________________ अदत्तादाण 537 - अभिधानराजेन्द्रः - भाग 1 अदत्तादाण माणो यः स तथा / सन्तापः, एकत्र शोकादिकृतः, अन्यत्र वाडवाग्रिकृतो नित्यं यत्र स सन्ताप-नित्यकः / तथा चलन् चपलश्वञ्चलश्च यः स तथा, अतिचपल इत्यर्थः / स च अत्राणानामशरणानां पूर्वकृतकर्मसञ्चयानां, प्राणिनामिति गम्यम्। यदुदीर्णं वयं पापंतस्य यो वेद्यमानो दुःखशतरूपी विपाकः स एव घूर्णश्च भ्रमन्जलसमूहोयत्र सतथा / ततोऽज्ञानादिपदानां कर्मधारयः। अतस्तम्। ऋद्धिरससातलक्षणानि यानि गौरवाण्यशुभाध्यवसायविशेषाः, त एवापहारा जलचरविशेषाः, तैहीता ये कर्मसंनिबद्धाः सत्त्वाः, संसारपक्षे ज्ञानावरणादिबद्धाः, समुद्रपक्षे विचित्रचेष्टाप्रसक्ताः। (कड्डिज-माण त्ति) आकृष्यमाणा नरक एव तल पातालं (दुत्तं ति) तदभिमुखं सन्ना इति सन्नकाः खिन्नाः, विषण्णाश्च शोकिताः, तैर्बहुलो यः स तथा। अरतिरतिभयानि प्रतीतानि। विषादो दैन्यं,शोकस्तदेव प्रकर्षाव-स्थम्। मिथ्यात्वं विपर्यासः,एतान्येव शैलाः पर्वतास्तैः सङ्कटो यः स तथा / अनादिसन्तानो यस्य कर्मबन्धनस्य तत्तथा, तच्चलेशाश्च रागादयस्तल्लक्षणं यत् चिक्खिल्लं कर्दमस्तेन दुष्ठु दुरुत्तारो यः स तथा। ततःसऋद्धीत्यादिपदानां कर्मधारयः, अतस्तम्। अमरनरतिर्यगगतौ यद्रमनं सैव कुटिलपरिवर्ता चक्रपरिवर्तना, विपुला विस्तीर्णा, वेला जलवृद्विलक्षणा, यत्र स तथा तम्। हिंसाऽलीकादत्तादानमैथुनपरिगृहलक्षणा ये आरम्भा व्यापाराः, तेषां यानि करणकारणानुमोदनानि तैरष्टविधमनिष्टं यत्कर्म पिण्डितं सञ्चितं, तदेव गुरुभारस्तेनाक्रान्ता येते तथा, तैदुर्गाण्येव व्यसनान्येव यो जलौघस्तेन दूरमत्यर्थं, निचोल्यमानैः निमज्जमानैः, (उम्मग्गनिमग त्ति) उन्मग्ननिमगैरूवा॑ऽधो-जलगमनानि कुर्वाणैः, दुर्लभंतलं प्रतिष्ठानं यस्य स तथा तम्। शरीरमनोमयानि दुःखानि उत्पिबन्त आसादयन्तः, सातंच सुखम्, असातपरितापनं च दुःखजनितोपतापः, एतन्मयमेतदात्मकम्, (उव्वुडुनिव्वुड्डयं ति) उन्मग्रनिमनत्वं कुर्वन्तः। तत्र सातमुन्मनत्वमिव, असातपरितापनं निमनत्वमिवेति / चतुरन्तं चतुर्विभागं दिग्भेदगतिभेदाभ्यां महान्तं प्रतीतम्, कर्मधारयोऽत्र दृश्यः / अनवदग्रमनन्तं, रुद्रं विस्तीर्ण, संसारसागरमिति प्रतीतम्। किंभूतम् ? इत्याहअस्थितानां संयमाव्यवस्थितानाम-विद्यमानमालम्बनं प्रतिष्ठानं च त्राणकारणं