रादयः, तैः समाहता अभिभूताये (उदायमाणग ति) उत्तिष्ठन्तो (विविधचेष्टासु) समुद्रपक्षे मत्स्यादयः, संसारपक्षे पुरुषादयः, तेषां यः पूरः समूहस्तस्य ये घोरा रौद्रा विध्वंसनार्था विनाशलक्षणाः, अनर्था अपायाः, तैर्बहुलोयत्र स तथा। अज्ञानान्येव भ्रमन्तोमत्स्याः (परिदक्ख त्ति) दक्षा यत्र स तथाते। अनिभृतान्युपशान्तानि यानीन्द्रियाणि, अनिभृतेन्द्रिया वा ये देहिनस्तान्येव, त एव वा, महामकरास्तेषां यानि त्वरितानि शीघ्राणि, चरितानि चेष्टानि, तैरेव (खोक्खुब्भमाणत्ति) भृशक्षुभ्य