________________ अस्थिवाय 521- अभिधानराजेन्द्रः - भाग 1 अत्थिवाय वासकोडीहिं / तण्णाणी तिहि गुत्तो, खवेइ ऊसासमित्तेणं" ||1|| इत्यादि / तथा क्षपक श्रेण्यां च झटित्येव कर्मणो भस्मीकरणात, यथाक्रमबद्धस्य चानुभवनाभावे वेदनाया अभावस्तदभावाच निर्जराया अपीत्येवं नो संज्ञां निवेशयेत् / किमिति ? यतः कस्यचिदेव कर्मण एवमनन्तोरक्तया नीत्या क्षपणात्तपसा प्रदेशानुभवेन चापरस्य तूदयोदीरणाभ्यामनुभवनमित्यतोऽस्ति वेदना / यत आगमोऽप्येवंभूत एव। तद्यथा-"पुट्विं दुचिण्णाणं, दुप्पडिकंताण कम्माणं / वेइत्ता मोक्खो णस्थि अवेइत्ता" इत्यादि वेदनासिद्धौ च निर्जराऽपि सिद्धयेत्यतोऽस्ति वेदना निर्जरावेत्येवं संज्ञां निवेशयेदिति॥१८॥ वेदनानिर्जरे च क्रियाऽक्रियत्वे ततस्तद्भावप्रतिषेधनिषेधपूर्वकं दर्शयितुमाहणत्थि किरिया अकिरिया वा, णेवं सन्नं निवेसए। अत्थि किरिया अकिरिया वा, एवं सन्नं निवेसए।।१६॥ (णस्थि किरिया अकिरिया वा इत्यादि) क्रिया परिस्पन्दलक्षणा, तद्विपर्यस्ता त्वक्रिया, ते द्वे अपिनस्तो, न विद्यते। तथाहि-सांख्यानां सर्वव्यापित्वादात्मन आकाशस्येव परिनिस्पन्दिका क्रिया न विद्यते। शाक्यानांतु क्षणिकत्वात्सर्वपदार्थानां प्रतिसमयमन्यथा वाऽन्यथोत्पत्तेः पदार्थसत्तैव, न तद्व्यतिरिक्ता काचित्क्रियाऽस्ति / तथा चोक्तम्"भूतिर्येषां क्रिया सैव, कारकस्यैव चोच्यते / " इत्यादि / तथा सर्वपदार्थानां प्रतिक्षणमवस्थान्तरगमनात्स-क्रियात्वम्, अतोन क्रिया विद्यते, इत्येवं संज्ञा नो निवेशयेत्। किं तर्हि- अस्ति क्रिया अक्रिया वेत्येवं संज्ञां निवेशयेत्। तथाहि-शरीरात्मनोर्देशाद्देशान्तरावाप्तिनिमित्ता परिस्पन्दात्मिका क्रिया प्रत्यक्षेणैवोपलभ्यते, सर्वथा निष्क्रियत्वे चात्मनोऽभ्युपगम्यमाने गगनस्येव बन्धमोक्षाद्यभावः; सच दृष्टष्टबाधितः / तथा शाक्यानामपि प्रत्यक्षेणोत्पत्तिरेव क्रियेत्यतः कथं क्रियाया अभावः / अपि च-एकान्तेन क्रियाऽभावे संसारमोक्षाभावः स्यात् / इत्यतोऽस्ति क्रिया, तद्विपक्षभूता चाक्रिया, इत्येवं संज्ञा निवेशयेदिति // 16 // तदेवं सक्रियात्मनि सति क्रोधादिसद्भाव इत्येतदर्शयितुमाहणत्थि कोहे व माणे वा, णेवं सन्नं निवेसए। अस्थि कोहे व माणे वा, एवं सन्नं निवेसए॥२०॥ स्वपरात्मनोरप्रीतिलक्षणः क्रोधः, स चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानाऽऽवरणसंज्वलनभेदेन चतुर्धाऽऽगमे पठ्यते / तथैतावद्भेद एव मानो गर्वः / एतौ द्वावपि, न स्तो, न विद्यते। तथाहिक्रोधः केषांचिन्मतेन मानांश एव, अभिमानग्रहगृहीतस्य तत्कृतावत्यन्तक्रोधोदयदर्शनात्। क्षपकश्रेण्यां च भेदेन क्षपणानभ्युपगमात्। तथा किमयमात्मधर्मः, आहोस्वित्कर्मणः, उतान्यस्येति ? तत्रात्मधर्मत्वे सिद्धानामपि क्रोधोदयप्रसङ्गः। अथकर्मणः, ततस्तदन्यकषायोदयेऽपि तदुदयप्रसङ्गात्।मूर्तत्वाच कर्मणो हिघटस्येव तदाकारोपलब्धिः स्यात् / अन्यधर्मत्वे त्वकिञ्चित्करत्वम्। अतो नास्ति क्रोध इत्येवं मानोभावोऽपि वाच्य इत्येवं संज्ञांनो निवेशयेत्।