यत्र स तथा तम् अप्रमेयमसर्ववे दिनाऽपरिच्छेद्यं, चतुरशीतियोनिशतसहस्रगुपिलम्, तत्र योनयो जीवानामुत्पत्तिस्थानानि, तेषां चासंख्यातत्वेऽपि समवर्णगन्धरसस्पर्शानामेकत्वविवक्षणा-दुक्तसंख्यया अविरोधित्वं द्रष्टव्यम्। तत्र गाथा - "पुढवि '7 दग 7 अगणि 7 मारुय 7, एक्कक्के सत्त जोणिलक्खाओ। वणपत्तेय 10 अणंते १४,दसचोद्दस जोणिलक्खाओ॥१॥ विगलिंदिएसुदोदो, चउरो चउरो नारय-सुरेसु / तिरिएसु हुंति चउरो, चोद्दस लक्खा य मणुएसु" || इति / अनालोकानामज्ञानमन्धकारो यः स तथा तम्। अनन्तकालमपर्यवसितकालं यावत्, नित्यं सर्वदा, उत्त्रस्ता उद्गतत्रासाः, शून्याः इतिकर्तव्यतामूढाः, भयेन संज्ञाभिश्च आहारभयमैथुनपरिग्रहादिभिः, संप्रयुक्ता युक्ताः / ततः कर्मधारयः / वसन्ति अध्यासते, संसारसागरमिति प्रकृतम् / इह च वसेनिरुपसर्गस्यापि कर्मत्वं संसारस्य, छान्दसत्वादिति / किं भूतं संसारम् ? उन्निमग्नानां वासस्य वसनस्य वसतिस्थानं यः स तथा तम्।। तथा यत्र यत्र ग्रामकुलादौ आयुर्निबध्नन्ति पापकारिण-चौर्यविधायिनः, तत्र तत्रेति गम्यते / बान्धवजनादिवर्जिता भवन्तीति क्रियासम्बन्धः / बान्धवजनेन भ्रात्रादिना, स्वजनेन पुत्रादिना, मित्रैश्च सुहृद्भिः परिवर्जिता | ये ते तथा / अनिष्टाः, जनस्येति गम्यते, भवन्ति जायन्ते / अनादेयदुर्विनीता इति प्रतीतम् / कुस्थानासनशय्याश्च ते, कुभोजिनश्चेति समासः / (असुइणो त्ति) अशुचयोऽश्रुतयः, कुसंहननाः छेदवा संहननयुक्ताः, कुप्रमाणा अतिदीर्धा अतिहस्वा वा, कुसंस्थिता हुण्डादिस्थानाः / इति पदत्रयस्य कर्मध रयः / कुरूपाः कुत्सितवर्णाः बहुक्रोधमानमायालोमा इति प्रतीतम् / बहुमोहा अतिकाना अत्यर्थाज्ञाना वा, धर्मसंज्ञाया धर्मबुद्धेः, सम्यक्त्वाच्च ये परिभ्रष्टास्ते तथा / दारिद्र्योपद्रवाभिभूताः, नित्यं परकर्मकारिण इति प्रतीतम् / जीव्यते येनार्थेन द्रव्येण तद्रव्यरहिता ये ते तथा / कृपणा रङ्काः, परपिण्डतर्ककाः परदत्तभोजनगवेषकाः, दुःखलब्धाहारा इति व्यक्तम्। अरसेन हिङ्ग्वादिभिरसंस्कृतेन, विरसेन पुराणादिना, तुच्छेन अल्पेन, भोजनेनेति गम्यते। कृतकुक्षिपूरा यैस्ते तथा। तथा परस्य संबन्धिनं प्रेक्ष्यमाणाः। पश्यन्ति किम्? इत्याह- ऋद्धिः सम्पत्, सत्कारः पूजा, भोजनमशनम्, एतेषां ये विशेषाः प्रकाराः, तेषां यः समुदायः, उदयवर्तित्वं