________________ अदत्तादाण 535 - अभिधानराजेन्द्रः - भाग 1 अदत्तादाण गात्राणि येषां ते तथा। अष्टादश कर्मकारणाः, अष्टादश चौरप्रसूतिहेतवः / तत्र चौरस्य, तत्प्रसूतीनां च लक्षणमिदम्। "चौरः 1 चौरापको 2 मन्त्री, 3 भेदज्ञः 4 काणकक्रयी 5 / अन्नदः 6 स्थानदश्चैव, चौरः सप्तविधः स्मृतः" // 1 // अत्र काणकक्रयी बहूमूल्यमपि अल्पमूल्येन चौराहृतं काणकं हीनं कृत्वा क्रीणातीत्येवंशीलः। "भलनं 1 कुशलं 2 तर्जा 3, राजभागो 4 ऽवलोकनम् 5 / अमार्गदर्शनं 6 शय्या 7, पदभङ्गः तथैव च // 1 // विश्रामः पादपतनं 10. आसनं 11 गोपनं 12 तथा। खण्डस्य खादनं चैव 13, तथाऽन्यन्मोहराजिकम् 14 // 2 // पद्याऽग्न्युदक-रजूनां 15-18, प्रदानं ज्ञानपूर्वकम्। एताः प्रसूतयो ज्ञेयाः, अष्टादश मनीषिभिः'' ||3|| तत्र भलनम्- न भेत्तव्यं भवताऽहमेव त्वद्विषये भलिष्यामीत्यादिवाक्यैश्चौर्यविषयं प्रोत्साहनम् 1 कुशलमिलितानां सुखदुःखतद्वार्ताप्रश्नः / तर्जा-हस्तादिना चौर्य प्रति प्रेषणादिसंज्ञाकरणम् 3 / राजभागोराजभाव्यद्रव्यापह्नवः 4 / अवलोकनम्-हरतां चौराणामुपेक्षाबुद्धया दर्शनम् 5 / अमार्ग-दर्शनम्- चौरमार्गप्रच्छकानां मार्गान्तरकथनेन तदपज्ञानम् 6 / शय्या-शयनीयसर्मपणादि७ापदभङ्गः- पश्चाच्चतुष्पदप्रचारादिद्वारेण / विश्रामः- स्वगृह एव वासकाद्यनुज्ञा / पादपतनम्प्रणामादिगौरवम् १०।आसनम्-विष्टरदानम् 11 // गोपनम्-चौरापह्नवम् 12 / खण्डखादनम्-मण्डकादिभक्तप्रयोगः 13 / मोहराजिक लोकप्रसिद्धम, 14 / पद्याऽग्न्युदकरज्जूनां प्रदानमिति प्रक्षालनाभ्यगाभ्यां दूरमार्गागमजनितश्रमापनोदित-त्वेन पादेभ्यो हितं पद्यमुष्णजलतैलादि तस्य 15, पाकाद्यर्थ चाऽग्नेः 16, पानाद्यर्थं च शीतोदकस्य 17, चौराहृतचतुष्पदादिबन्धनार्थं च रज्ज्वाश्च 18, प्रदान वितरणम् / ज्ञानपूर्वकं चेति सर्वत्र योज्यम्, अज्ञानपूर्वकस्य निरपराधत्वादिति। तथा पातिताऽङ्गोपाङ्गाः कदर्थिताङ्गोपाङ्गाः, तैः राज्ञः किङ्करैरिति प्रकृतम्। करुणाः, शुष्कोष्ठकण्ठगलतालुजिह्वाः, याचमानाः पानीयम्, विगतजीविताशाः, तृष्णार्दिताः, वराका इति स्फुटम् / (तं पि य त्ति) तदपि पानीयमपिन लभन्ते, वध्येषु नियुक्ता ये पुरुषा:-ते वध्यपुरुषाः, तैर्वाध्यमानाः प्रेर्यमाणाः। तत्र च धाडने, खरपरुषोऽत्यर्थकठिनो यः पटहको डिण्डिमकः, तेन प्रचलनार्थं पृष्ठदेशे घट्टिताः प्रेरिता येते तथा। कूरग्रहः कटिग्रहः, तेन च गाढरुष्टैर्निसृष्टमत्यर्थं परामृष्टाः गृहीता ये ते तथा / ततः कर्मधारयः / वध्यानां सम्बन्धि यत् करकुटीयुगं वस्त्रविशेषयुगलं तत्तथा, तन्निवसिताः परिहिताः / पान्तरं वधाश्च करकुट्यो हस्तलक्षणः, तयोः युगं युगलं, निवसिताश्च येते तथा। सुरक्तैः कणवीरैः कुसुमविशेषैः, ग्रथितं गुम्फितं, विमुकुलं विकसितं, कण्ठे गुण इव कण्ठे गुणं, कण्ठसूत्रसदृशमित्यर्थः / वध्यदूत इव वध्यदूतः, बद्धचिह्नमित्यर्थः / आविद्धिं परिहितं, माल्यदाम कुसुममाला, येषां ते तथा, मरणभयादुत्पन्नो यः स्वेदः तेनायतमायामवद् यथा भवतीत्येवं स्नेहेन उन्नुपितानीव स्नापितानीव क्लिन्नानि चार्टीकृतानि गात्राणि येषां ये तथा / चूर्णेनाङ्गारादीनां गुण्डितं शरीरं, कुसुभरजसा वातोत्खातेन रेणुना च धूलीरूपेण भरिताश्च भृताः केशा येषां ते तथा / कुसुम्भकेन / रागविशेषेण उत्कीर्णा गुण्डिता मूर्द्धजा येषां ते तथा / छिन्नजीविताशा | इति प्रतीतम् / घूर्णमानाः, भयविकलत्वात् / वध्याश्च हन्तव्याः, प्राणप्रीताश्व उच्छ्वासादि-प्राणप्रियाः, प्राणपीता वा भक्षितप्राणा ये ते तथा। पाठान्तरेण (वेज्झायणभीय त्ति) वधकेभ्यो भीता इत्यर्थः। 'तिलं तिलं चेव छिज्जमाणा' इति- व्यक्तम् / शरीराद्विकृत्तानि छिन्नानि लोहितावलिप्तानि यानि काकणीमांसानि श्लक्ष्णखण्डपिशितानि तानि तथा खाद्यमानाः, पापाः पापिनः, खरकरशतैः श्लक्ष्णपाषाणभृतैः, चर्मकोशकविशेषशतैः, स्फुटितवंशशतैः ताङ्यमानदेहाः, वातिकनरनारीसिंपरिखताः वातो येषामस्ति ते वातिकाः, वातिका इव वातिकाः अयन्त्रिता इत्यर्थः / तैनरैनारीभिश्च समन्तात्परिवृता ये ते तथा / प्रेक्ष्यमाणाश्च, नागरजनेनेति व्यक्तम् / वध्यनेपथ्यं संजातं येषां ते वध्यनेपथ्यिताः। प्रणीयन्ते नीयन्ते नगरमध्येन सन्निवेशमध्यभागेन, कृपणानां मध्ये करुणाः कृपणकरुणाः, अत्यन्तकरुणा इत्यर्थः / अत्राणाः, अनर्थप्रति-घातकाभावात्। अशरणाः, अर्थप्रापकाभावात्। अनाथाः, योगक्षेमकारिविरहितत्वात्। अबान्धवाः, बान्धवानामनर्थकत्वात्। बन्धुविप्रहीणाः, बान्धवैः परित्यक्तत्वात्। विप्रेक्षमाणाः पश्यन्तः (दिसो दिसंति )एकस्या दिशोऽन्यां दिशं, पुनस्तस्या अन्यां दिशमित्यर्थः / मरणभयेनोद्विग्रा येते तथा (आघायण त्ति) आघातनंच वध्यभूमिमण्डलस्य प्रतिद्वारम् / द्वारमेव संप्रापिता नीता ये ते तथा। अधन्याः, शूलाग्रे शूलकान्ते विलग्नोऽवस्थितो भिन्नो विदारितो देहो येषां ते तथा / ते च, तत्र आघातने, क्रियन्ते विधीयन्ते / तथा परिकल्पिताङ्गोपाङ्गाः छिन्नावयवाः, उल्लम्ब्यन्ते वृक्षशाखाभिः। केचित् करुणानि, वचनानीति गम्यन्ते; विलपन्त इति। तथा अपरे चतुलङ्गेषु हस्तपादलक्षणेषु (धणिय) गाढं बद्धा येते तथा। पर्वतकटकाद् भृगोः, प्रमुच्यन्ते क्षिप्यन्ते, दूरात्पातः पतनं च, बहुविषमप्रस्तरेषु अत्यन्तासमपाषाणेषु, सहन्ते ये ते तथा / तथाऽन्ये वाऽपरे गजचरणमलनेन निर्मर्दिता दलिता येते तथा। ते क्रियन्ते। कैः ? इत्याह-मुण्डपरशुभिः कुण्टकुठारैः। तीक्ष्णैर्हि तैर्नात्यन्तं वेदनोत्पद्यत इति विशेषणमिति / तथा केचित् अन्ये, उत्क्षिप्तकर्णोष्ठनासारिछन्नश्रवणदशनच्छदघ्राणाः, उत्पाटित-नयनदशनवृषणा इति प्रतीतम्। जिह्वा रसना, आञ्चिता आकृष्टा, छिन्नौ कर्णी, शिरश्च, नयनाद्याः येषां ते तथा। प्रणीयन्ते, आघातस्थानमिति गम्यते / छिद्यन्ते च खण्ड्यन्ते, असिना खड्ग न, तथा निर्विषया देशाद् निष्कासिताः, छिन्नहस्तपादाश्च, प्रमुच्यन्ते राजकिङ्करैस्त्यज्यन्ते, छिन्नहस्तपादा देशान्निष्कास्यन्त इति भावः / तथा यावज्जीवबन्धनाश्च क्रियन्ते, केचिदपरे, के ? इत्याह-परद्रव्यहरणलुब्धाइति प्रतीतम्।कारार्गलया चारकपरिधेन, निगडयुगलैश्च रुद्धा नियन्त्रिता ये ते तथा / ते क्व ? इत्याह (चारगाएत्ति) चारके गुप्तौ, किंविधाः सन्तः? इत्याह-हतसारा अपहृतद्रव्याः, स्वजनविप्रमुक्ता मित्रजननिराकृताः निराशाश्चेति प्रतीतम् / बहुजनधिक्कारशब्देन लज्जायिताः प्राप्तलजाः ये ते तथा / अलज्जा विगतलजाः, अनुबद्धक्षुधा सततबुभुक्षया, प्रारब्धाभिभूता अपराद्धा वा येते तथा। शीतोष्णतृष्णावेदनया दुर्घटया दुराच्छादनया, घट्टिताः स्पृष्टा येते तथा। विवर्णं मुखं, विरूपा च छविः शरीरत्वक, येषां ते विवर्णमुखविच्छविकाः। ततोऽनुबद्धेत्यादिपदानां कर्मधारयः / तथा विफला अप्राप्तेच्छितार्थाः, मलिना मलीमसाः, दुर्बलाश्चासमर्था ये ते तथा / क्लान्ता ग्लानाः, तथा कासमाना रोगविशेषात्कुत्सितशब्दं कुर्वाणाः, व्याधिताश्च सजातकुष्ठादिरोगाः, आमेनापक्वरसेनाभिभूतानि गात्राण्यङ्गानि येषां ते तथा / प्ररूढानि वृद्धिमुपगतानि, वृद्धत्वेनासंस्काराद् नखके शश्मश्रुरोमाणि