________________ अस्थिवाय ५२०-अभिघानराजेन्द्रः- भाग 1 अस्थिवाय च्युतानुत्पन्नस्थिरैकस्वभावत्वान्न कायाकारपरिणते-ऽभ्युपगमः। नापि प्रागविद्यमानस्य चैतन्यमुत्पद्यते, आहोस्विद्विद्य-मानं तावदविद्यमानमः अतिप्रसङ्गात्, अभ्युपेता-गमलोपाद्वा / अथ विद्यमानमेव सिद्धं तर्हि जीवत्वं तथाऽऽ-त्माऽद्वैतवाद्यपि वाच्यः / यदि पुरुषमात्रमेवेदं सर्वम्, कथं घटपटादिषु चैतन्यं नोपलभ्यते ? तथा तदैक्यभेदनिबन्धनानां पक्षहेतुदृष्टान्तानामभावात्साध्य-साधनाभावः तस्मान्नै कान्तेन जीवाजीवयोरभावः, अपि तु सर्वपदार्थानां स्याद्वादाश्रयणाजीवः स्यादजीवः, अजीवोऽपि च स्याज्जीवः / इत्येतच स्याद्वादाश्रयणं जीवपुद्गलयोरन्योन्यानुगतयोः शरीरस्य प्रत्यक्षतयाऽध्यक्षेणैवीपलम्भाद् द्रष्टव्यमिति॥१३॥ जीवास्तित्वे च सिद्ध तन्निबन्धनयोः सदसत्क्रियाद्वाराऽऽ यातयोर्धर्माधर्मयोरस्तित्वप्रतिपादनायाहणत्थि धम्मे अधम्मेवा,णेवं सन्नं निवेसए। अत्थि धम्मे अघम्मेवा, एवं सन्नं निवेसए|१४|| (णत्थि धम्मे अधम्मे वेत्यादि) धर्मः श्रुतचारित्राख्यात्मको जीवस्यात्मपरिणामः कर्मक्षयकारणमात्मपरिणामः, एवमधर्मोऽपि मिथ्यात्वाविरतिप्रमादकषाययोगरूपः कर्मबन्धकारणमात्मपरिणाम एव / तावेवं भूतौ धर्माऽधर्मो कालस्वभावनियतीश्वरादिमतेन न विद्येते, इत्येवं संज्ञां नो निवेशयेत् / कालादय एवास्य सर्वस्य जगद्वैचित्र्यस्य धर्माधर्माध्यतिरेकेणैकान्ततः कारणमित्येवमभिप्रायं कुर्यात् , यतः त एवैकका न कारणम्, अपितु समुदिता एवेति। तथा चोक्तम्- "न हिकालादीहितो, केवलेहिंतो जायए किंचि। इह मुग्गरं धणाइ वि, ता सव्वे समुदिया हेऊ" ||11 // इत्यादि। यतो धर्माधर्ममन्तरेण संसारवैचित्र्यं नघटामियर्ति, इत्यतोऽस्ति धर्मः सम्यग्दर्शनादिकः, अधर्मश्च मिथ्यात्वादिक इत्येवं संज्ञा निवेशयेदिति // 4 // सतोश्च धर्माऽधर्मयोर्बन्धमोक्षसद्भाव इत्येतदर्शयितुमाहणत्थि बंधे व मोक्खे वा, णेवं सन्नं निवेसए। अत्थि बंधे व मोक्खे वा, एवं सन्नं निवेसए॥१५॥ (णत्थि बंधे व मोक्खे वा इत्यादि) बन्धः प्रकृतिस्थित्यनुभावप्रदेशात्मकतया कर्मपुद्गलानां जीवेन स्वव्यापारतः स्वीकरणम् ! स चामूर्तस्यात्मनो गगनस्येव न विद्यत इत्येवं नो संज्ञां निवेशयेत्। तथा तदभावाच मोक्षस्याप्यभाव इत्येवमपि संज्ञांनो निदेश-येत्। कथं तर्हि संज्ञां निवेशयेत् ? इत्युत्तरार्द्धन दर्शयति- अस्ति बन्धः कर्मपुद्गलै जीवस्य, इत्येवं संज्ञां निवेशयेदिति / यत्तूच्यतेमूर्तस्यामूर्त्तिमता संबन्धो न युज्यत इति / तदयुक्तम् / आकाशस्य सर्वव्यापितया पुद्गलैः संबन्धो दुर्निवार्यः, तदभावे तद्व्यापित्यमेव न स्याद्।अन्यथास्य विज्ञानस्य हृत्पूरमदिरादिना विकारः समुपलभ्यते, नचासौ संबन्धमृते। अतो यत्किश्चिदेतत्।अपिच-संसारिणामसुमता सदा तैजसकार्मणशरीरसद्भावादात्यन्ति-कममूर्त्तत्वं न भवतीति। तथा तत्प्रतिपक्षभूतो मोक्षोऽप्यस्ति, तद्भाये बन्धस्याप्यमावः स्यात्, इत्यतोऽशेषबन्धनापगमस्वभावो मोक्षोऽस्तीत्येवं संज्ञां निवेशयेदिति // 15 // बन्धसद्भावेचावश्यंभावी पुण्यपापसद्भाव इत्यतस्तद्धावं निषेधद्वारेणाहणत्थि पुण्णे व पावे वाणेवं सन्नं निवेसए। अस्थि पुण्णे व पावे वा, एवं सन्ने निवेसए॥१६॥ नास्ति, न विद्यते पुण्यं शुभकर्म प्रकृतिलक्षणम्, तथा पापं तद्विपर्ययलक्षणं नास्ति न विद्यते इत्येवं नो संज्ञां निवेशयेत् / तदभावप्रतिपत्तिनिबन्धनं त्विदम्-तत्र केषां चिन्नास्ति पुण्यं, पापमेव पत्कर्षावस्थंसत्सुखदुःखनिबन्धनम्। तथा-परेषां पापं नास्ति, पुण्यमेव ह्यपचीयमानं पापं कार्यं कुर्यादिति / अन्येषां तूभयमपि नास्ति। संसारवैचित्र्यं तु नियतिस्वभावादिकृतम्। तदेतदयुक्तम्। यतः पुण्यपापशब्दौ संबन्धिशब्दौ, संबन्धिशब्दानामे कस्य सत्ता परसत्तानान्तरीयकतो, नेतरस्यसत्तेति। नाप्युभयाभावः शक्यते वक्तुम, निबन्धनस्य जगद्वैचित्र्यस्याभावात् / न हि कारणमन्तरेण क्वचित्कार्यस्योत्पत्तिर्दृष्टा / नियतिस्वभावादिवादस्तु नष्टोत्तराणां पादप्रसारिकाणां पादप्रसारिकाप्रायः। अपिच-तद्वादेऽभ्युपगम्य-माने सकलक्रियावैयर्थ्यम्, तत एव सकलकार्योत्पत्तिः / इत्यतोऽस्ति पुण्यं पापंचेत्येवं संज्ञां निवेशयेत्।पुण्यपापे चैवंरूपे; तद्यथा-"पुद्गलकर्मशुभं यत्तत्पुण्यमिति जिनशासने दृष्टम् / यदशुभमथ तत्पापमिति भवति सर्वज्ञनिर्दिष्टम्" इति // 16 // न कारणमन्तरेण कार्यस्योत्पत्तिरतः पुण्यपापयोः प्रागुक्तयोः कारणभूतावाश्रवसंवरौ तत्प्रतिषेधद्वारेण दर्शयितुकाम आहपत्थि आसवे संवरे वा, णेवं सन्नं निवेसए। अत्थि आसवे संवरे वा, एवं सन्नं निवेसए॥१७॥ (णत्थि आसवे संवरे वेत्यादि) आश्रवति प्रविशति कर्म येन स प्राणातिपातादिरूप आश्रवः कर्मोपादानकारणम् / तथा तन्निरोधः संवरः। एतौ द्वावपिनस्त इत्येवं संज्ञांनो निवेशयेत्। तदभाव-प्रतिपत्त्या शङ्काकारणं त्थिदम्, कायवाङ्मनः कर्मयोगः। स आश्रव। इति यथेदमुक्तं तथेदमप्युक्तमेव-"उचालियम्मि पाए 0 इत्यादि' ततश्च कार्यादिव्यापारेण कर्मबन्धो न भवतीति / युक्तिरपि-किमयमाश्रव आत्मनो भिन्नः, उताऽभिन्नः ? यदि भिन्नो नामाऽसावाश्रवो घटादिवदभेदेऽपिनाश्रवत्वम्, सिद्धात्मनामपि आश्रवप्रसङ्गात्। तदभावे च तन्निरोधलक्षणस्य संवरस्याप्यभावः सिद्ध एव / इत्येवमात्मकमध्यवसायं न कुर्यात् / यतो यत्तदनै-कान्तिकत्वं कायव्यापारस्य "उचालयम्मि पाए" इत्यादिनोतं, तदस्माकमपि सम्मतमेव / यतोऽयमस्माभिरप्युपयुक्तकर्म-बन्धोऽभ्युपगम्यते / निरुपयुक्तस्य कर्मबन्धः, तथा भेदाभेदो-भयपक्षसमाश्रयणात्तदेकपक्षाश्रितदोषाभावः / इत्यस्त्या-श्रवसद्भावः, तन्निरोधश्च संवर इति / उक्तं च"योगःशुद्धः पुण्या-श्रवस्तुपापस्य तद्विपर्यासः। वाक्कायमनोगुप्तिभिराश्रवः संव-रस्तूक्तः" // 1 // इत्यतोऽस्त्याश्रवस्तथा संवरश्चेत्येवं संज्ञा निवे-शयेदिति // 17 // आश्रवसंवरसद्भावे चावश्यंभावी वेदनानिर्जरासद्भाव इत्यतस्तं प्रतिषेधद्वारेणाहणत्थि वेयणा णिज्जरा वा, णेवं सन्नं निवेसए। अस्थि वेयणा णिज्जरा वा, एवं सन्नं निवेसए॥१८॥ (णत्थि वेयणेत्यादि) वेदना कर्मानुभवलक्षणा, तथा- निर्जरा कर्मपुद्गलशाटनलक्षणा / एते द्वे अपि न विद्येते, इत्येवं नो संज्ञा निवेशयेत् / तदभावं प्रत्याशङ्काकारणमिदम् / तद्यथा- "पल्यो पमसागरोपमशतानुभवनीयं कर्मान्तर्मुहूर्तेनैव क्षयमुप-याति" इत्यभ्युपगमात् / तदुक्तम्- 'जं अण्णाणी कम्म, खवेइ बहुयाइँ