________________ अदत्तादाण 530 - अभियानराजेन्द्रः - भाग 1 अदत्तादाण विरूपघोषकरणं, उत्कृष्ट उत्कृष्टनादः, आनन्दमहाध्व-निरित्यर्थः / कण्ठकृतशब्दश्च, तथाविधो गलरवः, त एव भीमगर्जितं मेघध्वनियंत्र स तथा तत्रा एकहेलया हसतां रुषतां वा कललक्षणोखो यत्रस तथा तत्र / तथा अशूनितेनेषत्शूलीकृतेन वदनेन ये रौद्रा भीषणास्ते तथा तथा भीमं यथा भवतीत्येवं दशनैरधरोष्ठौ गाढं दष्टौ यैः, ते तथा। ततः कर्मधारयः। ततस्तेषां भटानां सत्प्रहरणे सुष्ठु प्रहारकरणे उद्यताः प्रयत्नप्रवृत्ताः करा यत्र स तथा तत्र / तथा अमर्षवशेन कोपवशेन तीव्रमत्यर्थं रक्ते लाहिते निर्दारिते विस्फारिते अक्षिणी लोचने यत्र स तथा / वैरप्रधाना दृष्टि रदृष्टिः, तथा वैरदृष्ट्या वैरबुद्ध्या वैरभावेन ये कु द्धाश्चेष्टिताश्च तैः / त्रिवली कुटिला वलित्रया वक्रा भूकुटिर्नयनललाटविकारविशेषकृता ललाटे यत्र स तथा तत्र / तथा वधपरिणतानां मारणाध्यवसायवतां नरसहस्राणां विक्रमेण पुरुषाकारविशेषेण विजृम्भितं विस्फुरितं बलं शरीरसामर्थ्यं यत्र स तथा तत्र / तथा वल्गत्तुरङ्गैः रथैश्च प्रधाविता वेगेन प्रवृत्ता ये समरभटाः संग्रामयोधास्तेतथा। आपतिता योद्धमुद्यताः, छेका दक्षा लाघवप्रहारेण दक्षताप्रयुक्तघातेन साधिता निर्मिता यैस्ते तथा (समूस्सविय त्ति) समुच्छ्रितं हर्षातिरेकादूर्णीकृतं बाहुयुगलं यत्र तत्तथा, तद्यथा भवतीत्येवं मुक्ताट्टहासाः कृतमहाहासध्वनयः। (पुक्कंत त्ति) पुत्कुर्वन्तः पूत्कारं कुर्वाणाः, ततः कर्मधारयः / ततस्तेषां यो बोलः कलकलः स बहुलो यत्र स तथा तत्र। तथा (फलगावरणगहिय ति) स्फाराश्च फलकानि च आवरणानि स सन्नाहा गृहीतानियैस्ते तथा (गयदरपत्थंत त्ति) गजवरान् रिपुमतङ्गजान् प्रार्थयमाना हन्तुमारोढुं वाऽभिलषमाणास्तत्र शक्तास्तच्छीला वा ये ते तथा। ततः कर्मधारयः। ततस्तेचते दृप्तभटखलाश्च दर्पितयोधदुष्टा इति समासः। तेचते परस्परप्रलग्नाच, अन्योन्यं योद्धमारब्धा इत्यर्थः। तेच ते युद्धगर्विताश्च योधनकलाविज्ञानगर्विताः, तेच ते विकोशितवरासिभिः निष्कर्षितवरकरवालैः, रोषेण कोपेन त्वरितं शीघ्रम्, अभिमुखमाभिमुख्येन प्रहरद्भिश्छिन्नाः करिकरा यैस्ते तथा / ते चेति समासः। तेषां (विगिय ति) व्यगिताः खण्डिताः करा यत्रस तथा तत्र। तथा (अवइट्ठ त्ति) अपविद्धास्तोमरादिना सम्यग्विद्धाः निशुद्धभिन्नाः स्फाटिताश्च विदारिता यैः, तेभ्यो यत्प्रगलितं रुधिरं तेन कृतो भूमौ यः कर्दमस्तेन चिक्खिल्ला विलीनाः पन्थानो यत्र स तथा तत्रा तथा कुक्षौ दारिताः कुक्षि-दारिताः, गलितं रुधिर स्रवन्ति रुलन्ति वा भूमौ लुठन्ति, निन्भे-लितानि कुक्षितो बहिष्कृतानि अन्त्राणि उदरमध्यावयवविशेषा येषां ते तथा / (फुरफुरंतविगल त्ति) फुरफुरायमाणाश्च विकलाश्च विरुद्धेन्द्रियवृत्तयो ये ते। तथा मर्मणि हता मर्महताः, विकृतो गाढो यत्र दत्तः प्रहारो येषां ते तथा। अत एव मूर्छिताः सन्तो भूमौ लुठन्तः विह्वलाश्च निस्सहाङ्गाः ये ते तथा। तथा कुक्षिदारितादिपदानां कर्मधारयः। ततस्तेषां विलापः शब्दविशेषः करुणाः दयाऽऽस्पदं यत्र स तथा तत्र तथा हता विनाशिता योधा अश्वारोहादयो येषां ते तथा। तत्र ते यदृच्छया संभ्रमन्तस्तुरगाश्च उद्दाममत्तकुञ्जराश्च परिशङ्कितजनाश्च भीतजनाः (निम्मुक्कछिन्नद्धय त्ति) निर्मूलाः छिन्नाः केतवो भना दलिता रथवराश्च यत्र सतथा। नष्टशिरोमिश्छिन्नमस्तकैः करिकलेवरैः दन्तिशरीरैराकीर्णा व्याप्ताः / पतितप्रहरणा ध्वस्तायुधाः विकिर्णाभरणा विक्षिप्तालङ्काराः, भूमे गा देशा यत्र स तथा / ततः कर्मधारयः, तत्र / तथा नृत्यन्ति कबन्धानि शिरोरहितकलेवराणि प्रचुराणि यत्र स तथा / भंयकर वायसानां (परिलित्तगिद्ध त्ति) परिलीयमानगृद्धानां यन्मण्डलं चक्रवालं भ्राम्यतः संचरतस्तस्य या छाया तया यदन्धकारं तेन गम्भीरो यः स तथा। तत्र संग्रामे, अपरे राजानः परधनगृद्धाः, अतिपतन्तीति प्रकृतम्। अथ पूर्वोक्तमेवार्थ संक्षिप्ततरेण वाक्येनाह- वसवो देवाः, वसुधा च पृथिवी, विकम्पिता यैस्ते तथा। ते इव राजान इति प्रक्रमः / प्रत्यक्षमिव साक्षादिव तद्धर्मयोगात् पितृवनं श्मशानं प्रत्यक्षपितृवनम् (परमरुद्धबीहणगं ति) अत्यर्थदारुणं भयानकं दुष्प्रवेशतरक प्रवेष्टुमशक्यं, सामान्यजनस्येति गम्यम् / अतिपतन्ति प्रविशन्ति संग्रामसंकटं संग्रामगहनं, परधनं परद्रव्यं (महंत त्ति) इच्छत इति। तथा अपरे राजन्या अन्ये (पाइक्कचोरसंधा) पदातिरूपचौरसमूहाः, तथा सेनापतयः। किं स्वरूपाः? चौरवृन्दप्रकर्षकाच, तत्प्रवर्तका इत्यर्थः। अटवीदेशे यानि दुर्गाणि जलस्थलदुर्गरूपाणि, तेषु वसन्ति येते तथा। कालहरितरक्तपीतशुक्लाः , पञ्चवर्णा इति यावत् / अनेकशतसंख्याश्चिह्नपट्टा