वा, तस्य यो विधिर्विधानमनुष्ठानं, स तथा तम् / ततश्च निन्दन्तो जुगुप्समानाः, (अप्पकं ति) आत्मनं, कृतान्तं च दैवं, तथा परिवदन्तो निन्दन्तः, कानि? इत्याह (इह य पुरे कडाई कम्माई पावगाइं ति) इहैवमक्षरघटनापुराकृतानि च जन्मान्तरकृतानि कर्माणि इह जन्मनि पापकान्यशुभानि / क्वचित्पापकारिण इति पाठः / विमनसो दीनाः, शोकेन दह्यमानाः, परिभूता भवन्तीति सर्वत्र संबन्धनीयम् / तथा सत्त्वपरिवर्जिताश्च (छोभ त्ति) निस्सहायाः क्षोभणीया वा, शिल्पचित्रादिकला धनुर्वेदादिः, समयशास्त्रम्जैनबौद्धादिसिद्धान्तशास्त्रम्, एभिः परिवर्जिता ये ते तथा / यथाजातपशुभूताः शिक्षाऽऽभरणा-दिवर्जितबलीवादिसदृशाः, निर्विज्ञानत्वादिसाधात्। (अवियन्न त्ति) अप्रतीत्युत्पादकाः, नित्यं सदा, नीचान्यधमजनोचितानि, कर्माण्युपजीवन्ति तैर्वृत्तिं कुर्वन्ति येते तथा। लोककुत्सनीया इति प्रतीतम्। मोहाद् ये मनोरथा अभिलाषास्तेषां ये निरासाः क्षेपास्तैर्बहुला ये ते तथा / अथवा- मोघमनोरथा निष्फलमनोरथाः, निराशबहुलाश्च आशाऽभावप्रचुरा येते तथा। आशा इच्छाविशेषः, सैव पाशो बन्धनं तेन प्रतिबद्धाः संरुद्धाः, निर्यान्त इति गम्यम् / प्राणा येषां ते तथा / अर्थोत्पादानं द्रव्यार्जनं, कामसौख्यं प्रतीतम्, तत्रचलोकसारे लोकप्रधाने, भवन्ति, जायन्ते, (अफलवंतगा यत्ति) अफलवन्तः अप्राप्तका इत्यर्थः / लोकसारता चतयोः प्रतीता। यथाहुः- "यस्यार्थस्तस्य मित्राणि, यस्यार्थस्तस्य बान्धवाः। यस्यार्थः सपुमाँल्लोके, यस्यार्थः स च पण्डितः" ||1|| इति। तथा- "राज्ये सारंवसुधा, वसुन्धरायांपुरंपुरेसौधम्। सौधेतल्पंतल्पे, वराङ्गनाऽनङ्गसर्वस्वम्" ||1|| इति। किं भूताः, अपीत्याह- सुष्ठ्यपि च (उज्जच्चंत त्ति ) अत्यर्थमपि च प्रयतमानाः। उक्तं च - "यद्यदारभते कर्म, नरो दुष्कर्मसंचयात् / तत्तद्विफलतां याति, यथा बीजं महोषरे" ||1|| तदिवसं प्रतिदिनमुद्यक्तैरुद्यतैः सद्भिः कर्मणो व्यापारेण कृतेनयो दुःखेन कष्टन संस्थापितो मीलितः सिक्थानां पिण्डस्तस्यापि सञ्चये पराः प्रधाना ये ते तथा। क्षीणद्रव्यसारा इति व्यक्तम् / नित्यं सदा अधुवा अस्थिराः, धनानामणिमादीनां,धान्यानां शाल्यादीनां, कोशा आश्रया येषां स्थिरत्येऽपि तत्परिभोगेन वर्जिताश्च ये ते तथा। रहितं त्यक्तं कामयोः शब्दरूपयोः भो गानां च गन्धर