________________ अत्थिवाय 522 - अभिधानराजेन्द्रः - भाग 1 अस्थिवाय पृथिव्याश्रिता अपिनारकाः समानजातीयाश्रयणादेकप्रकारा एव। तथा तिर्यचोऽपि पृथिव्यादयः स्थावराः, तथा द्वित्रिचतुः - पञ्चेन्द्रियाश्च द्विषष्टियोनिलक्षप्रमाणाः सर्वेऽप्यक-विधा एव / तथा मनुष्या अपि कर्मभूमिजाऽकर्म भूमिजान्तरद्वीपक सं मूच्र्छ नजात्मक - भेदमनादृत्यैकविधत्वेनैवाश्रिताः / तथा देवा अपि भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदेन भिन्ना एकवधित्वेनैव गृहीताः / तदेवं सामान्यविशेषाश्रयणाचातुर्विध्यं संसारस्य व्यवस्थितम्: नेकविधत्यम्, संसारवैचित्र्यदर्शनात् / नाप्यनेकवधित्व्, सर्वेषां नारकादीनां स्वजात्यनतिक्रमादिति // 23 // 24 // सर्वभावानां सप्रतिपक्षत्वात्संसारसद्भावे सति अवश्यं तद्विमुक्तिलक्षणया सिद्ध्याऽपि भवितव्यमित्यतोऽधुना सप्रतिपक्षां सिद्धिं दर्शयितुमाहगत्थि सिद्धी असिद्धी वा, णेवं सन्नं निवेसए। अस्थि सिद्धी असिद्धी वा, एवं सन्नं निवेसए // 25 // (णत्थि सिद्धीत्यादि) सिद्धिरशेषकर्मच्युतिलक्षणा, तद्विपर्यस्ता चासिद्धिास्तीत्येवं नो संज्ञां निवेशयेत्, अपि त्वसिद्धेः संसारविलक्षणायाश्चातुर्विध्येनानन्तरमेव प्रसाधिताया अविगानेनास्तित्वं प्रसिद्धम्, तद्विपर्ययेण सिद्धेरप्यस्तित्वमनिवारितमित्यतोऽस्तिसिद्धिरसिद्धिर्वेत्येवं संज्ञां निवेशयेदिति स्थितम्। इदमुक्तं भवति- सम्यग्दर्शनज्ञानचारित्रात्मकस्य मोक्षमार्गस्य सदाकर्मक्षयस्य च, पीडोपशमादिनाऽध्यक्षेण दर्शनात् / अतः कस्यचिदात्यन्तिककर्महानिसिद्धरस्ति सिद्धिरिति / तथा चोक्तम्- "दोषावरणयोहानिनिःशेषाऽस्त्यतिशायिनी / क्वचिद्यथा स्वहेतुभ्यो, बहिरन्तर्मलक्षयः" !|1|| इत्यादि / सर्वज्ञसद्भावोऽपि संभवानुमानाद् द्रष्टव्यः / तथा हि-अभ्यस्यमानायाः प्रज्ञाया व्याकरणादिना शास्त्रसंस्कारेणोत्तरोत्तरवृद्ध्या प्रज्ञा तिशयो द्रष्टव्यः। तत्र कस्यचिदत्यन्तातिशयप्राप्तेः सर्वज्ञत्वं स्यादिति संभवानुमानेन चैतदाशङ्कनीयम् / तद्यथा- ताप्यमानमुदकम-त्यन्तोष्णतामियान्नाग्निसाभवेत्। तथा-"दशहस्तान्तरं व्योम्नि,योनामोत्प्लुत्य गच्छति / न योजनमसौ गन्तुं, शक्तोऽभ्या-सशतैरपि" ||1 // इति दृष्टान्तदान्तिकयोरसाम्यात् / तथाहि- ताप्यमानं जलं प्रतिक्षणं क्षयं गच्छेत, प्रज्ञातु विवर्द्धते। यदिवाप्लोषोपलब्धेरव्याहतमग्नित्वम्। तथा प्लवनविषयेऽपि पूर्वमर्यादाया अनतिक्रमाद् योजनोत्प्लवनाभावस्तत्परित्यागे चोत्तरोत्तरं वृद्धया प्रज्ञाप्रकर्षगमनवयोजनशतमपि गच्छेत्, इत्यतो दृष्टान्त-दान्तिकयोरसाम्यात्तदेवं नाशङ्कनीयमिति स्थितम् / प्रज्ञावृद्धेश्च बाधकप्रमामाणाभावादस्ति सर्वज्ञत्वप्राप्तिरिति। यदि वाऽञ्जन-भृतसमुद्रकदृष्टान्तेन जीवाकुलत्वाजगतो हिंसाया दुर्निवारत्वा-सिद्ध्यभावः। तथा चोक्तम्-"जले जीवाः स्थले जीवाः, आकाशे जीवमालिनि / जीवमालाऽऽकुले लोके, कथं भिक्षुरहिंसकः ?" ||1| इत्यादि। तदेवं सर्वस्यैव हिंसकत्यात्सिद्ध्यभाव इति / तदेतदयुक्तम् / तथाहि- सदोषयुक्तस्य पिहिताश्रवद्वारस्य पञ्चसमितिसमितस्य त्रिगुप्तिगुप्तस्य सर्वथा निरवाद्यानुष्ठायिनो द्विचत्वारिंशद्दोषरहितभिक्षाभुज ईर्यासमितस्य कदाचिद् द्रव्यतः प्राणिव्यपरोपणेऽपि तत्कृतबन्धाभावः, सर्वथा तस्यानवद्यत्वात्। तथा चोक्तम्- "उचालियम्मि