________________ अदत्तादाण 531 - अभिधानराजेन्द्रः - भाग 1 अदत्तादाण (उहारत्ति) जलजन्तुविशेषाः, तेच ग्राहतिमिशुंशुमाराश्च ते। द्वन्द्वः। तेषां समाहताश्च परस्परेणोपहताः (समुद्धायमाण यत्ति) समुद्धावन्तश्च प्रहाराय समुत्तिष्ठन्तो ये पूराः संघाः घोरा रौद्रास्ते च प्रचुरा यत्र स तथा तम्। कातरनर-हृदयकम्पनमिति प्रतीतम्।घोरं रौद्रं यथा भवतीत्येवमारसनं शब्दायमानं, महाभयादीन्येकार्थानि। (अणोरपारंति) अन-क्पिारमिव महत्त्वादनर्वापारम्, आकाशमिव निरालम्बम्, न हि तत्र पतद्भिः किञ्चिदालम्बनमवाप्यत इति भावः / औत्पातिकपवनेनोत्पातजनितवायुना (धणिय त्ति) अत्यर्थ ,येन (णोल्लियत्ति) नोदिताः प्रेरिता उपर्युपरि निरन्तरं तरङ्गाः कल्लोलास्ते, दृप्त इव अतिवेगोऽतिक्रान्तः शेषवेगं यो वेगस्तेन लुप्ततृतीयैकवचनदर्शनात् / चक्षुःपथे दृष्ट मार्गे (मोच्छरंतं कत्थइ ति) क्वचिद्देशे गम्भीरं विपुलगर्जितं मेघस्येव ध्वनिर्गुञ्जितं च, गुजालक्षणातोद्यं च निर्घातश्च गगने व्यन्तरकृतो महाध्यनिः, गुरुकनिपतितंच विद्युदादिगुरुकद्रव्यनिपातजनितध्वनियंत्र स तथा / सुदीर्घनिस्दी अह्रस्वप्रतिरवो (दूरसुचंतत्ति) दूरे श्रूयमाणो गम्भीरो धुगधुगित्येवंरूपश्च शब्दो यत्र स तथा कर्मधारयः / ततस्तम्। पथि मार्गे (रुभंतत्ति) रुन्धानाः संचरिष्णूनां मार्ग स्खलयन्तो ये यक्षराक्षसकूष्माण्ड पिशाचव्यन्तरविशेषाः, तेषां यत्प्रगर्जितं, उपसर्गसहस्राणि च। पाठान्तरेण (रुसियत्तज्जाय-उवसम्गसहस्सत्ति) तत्र यक्षादयश्च रूषिताः, तज्जातोप-सर्गसहस्राणि, तैः सकुलो यः स तथा तम् / बहूनि च औत्पातिकानि उत्पातान् भूतः प्राप्तो यः स तथा / वाचनान्तरे-उपद्रवेणाभिभूतो यः स उपद्रवाभिभूतः / ततः प्रतिपथेत्यादिना कर्मधारयः / अतस्तम्। तथा विरचितो बलिना उपहारेण होमेनाग्निकारिकया धूमेन उपचारो देवतापूजा यैस्ते तथा। दत्तं वितीर्ण रुधिरं यत्र तत्तथा, तच तदर्चनाकरणं च देवतापूजनं च तत्र प्रयता ये ते तथा / योगेषु प्रवहणोचितव्यापारेषु प्रयता ये ते तथा / ततो विरचितेत्यादीना कर्मधारयः / अतस्तैः सांयात्रिकैरिति गम्यते / चरितः सेवितो यः स तथा तम्। पर्यन्तयुगस्य सकल-युगान्तिमयुगस्ययोऽन्तकालःक्षयकालस्तेन कल्पा कल्पनीया उपमा रौद्रत्वाद्यस्य स तथा! दुरन्तं दुरवसानं महानदीनां गङ्गादीनां चेतरासांपतिः प्रभुर्यः स तथा। महाभीमो दृश्यते यः स तथा। कर्मधारयः / अतस्तम्।