यतः कषायः कर्मोदयवर्ती दृष्टेष्टकृतभूकुटीभङ्गो रक्तवदनो गलत्स्वेदबिन्दुसमाकुलः क्रोधाध्मातः समुपलभ्यते / न चासौ मानांशः, तत्कार्याकरणात्, तथा परनिमित्तोत्थापितत्त्वाचेति / तथा जीवधर्मकर्मणोरुभयोरप्ययं / धर्मस्तद्धर्मत्वेन च प्रत्येकविकल्पदोषानुपपत्तिः, अनभ्युपगमात्।। संसार्यात्मनां कर्मणा सार्द्ध पृथग्भवनाभावात्तदुभयस्य च न नरसिंहवद्वस्त्वन्तरत्वात् / इत्यतोऽस्ति क्रोधो मानश्चेत्येवं संज्ञा निवेशयेत् // 20 // साम्प्रतं मायालोभयोरस्तित्वं दर्शयितुमाहणत्थि माया व लोभे वा, णेवं सन्नं निवेसए। अत्थि माया व लोमे वा, एवं सन्नं निवेसए।।२१।। (णत्थि मायावलोभेत्यादि) अत्रापि प्राग्वन्मायालोभ-योरभावादीनां निराकृत्यास्तित्वं प्रतिपादनीयमिति // 21 // साम्प्रतं तेषां च क्रोधादीनां समासेनास्तित्वं प्रतिपादयन्नाहणत्थि पेज्जे व दोसे वा,णेवं सन्नं निवेसए। अत्थि पेज्जे व दोसे वा, एवं सन्नं निवेसए॥२२॥ (णत्थिपेजेत्यादि) प्रीतिलक्षणं प्रेम पुत्रकलत्रधनधान्याद्यत्मीयेषु रागः, तद्विपरीतस्त्वात्मीयोपघातकारिणि द्वेषः, तावेतौ द्वायपि न विद्यते / तथाहि- केषांचिदभिप्रायः / यदुत- माया-लोभावेवावयवौ विद्येते, न तत्समुदायरूपोऽवयव्यस्ति / तथा क्रोधमानावेव स्तः, न तत्समुदायरूपोऽवयवी द्वेष इति। तथा ह्यवयवेभ्यो यद्यभिन्नोऽवयवी तर्हि तदभेदात्त एव, नासौ / अथ भिन्नः, पृथगुपलम्भः स्यात्, घटपटवत् / इतीत्येवमसिद्धिकल्पमूढतया नो संज्ञां निवेशयेत्। यतोऽवयवावयविनोः कथंचिद्भेद इत्येवं भेदाभेदाख्यतृतीयपक्ष समाश्रयणात्प्रत्येकपक्षाश्रितदोषानुपपत्तिः। इत्येवं चास्तिप्रीतिलक्षणं प्रेम, अप्रीतिलक्षणश्च द्वेष इत्येवं संज्ञां निवेशयेत्।।२२।। साम्प्रतं कषायसद्भावे सिद्धे सति तत्कार्यभूतोऽवश्यंभावी संसारसद्भाव इत्येतत्प्रतिषेधनिषेधद्वारेण प्रतिपादयितुमाहपत्थि चाउरंत संसारे,णेवं सन्नं निवेसए। अत्थि चाउरते संसारे, एवं सन्नं निवेसए।।२३।। पत्थि देवो व देवी वा,णेवं सन्नं निवेसए। अत्थि देवो व देवीवा, एवं सन्नं निवेसए।॥२४॥ (णत्थि चाउरते इत्यादि) चत्वारोऽन्ता गतिभेदाः नरकतिर्यङ्नरामरलक्षणा यस्य संसारस्यासौ चतुरन्तः संसार एव कान्तारः, भयैकहेतुत्वात् / स च चतुर्विधोऽपि न विद्यते; अपि तु सर्वेषां संसृतिरूपत्वात्कर्मबन्धात्मकतया च दुःखैकहेतुत्वात् / अथवा नारकदेवयोरनुपलभ्यमानत्वात्तिर्यङ्मनुष्ययोरेव सुखदुःखो-त्कर्षतया तद्व्यवस्थानाद् द्विविधः संसारः, पर्यायनयाश्रयणात् त्यनेकविधः, अतश्चातुर्विध्यं न कथंचिघटत इत्येवं संज्ञां नो निवेशयेत्।अपि त्वस्ति चतुरन्तः संसार इत्येवं संज्ञां निवेशयेत् / यत्तूक्तम्-एकविधः संसारः, तन्नोपपद्यते / यतोऽध्यक्षेण तिर्य-ङ्मनुष्ययोर्भेदः समुपलभ्यते / न चासावेक विधत्वे संसारस्य घटते / तथा संभवानुमानेन नारकदेवानामप्यस्तित्वाभ्युपगमाद् द्वैविध्यमपिन विद्यते। संभवानुमानं तु पुण्यपापयोः प्रकृष्ट-फलभुजस्तन्मध्यफलभुजां तिर्यङ्मनुष्याणां दर्शनात् / अतः संभाव्यते प्रकृष्टफलभुजो ज्योतिषां च प्रत्यक्षेणैव दर्शनात् / अथ तद्विमानानामुपलम्भः, एवमपि तदधिष्ठातृभिः कैश्चिद्भवितव्यमित्यनुपमानेन गम्यते / ग्रहगृहीतवरप्रदानादिना च तदस्तित्वानुमानमिति / तदस्तित्वे तु प्रकृष्टपुण्यफलभुज इव प्रकृष्टपापफलभुग्भिरपि भाव्यमित्यतोऽस्ति चातुर्विध्यम् / संसारस्य पर्यायनयाश्रयणे तु यदनेकविधत्वमुच्यते / तदयुक्तम् / यतः सप्त