SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ अस्थिवाय 523 - अभिधानराजेन्द्रः - भाग 1 अस्थिवाय (णस्थि कल्लाणपावे वेत्यादि) यथेष्टार्थफलसम्प्राप्तिः कल्याणः, तन्न विद्यते, सर्वाशुचितया निरात्मकत्वात् / सर्वपदार्थानां बौद्धाभिप्रायेण, तथा तदभावे कल्याणवाँश्च न कश्चिद्विधते, तथाऽऽत्मभूतवाद्यभिप्रायेणपुरुष एवेदं सर्वमिति कृत्वा पापं पापवान् वा न कश्चिद्विद्यते, तदेवमुभयोरप्यभावः। तथा चोक्तम्-"विद्याविनयसंपन्ने, ब्राह्मणे गवि हस्तिनि। शुनि चैव श्वपाके च, पण्डिताः समदर्शिनः" / / 1 / / इत्येवमेव कल्याणपापकाभावरूपां संज्ञां नो निवेशयेत्। अपि त्वस्ति कल्याणं, कल्याणवाँश्व विद्यते, तद्विपर्यस्तं पापं तद्वाँश्च विद्यते, इत्येवं संज्ञा निवेशयेत् / तथाहि- नैकान्तेन कल्याणाभावो यो बौद्धरभिहितः, सर्वपदार्थानामशुचित्वासंभवात्, सर्वाऽशुचित्वे च बुद्धस्याप्यशुचित्वप्राप्तेः / नापि निरात्मनः स्वद्रव्यक्षेत्रकालभावापेक्षया सर्वपदार्थानां विद्यमानत्वात्परद्रव्यादिभिस्तु न विद्यन्ते, सदसदात्मकत्वाद्वस्तुनः। तदुक्तम्- स्वपर-सत्ताव्युदासोपादानोत्पाद्यं हि वस्तुनो वस्तुत्वमिति / तथाऽऽत्मा-द्वैतभावाभावात्पापाभावोऽपि नास्ति, अद्वैतभावे हि सुखी दुःखी सरोगो नीरोगः सुरूपः कुरूपो दुर्भगः सुभगोऽर्थवान् दरिद्रः, तथाऽयमन्तिकोऽयं तु दवीयान् इत्येवमादिको जगद्वैचित्र्यभावोऽध्यक्षसिद्धोऽपि न स्यात् / यच समदर्शित्वमुच्यते ब्राह्मण- चाण्डालादिषु, तदपि समानपीडोत्पादनतो द्रष्टव्यम्: न पुनः कर्मोत्पादितवैचित्र्याभावोऽपितेषां ब्राह्मणचाण्डालादीनामस्तीति। तदेवं कथंचित्कल्याणमस्ति, तद्विपर्यस्त तु पापकमिति / न चैकान्तेन कल्याणमेव, यतः के वलिनां प्रक्षीणघनघातिकर्मचतुष्टयानां सातसातोदयसद्भावात् / तथा नारकाणामपि पञ्चेन्द्रियत्वविशिष्टज्ञानादिसद्भावानैकान्तेन तेऽपिपापवन्त इति। तस्मात्कथंचित्कल्याणं कथंचित्पापमिति स्थितम् // 28 / / तदेवं कल्याणपापयोरनेकान्तरूपत्वं प्रसाध्यैकान्तं दूषयितुमाहकल्लाणे पावए वा वि, ववहारो ण विजइ। जं वेरं तं न जाणंति, समणा बालपंडिया // 26 // (कल्लाणे पायए इत्यादि) कल्यं सुखमारोग्यं शोभनत्वंवा, तदणतीति कल्याणम्, तदस्यास्तीति कल्याणः "अर्श आदिभ्योऽच्" 5 / 2 / 127|| इत्यनेन पाणिनीयसूत्रेण मत्वर्थीया-ऽच्प्रत्ययान्तः; कल्याणवानिति यावत् / पापकशब्दोऽपि मत्वर्थीयाऽच्प्रत्ययान्तो द्रष्टव्यः, तदेवं सर्वथा कल्याणवानेवायम्, तथा पापवानेवायमित्येवंभूतो व्यवहारो न विद्यते। तदैकान्तभूतस्यार्थस्यैवाभावात् / तदभावस्य च सर्ववस्तू - नामनेकान्ताश्रयणेन प्राक्प्रसाधितत्वादिति / एतच व्यवहाराभावाश्रयणं सर्वत्र प्रागपि योजनीयम्। तद्यथा- सर्वत्र वीर्यमस्ति नास्ति वा सर्वत्र वीर्यमित्येवंभूत एकान्तिको व्यवहारो न विद्यते। तथा नास्ति लोकोऽलोको वा, तथा सन्ति जीवा अजीवा इति वेत्येवंभूतो व्यवहरोन विद्यत इति सर्वत्र संबन्धनीयम्। तथा वैरं वजं तद्वत्कर्म वैरं, विरोधो वा वैरम्, तद्येन परोपतापादिनैकान्तपक्षसमाश्रयणेन वा भवति, तत्ते श्रमणास्तीर्थिका बाला इव बाला रागद्वेषकलिताः पण्डिताभिमानिनः शुष्कतर्क दध्माता न जानन्ति, परमार्थभूतस्याहिंसालक्षणस्य धर्मस्यानेकान्तपक्षस्य वाऽनाश्रयणादिति / यदि वा यद्वैरं तत्ते श्रमणा बालाः पण्डिता वान जानन्तीत्येवं वाचं न निसृजेदित्युत्तरेण संबन्धः / किमिति न निसृजेत् ? यतस्ते किञ्चिजानन्त्येव / अपि च- तेषां तन्नि मित्तकोपोत्पत्तेर्यचैवंभूतं वचस्तन वाच्यम् / यत उक्तम् -"अप्पत्तियं जेण सिया, आसु कुप्पिज वा परो / सव्यसो तं ण भासेजा, भासं अहियगामिणि" ||1|| इत्यादि / / 26 / / अपरमपिवाक्संयममधिकृत्याऽऽहअसेसं अक्खयं वा वि, सव्वदुक्खे ति वा पुणो। वज्झा पाणा न वज्झन्ति, इति वायं न नीसरे // 30 // (असे समित्यादि) अशेषं कृत्स्नं तत्साङ्ख्याभिप्रायेण कृतं नित्यमित्येवं नब्रूयात्, प्रत्यर्थं प्रतिसमयं चान्यथान्यथाभावदर्शनात्। स एवायमित्येवंभूतस्यैकत्वसाधकस्य प्रत्यभिज्ञानस्य लून पुनर्जातेषु केशनखादिष्वपि प्रदर्शनात्। तथापि शब्दादेकान्तेन क्षणिकमित्येवमपि वाचं न निसृजेत्, सर्वथा क्षणिकत्वे पूर्वस्य सर्वथा विनष्टत्वादुत्तरस्य निर्हेतुक उत्पादः स्यात् / तथा च सति "नित्यं सत्त्वमसत्त्वं वा, हेतोरन्यानपेक्षणात्" इति। तथा सर्वं जगद् दुःखात्मकमित्येवमपि न ब्रूयात्, सुखात्मकस्यापि सम्यग्दर्शनादिभावेनदर्शनात्। तथाचोक्तम्"तणसंथारनिस्सण्णो, विमुणिवरोभट्टरागमयमोहो।जपावइ मुत्तिसुहं, कत्तो तं चक्कवट्टी वि"||१|| तथा-वध्याश्चौरपारदारिकादयः, अवध्या वा, तत्कर्मानुमतिप्रसंगात्, इत्येवंभूतां वाचं स्वानुष्ठानपरायणः साधुः परव्यापारनिरपेक्षो न निसृजेत् / तथाहि- सिंहव्याघ्रमार्जारादीन् परसत्त्वव्यापादनपरायणान् दृष्ट्वा माध्यस्थ्यमवलम्बयेत् / तथा चोक्तम्- 'मैत्रीप्रमोदकारुण्यमाध्यस्थ्यादीनि सत्त्वगुणाधिकक्लिश्यमानविनयेषु" इति। एवमन्योऽपि वाक्संयमो द्रष्टव्यः। तद्यथाअमी गवादयो वाह्यान वाह्याः, तथाऽमीवृक्षादयश्छेद्या नछेद्या वेत्यादिकं वचो न वाच्यं साधुनेति॥३०|| अयमपरो वाक्संयमप्रकारोऽन्तःकरणशुद्धि समाश्रितः प्रदर्श्यतेदीसंति समियाचारा, भिक्खुणा साहुजीविणो। एए मिच्छोवजीवंति, इति दिढेि नधारए॥३१॥ दृश्यन्ते समुपलभ्यन्ते स्वशास्त्रोक्तेन विधिना निभृतः संयत आत्मा येषां ते निभृतात्मानः / क्वचित्पाठः -(समियाचारं त्ति) / सम्यक् स्वशास्त्रविहितानुष्ठानादविपरीत आचारोऽनुष्ठानं येषां ते सम्यगाचाराः, सम्यग्वा इतो व्यवस्थित आचारो येषां ते समिताचाराः 1 के ते? भिक्षणशिला भिक्षामात्रवृत्तयः / तथा साधुना विधिना जीवितुं शीलं येषां ते साधुजीविनः। तथाहि-ते न कस्यचिदुपरोधविधानेन जीवन्ति / तथा क्षान्ता दान्ता जितक्रोधाः सत्यसन्धा दृढव्रतायुगान्तरमात्रदृष्टयः परिपूतोदकपायिनो मौनिनः सदा तायिनो विविक्तैकान्तध्यानाध्यासिनोऽकौकुच्याः, तानेवंभूतानवधार्या अपि सरागा अपि वीतरागा इव चेष्टन्ते, इति मत्वैते मिथ्यात्वोपजीविन इत्येवं दृष्टिं न धारयेन्नैवंभूतमध्यवसायं कुर्यात्, नाप्येवंभूतां वाचं निसृजेत्यथैते मिथ्योपचारप्रवृत्ता मायाविन इति, छडास्थेन ह्यग्दिर्शिनवंभूतस्य निश्चयस्य कर्तुमशक्यत्वादित्यभिप्रायः / ते च स्वयूथ्या वा भवेयुस्तीर्थान्तरीया वा; तावुभावपि न वक्तव्यौ साधुना / यत उक्तम् "यावत्परगुणपरदोषकीर्तने व्यापृतं मनो भवति। तावदरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम्" // 1 // इत्यादि॥३१॥
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy