________________ अदत्तादाण 529 - अभिधानराजेन्द्रः - भाग 1 अदत्तादाण एतेषां द्वन्द्वः। अतस्तेच एकचौरा येएकाकिनः सन्तोहरन्तीति। (ओकट्ट त्ति) अपकर्षका ये गेहाद् ग्रहणं निष्कासयन्ति चौराण्याकार्य परगृहाणि मोषयन्ति, चौरपृष्ठबहा वा संप्रदायकाश्चौराणां भक्तकादि प्रयच्छन्ति। (ओच्छिंपक त्ति) अवच्छिम्पकाश्चौरविशेषा एव / सार्थघातकाः प्रतीताः। विलकोलीकारकाः / परव्यामोहनाय विसर्वर-वचनयादिनो, विसर्वरवचनकारिणो वा / एतेषां द्वन्द्वः / ते च निग्रहाद् ग्रहणान्निग्राह्य राजादिना गृहीता इत्यर्थः। ते चैते विप्रलोपकाश्चेति समासः। बहुविधेन (तेणिक्क त्ति) स्तेयेन हरणे बुद्धिर्येषां ते- 'बहुविहतेणिकहरणबुद्धीए'। पाठान्तरेण- (बहु-विधतहाऽवहरणबुद्धि त्ति) बहुविधा तथा तेन प्रकारेणापहरणे बुद्धिर्येषांतेतथा। एते उक्तरूपाः, अन्ये चैतेभ्यः एवंप्रकारा अदत्तमाददतीति प्रक्रमः। कथंभूतास्ते ? इत्याह- परस्य द्रव्याद् ये अविरता अनिवृत्ताः। इति ये अदत्तादानं कुर्वन्ति ते उक्ताः। अधुनात एव यथातत् कुर्वन्ति, तदुच्यते-विपुलं बलं सामर्थ्य परिग्रहश्च परिवारो येषां ते तथा। ते च बहवो राजानः परधने गृद्धाः / इदमधिकं वाचनान्तरे पदत्रयम् / तथा स्वके द्रव्ये असंतुष्टाः / परविषयान् परदेशानभिघ्नन्ति लुब्धाः,धनस्य कृते इत्यर्थः / चतुर्भिरङ्ग विभक्तं समाप्तं वा यद्लं सैन्यं तेन समग्रा युक्ता ये ते तथा। निश्चितैनिश्चयवद्भिर्वरयोधैः सह यद्युद्धं संग्रामस्तत्र श्रद्धा संजाता येषां ते तथा, ते च ते अहमित्येवं दर्पिताश्च दर्पवन्तः इति समासः। तैरेवंविधैः भृत्यैः पदातिभिः / क्वचित्सैन्यैरिति पठ्यते / संपरिवृताः समेताः, तथा पद्मशाकटसूचीचक्रसागरगरुडव्यूहानि, तैः / इह व्यूहशब्दः प्रत्येक संबध्यते / तत्र पद्माकारो व्यूहः पद्मव्यूहः, परेषामनभिभवनीयसैन्यविन्यासविशेषः। एवमन्येऽपिपञ्च / एतै रचितानि यानि तानि तथा तैः / कैः ? अनीकैः सैन्यैः। अथवा- पद्मादियूँहा आदिर्येषां गोमूत्रिकाव्यूहादीनां तथा। तैरुपलक्षितैः, कैः? अनीकैः। (उच्छरंत ति) आस्तृण्वन्त आच्छादयन्तः, परानीकानिति गम्यम् / अभिभूय जित्वा, तान्येव हरन्ति, परधनानीति व्यक्तम् / अपरे सैन्योवृतेभ्यो नृपेभ्योऽन्ये स्वयं योद्धारो राजानो रणशीर्षे संग्रामशिरसि प्रकृष्टरणे लब्धं लक्ष्यं यैस्ते तथा। 'संगामं ति’ द्वितीया सप्तम्यर्थेतिकृत्या संग्रामे रणे अतिपतन्ति स्वयमेव प्रविशन्ति, न सैन्यमेव योधयन्ति / किंभूताः ? सन्नद्धाः सन्नहनादिना कृतसन्नाहाः, बद्धः परिकरः कवचो यैस्ते तथा। उत्पाटितो गाढबद्धश्चिह्नपटो नेत्रा-दिचीवरात्मको मस्तके यैस्ते तथा / गृहीतान्यायुधानि शस्त्राणि प्रहरणानि यैस्ते तथा / अथवाआयुधप्रहरणानां क्षेप्याक्षेप्येन कृतो विशेषः / ततः सन्नद्धादीनां कर्मधारयः। पूर्वोक्तमेव विशेषणं प्रपञ्चयन्नाह-'माढी' तनुत्राणविशेषः, तेन वरवर्मणा च प्रधान-तनुत्राणविशेषेणैव गुण्डिताः प्रेरिता ये ते माढीवरवर्मगुण्डिताः / पाठान्तरेण-(वम्मटिवम्मगुडिता) तत्र 'गुडा' तनुत्राणविशेष एव; अन्यत् तथैव / आविद्धा परिहिता जालिका लोहकञ्चुको यैस्ते तथा / कवचेन तनुत्राणविशेषेणैव कण्टकिताः कृतकवचा ये ते तथा / उरसा वक्षसा सह शिरोमुखा ऊर्ध्वमुखाः बद्धा यन्त्रिताः कण्ठे गले तोणास्तूणीराः शरधयो यैस्ते / उरः शिरोमुखबद्ध-कण्ट तोणाः / तथा (पासिय त्ति) हस्तपाशितानि वरफलकानि प्रधानफलकानि यैस्ते तथा। तेषां सत्को रचितो रणोचितरचनाविशेषेण परप्रयुक्तपहरणप्रहार-प्रतिघाताय कृतः (पहकर त्ति) समुदायो यैस्ते तथा / ततः पूर्वपदेन सह कर्मधारयः / अतस्तैः सरभसैः सहर्षेः खरचापकरैः निष्ठुरकोदण्डहस्तैः, धानुष्कैरित्यर्थः / ये कराञ्चिताः कराकृष्टाः सुनिशिता अतिनिशिताः शरा बाणास्तेषां यो वर्षवटकरको वृष्टिविस्तारो (मुयंत त्ति) मुच्यमानः स एव घनस्य मेघम्य चण्डवेगानां धाराणां निपातः तस्य मार्गो यः स तथा / तत्र 'मंतेत्ति' पाठान्तरं च / तत्र मत्प्रत्ययान्तत्वान्निपातवति संग्रामेऽतिपतन्तीति प्रक्रमः / तथा अनेकानि धपि च मण्डलाग्राणि च खड्गविशेषाः, तथा सन्धिताः क्षेपणायोगीर्णा उच्छलिता ऊर्ध्वव गताः शक्तयश्च त्रिशूलरूपाः, कनकाच बाणाः, तथा वामकरगृहीतानि खेटकानि च फलकानि, निर्मला निकृष्टाः खड्गाश्च उज्ज्वलविकोशीकृतकरवालाः / तथा प्रहरन्ति प्रहारप्रवृत्तानि कुन्तानि च शस्त्रविशेषाः, तोमराश्च बाणविशेषाः, चक्राणि च अराणि, गदाश्च दण्डविशेषाः, परशवश्व कुठाराः, मुशलानि च प्रतीतानि, लाङ्गलानि च हलानि, शूलानि च, लगुडाश्च प्रतीताः / भिन्दिपालाश्च शस्त्रविशेषाः / शवलाश्च भल्लाः / पट्टिशाश्चाऽस्त्रविशेषाः, चर्मेष्टाश्च चर्मनद्धपापाणाः, घनाश्च मुद्गरविशेषाः, मौष्टिकाश्च मुष्टिप्रमाणपाषाणाः,मुद्रराश्च प्रतीताः, वरपरिघाश्च प्रबलार्गलाः, यन्त्रप्रस्तराश्च गोफणादिपाषाणाः, द्रुधणाश्चट्टकराः, तोणाश्च शरधयः, कुवेण्यश्च रूढिगम्याः, पीठानि च आसनानीति द्वन्द्वः / एभिः प्रतीताप्रतीतैः प्रहरणविशेषैः कलितो युक्तो यः स तथा। तत्र इलीभिः करवालविशेषैः प्रहरणैश्च (मिलिमिलिंत त्ति) चिकचिकायमानैः (खिप्पंत ति) क्षिप्यमाणैः विद्युतः क्षणप्रभाया उज्ज्वलाया निर्मलाया विरचिता विहिता समा सदृशी प्रभा दीप्तिर्यत्र तत्तथा। तदेवंविधंनभस्तलंयत्र सतथा तत्र संग्रामे। तथा स्फुटप्रहरणे स्फुटानि व्यक्तानि प्रहरणानि यत्रस तथा; तत्र संग्रामे। तथा महारणस्य संबन्धीनि यानि शङ्ख श्व, भेरीचदुन्दुभिः, वरतूर्य चलोकप्रतीतम, तेषां प्रचुराणां पटूनां स्पष्टध्वनीनां पटहानां च पटहकानामाहतानामास्फालितानां निनादेन ध्वनिना गम्भीरेण बहलेन ये नन्दिताः हृष्टाः अक्षुभिताश्च भीतास्तेषां विपुलो विस्तीर्णो घोषो यत्र स तथा तत्र / हयगजरथयोधेभ्यः सकाशात्त्वरितं शीघ्रं प्रसृतं प्रसरमुपगतं यद् जो धूलीतदेवोद्धततमान्धकारमतिशयं प्रबलं तमिलं तेनबहुलो यः स तथा तत्र, तथा कातरनराणां नयनयोर्हदयस्य च (वाउलि ति) व्याकुलत्वं क्षोभं करोतीत्येवंशीलो यः स तथा तत्र / विलुलितानि शिथिलतया चञ्चलानि यान्युत्कटवराण्युन्नतप्रवराणि मुकुटानि मस्तकाभरणविशेषाणि किरीटानि च तान्येव शिखरत्रयोपेतानि, कुण्डलानि च कर्णाभरणानि, उडुदामानि च नक्षत्रमालाऽभिधानाभरणविशेषाः, तेषामाटोपः स्फारता सा विद्यते यत्र स विलुलितोत्कटवरमुकुटकिरीटकुण्डलोडुदामाटोपित इति। तथा प्रकटा याः पताकाः, उच्छ्रिताश्च ऊर्वी कृता ये गजगरुडा-दिध्वजाः, वैजयन्त्यश्च विजयसूचिकाः पताका एव चामराणि चलन्ति छत्राणि च तेषां सम्बन्धि यदन्धकार तेन गम्भीरोऽलब्धमध्यो यः स तथा कर्मधारयः। ततस्तत्र; हयानां यद् हेषितं शब्दविशेषः, हस्तिनां यद् गुलुगुलायितं शब्दविशेष एव, तथा रथानां यत् (घणघणाय त्ति) घणघणेत्येवंरूपस्य शब्दस्य करणम्, तथा(पाइक्क त्ति) पदातीनां यत् (हरहराइय त्ति) हरहरेतिशब्दकरणम् आस्फोटितं च करास्फोटरूपं सिंहनादश्व सिंहस्येव शब्दकरणम्, (छिलिय त्ति) सण्टितं सीत्कारकरणम्, विघुष्टं च