दुःखेनानुचर्यते सेव्यते यः स तथा तम्। विषमप्रवेशंदुष्प्रवेशं, दुःखोत्तारमिति च प्रतीतम् / दुःखेनाश्रीयत इति दुराश्रयस्तं, लवणसलिलपूर्णमिति व्यक्तम् / असिताः कृष्णाः, सिताः सितपटाः, समुच्छ्रिता उर्वीकृता येषु तान्य-सितसितसमुच्छ्रितानि तैः, चौरप्रवहणेषु कृष्णा एव सितपटाः क्रियन्ते, दूरादनुपलक्षणहेतोरित्यसितेत्युक्तम्। (दत्थतरेकेहिं ति) सांयात्रिकयानपात्रेभ्यः सकाशाद् दक्षतरैर्वेगवद्भिरित्यर्थः / वाहनैः प्रवहणैरतिपत्य पूर्वोक्तविशेषणं सागरं प्रविश्य समुद्रमध्ये घ्नन्ति, गत्वा जनस्य सायात्रिकलोकस्य, पोतान् यानपात्राणि, परद्रव्यहरणेये निरनुकम्पा निःशूकास्ते तथा। वाचनान्तरेपरद्रव्यहरा नरा निरनुकम्पाः (निरवेक्ख त्ति) परलोकं प्रति निरवकाक्षा निरपेक्षाः / ग्रामो जनपदाश्रितः सन्निवेशविशेषः, आकरो लवणाद्युत्पत्तिस्थानम्, नकरः अकरदायिलोकः,खेटं धूली-प्राकारः, कर्वट कुनगरं, मडंबं सर्वतोऽनासन्नसन्निवेशान्तरं, द्रोणपर्थ जलस्थलपथोपेतं, पत्तनं जलपथयुक्तं, स्थलपथयुक्तं वा, रत्नभूमिरित्यन्ते / आश्रमस्तापसविनिवासः, निगमो वणिग्जननिवासः, जनपदो देशः। इति द्वन्द्वः। अतस्तांश्वधनसमृद्धान्घ्नन्ति। | तथा स्थिरहृदयाः तत्रार्थे निश्चलचित्ताच्छिन्नलज्जाश्च ये ते तथा / बन्दिग्रहगोग्रहाँश्च गृह्णन्ति कुर्वन्तीत्यर्थः। तथा- दारुणमतयः निष्कृपा निघ्नन्ति, छिन्दन्ति गेहसन्धिमिति तम्। निक्षिप्तानि स्वस्थानन्यस्तानि हरन्ति, धनधान्यद्रव्यजातानि धनधान्य-रूप्यप्रकारान् / केषाम् ? इत्याह- जनपदकु लानां लोकगृहाणां, निघृणमतयः परस्य द्रव्याचैरविरताः, तथा / तथैव पूर्वोक्तप्रकारेण केचिददत्तादानमवतीर्ण द्रव्यं गवेषयन्तः कालाकालयोः सञ्चरणस्योचितानुचितरूपयोः सञ्चरन्तो भ्रमन्तः, (चियग त्ति) चितिषु प्रतीतासु प्रज्ज्वलितानि वह्निदीप्तानि सरसानि इन्धनादियुक्तानि दरदग्धानि ईषद्भस्मीकृतानि वृष्टान्याकृष्टानि तथा- विधप्रयोजनाभिः कलेवराणि मृतशरीराणि यत्र तत्तथा, तत्र श्मशाने। क्लिश्यमाना अटवी वासमुपयन्तीति संबन्धः। पुनः किं भूते ? रुधिरलिप्तवदनानि अक्षतानि समग्राणि; मृतकानि इति गम्यते / खादितानि भक्षितानि, पीतानि च शोणितापेक्षया, यूकाभिस्तास्त था, ताभिश्च डाकिनीभिः शाकिनीभिः