पाए०" इत्यपि प्रतीतम्, तदेवं कर्मबन्धाभावात्सिद्धेः सद्भावोऽव्याहतः; साम गयभावादसिद्धि सद्भावोऽपीति // 25 // साम्प्रतं सिद्धानां स्थाननिरूपणायाहणस्थि सिद्धी नियं ठाणं,णेवं सन्नं निवेसए। अत्थि सिद्धी नियं ठाणं, एवं सन्नं निवेसए / / 26|| सिद्धेरशेषकर्मच्युतिलक्षणाया, निजं स्थानमीषत्प्राग्भाराख्यव्यवहारतः, निश्चयतस्तु तदुपरि योजनक्रोशषड्भागस्तत्प्रतिपादकप्रमाणाभावात्स नास्तीत्येवं संज्ञां नो निवेशयेत्, यतो बाधकप्रमाणाभावात्साधकस्य चागमस्य सद्भावात् तत्सत्ता दुर्निवारेति / अपि च- अपगताशेषकल्मषाणां सिद्धानां केनचिद्विशिष्टेन स्थानेन भाव्यम्, तचतुर्दशरज्ज्वात्मकस्य लोकस्याग्रभूतं द्रष्टव्यम्।नच शक्यते वक्तुमाकाशवत्सर्व-व्यापिनः सिद्धा इति / यतो लोकालोकव्याप्याकाशम् / न चालोके परद्रव्यास्याकाशमात्र-रूपत्वात् लोकमात्रव्यापित्वमपि नास्ति, विकल्पानुपपत्तेः / तथाहिसिद्धावस्थायां तेषां व्यापि-त्वमभ्युपगतम्, उत प्रागपि ? न तावत्सिद्धावस्थायाम्, तद्व्यापित्वभवने निमित्ताभावात् / नापि प्रागवस्थायाम, तद्भावे सर्वसंसारिणं प्रति नियतसुखदुःखानुभवो न स्यात् / न च शरीराद्- बहिरवस्थितमवस्थानमस्ति, तत्सत्तानिबन्धनप्रमाणस्याभावात् / अतः सर्वव्यापित्वं विचार्यमाणं न कथञ्चिद् घटते। तदभावेच लोकाग्रमेव सिद्धानां स्थानम् / तद्गतिश्च कर्मविमुक्तस्योवं गतिरिति। तथा चोक्तम्-"लाओ एरंडफले, अग्गी धूमे उसूधणुविमुक्के / गइ पुव्वपओगेणं, एवं सिद्धाण वि गईओ" ||1|| इत्यादि। तदेवमस्ति सिद्धिः, तस्याश्च निजं स्थानमित्येवं सज्ञां निवेशयेदिति // 26|| साम्प्रतं सिद्धेः साधकानां तत्प्रतिपक्षभूतानामसाधूनां चास्तित्वं प्रतिपिपादयिषुः पूर्वपक्षमाहणत्थि साहू असाहू वा, णेवं सन्नं निवेसए। अत्थि साहू असाहू वा, एवं सन्नं निवेसए // 27 // नास्ति, न विद्यते ज्ञानदर्शनचारित्रक्रियोपेतो मोक्षमार्गव्यवस्थितः साधुः संपूर्णस्य रत्नत्रयानुष्ठानस्याभावात्, तदभावाच तत्प्रतिपक्षभूतस्यासाधोरप्यभावः, परस्परापेक्षित्वात् / एतव्यवस्थानस्यैकतराभावे द्वितीयस्याप्यभाव इत्येवं संज्ञांनो निवेशयेत्, अपित्वस्ति साधुः, सिद्धेः प्राक्साधितत्वात्। सिद्धिसत्ता चन साधुमन्तरेण / अतः साधुसिद्धिस्तत्प्रतिपक्षभूतस्य वाऽसाधोरिति / यश्च संपूर्णरत्नत्रयानुठानाभावः प्रागाशङ्कितः, स सिद्धान्ताभि-प्रायमबुद्ध्वैव / तथाहिसम्यग्दृष्टरुपयुक्तस्यारक्तद्विष्टस्य सत्संयमवतः श्रुतानुसारेणाऽऽहारादिकं शुद्धबुद्धया गृह्णतः क्वचिदज्ञानादनेषणीय-ग्रहणसं भवेऽपि सततोपयुक्ततया संपूर्णमेव रन्तत्रयानुष्ठानमिति / यश्च भक्ष्यमिदं चाभक्ष्यम्, गम्यमिदं चागम्यम्, प्रासुकमेषणीयमिदमिदं च विपरीतमित्येवं रागद्वेषसंभवेन समभावरूपस्य सामायिकस्याभावः कैश्चिचोद्यते, तत्तेषां चोदनमज्ञानविज़म्भणात् / तथाहि- न तेषां सामायिकवतां साधूनां रागद्वेषतया भक्ष्याभक्ष्यादियिवेकोऽपि तु प्रधानमोक्षाङ्गस्य सच्चारित्रस्य साधनार्थमपि चोपकारापकारयोः समभावतया सामायिकम्, न पुर्नभक्ष्याभक्ष्ययोः समभाववृत्त्येति।।२७।। तदेवं मुक्तिमार्गप्रवृत्तस्य साधुत्वम्, इतरस्य चासाधुत्वं, प्रदाधुना च सामान्येन कल्याणपापवतोः सद्भाव प्रतिषेधनिषेधद्वारेणाहणत्थि कल्लाणपावे वा, णेवं सन्नं निवेसए। अस्थि कल्लाणपावे वा, एवं सन्नं निवेसए|२८||