बद्धायैस्ते तथा / परविषयानभिघ्नन्ति; लुब्धा इति व्यक्तम्। धनस्य कार्ये धनकृते इत्यर्थः। तथा रत्नाकरभूतो यः सागरः, तथा तं चातिपत्याभिघ्नन्ति, जनस्यापातानिति सम्बन्धः / ऊर्मयो वीचयस्तत्सहस्राणां मालाः पक्तयस्ताभिराकुलो यः स तथा / आकुला जलाभावेन व्याकुलितचित्ता ये च तोयपोताः विगतजलयानपात्राः सांयात्रिकाः (कलकलंत त्ति) कलकलायमाना हलबोलं कुर्वाणास्तैः कलितो यः स तथा। अनेनाऽस्याऽपेयजलत्वमुक्तम् / अथवा-ऊर्मिसहस्रमालाभिराकुलोऽतिव्याकुलो यः स तथा। तथा विगतपोतैर्विगतसंबन्धनावोद्भिन्नैः कलकलं कुर्वद्भिः कलितो यः स तथा / ततः कर्मधारयः / तथा तम्। तथा पातालाः पाताल-कलशास्तेषां यानि सहस्राणि तैतिवशाद्वेगेन यत्सलिलं जल-धिजलम्(उद्धम्ममाणं ति) उत्पाट्यमानं तस्य यदुदकर-जस्तोयरेणुस्तदेव रजोऽन्धकारं धूलीतमो यत्र स तथा तम्। वरः फेनो डिण्डीरः। प्रचुरोधवलः(पुलंपुल त्ति) अनवरतंयः समुस्थितो जातः स एवाट्टहासो यत्र / वरफेन एव वा प्रचुरादिविशेषणोऽट्टहासो यत्र स तथा तम् / मारुतेन विक्षोभ्यमाणं पानीयं यत्र स तथा; जलमालानां जलकल्लोलानामुत्पलः समूहः (हुलिय त्ति) शीध्रो यत्र स तथा, ततः कर्मधारयोऽतस्तम् / अपिचेति समुच्चये / तथा समन्ततः सर्वतः क्षुभितवायुप्रभृतिभिर्व्याकुलितं लुलितं तीरभुवि लुठितं (खोक्खुम्भमाण त्ति) महामत्स्यादिभिर्भृशं व्या-कुलीक्रियमाणं, प्रस्खलितं निर्गच्छत्पर्वतादिस्खलितं, चलितं स्वस्थानगमनप्रपन्नं, विपुलं विस्तीर्ण, जलचक्र वालं तोयमण्डलं यत्र स तथा / तथा महानदीवेगैर्गङ्गाऽऽदिनिम्नगाजवैः त्वरितं यथा भवतीत्येवमापूर्यमाणो यः स तथा / गम्भीरा अलब्धमध्याः, विपुला विस्तीर्णाश्च ये आवर्ता जलप्रमाणस्थानरूपास्तेषु चञ्चलं यथा भवन्तीत्येवं भ्रमन्ति संचरन्ति, गुप्यन्ति व्याकुलीभवन्ति, (उप्पतंति) उद्बलन्ति वा ऊर्ध्ववमुखानि चलन्ति प्रत्यवनिवृत्तानि वाऽधः पतितानि पानीयानि प्राणिनो वा यत्र स तथा / अथवा जलचक्र वालेति नदीनां विशेषणमापूर्यमाणेति चावनिामिति / तथा प्रधाविता विगतगतयः खरपरुषा अतिकर्क शाः प्रचण्डाः रौद्रा व्याकुलितसलिला विलोलितजलाः स्फुटन्तो विदार्यमाणा ये वीचिरूपाः कल्लोलाः, न तु वायुरूपाः कल्लोलाः तैः सङ् कुलो यः स तथा / ततः कर्मधारयोऽतस्तम् / तथा महामक रमत्स्यकच्छ पाश्च