भ्रमन्तीभिः तत्र सञ्चरन्तीभिः भयङ्करं यत्र तं रुधिरलिप्तवदनाक्षत खादितपीतडाकिनीभ्रमद्भयङ्करम् / क्वचिदक्षत इत्येतस्य स्थाने - "अदरंत" इति पठ्यते। तत्र चाभिनिर्भयाभिरिति व्याख्येयम्। (जंबुयखिक्खियंते त्ति) खिक्खीतिशब्दायमानः, शृगालः, ततः कर्मधारय / अतस्तत्र / तथा घूककृतघोरशब्दे कौशिकविहितरौद्रध्वाने, वेतालेभ्यः विकृतपिशाचेभ्य उत्थितं समुपजातं विशुद्ध शब्दान्तरामिश्र (कहकहेति त्ति) कहकहायमानं यत्प्रहसितं तेन (भीहणगं ति) भयानकम्। अत एव निरभिरामं वा ऽरमणीयं यत्र तत्तथा। तथा तत्र अतिबीभत्सदुरभिगन्धे इति व्यक्तम् / पाठन्तरेण-अतिदुरभिगन्धबीभत्सदर्शनीये इति / कस्मिन्नेवभूते ? इत्याह-श्मशाने पितृवने, तथा वने कानने यानि शून्यगृहाणि प्रतीतानि, लयनानि शिलामयगृहाणि, अन्तरे ग्रामादीनामर्धपथे, आपणा हट्टाः, गिरिकन्दराश्च गिरिगुहाः। इति द्वन्द्वः / ताश्च ताः विषमश्वापदसमाकुलाश्चेति कर्मधारयः, अतस्तासु / कासु एवं विधास्वित्याह- वसतिषु वा स्थानेषु वा क्लिश्यन्तः, शीतातपशोषितशरीरा इति व्यक्तम् / तथा दग्धच्छवयः शीतादिभिरुपहतत्वचः / तथा निरयतिर्यग्भव एव यत्सङ्कट गहनं तत्र यानि दुःखानि निरन्तरदुःखानि तेषां यः सम्भारो बाहुल्यं, तेन वेद्यन्ते अनुभूयन्ते यानि तानि तथा तानि पापकर्माणि संचिन्वन्तो बध्नन्तः दुर्लभं दुरापं भक्ष्याणां मोदकादीनामशनम्, ओदनादीनां पानानां च मद्यजलादीनां भोजनं प्राशनं येषां ते तथा। अत एव पिपासिता जाततृषः, (झुझिय त्ति) बुभुक्षिताः क्लान्ता म्लानीभूताः, मांसं प्रतीतम् (कुणिम ति) कुणयः शवः, कन्दमूलानि प्रतीतानि, यत्किञ्चिच्च यथावाप्तवस्तु। इति द्वन्द्वः / एतैः कृतो विहित आहारो भोजनं यैस्ते तथा / उद्विग्ना उद्वेगवन्त उत्प्लुता उत्सुकाः, अशरणाः अत्राणाः / किम् ? इत्याहअटवीवासमरण्यवसनमुपयन्ति / किं भूतम् ? व्यालशतशङ्कनीयं भुजगादिभिर्भयङ्करमित्यर्थः / तथा अयशस्कराः तस्करा भयङ्कराः, एतानि पदानि व्यक्तानि / कस्य हरामश्चोरयामः, इति इदं विवक्षितम् / अद्यास्मिन्नहनि, द्रव्यं रिक्थम्, इति एवंरूपं, समामन्त्रणं कुर्वन्ति, गुह्यं रहस्यम्, तथा बहुकस्य जनस्य, कार्यकरणेषु प्रयोजनविधानेषु, विघ्नकरा अन्तरायकारकाः, मत्तप्रमत्तसुप्तविश्वस्तान् छिद्रे अवसरे घ्नन्तीत्येवंशीला ये ते तथा / व्यसनाभ्युदयेषु हरणबुद्धय