________________ अस्थिर 519 - अभिधानराजेन्द्रः - भाग 1 अस्थिवाय अध्यात्मचिन्तायामस्थिरं कर्म, तस्य जीवादशेश्याः पतिसमयचलनेनास्थिरत्वात् प्रलोटयति, बन्धोदयनिर्जरणादि-परिणामैः परिवर्तते, स्थिरं शिलादि न प्रलोटति / अध्यात्मचिन्तायां तु स्थिरो जीवः, कर्मक्षयेऽपि तस्य अवस्थितत्वान्नासौ प्रलोटति, उपयोगलक्षणस्वभावान्न परिवर्तते। तथा अस्थिरं भारस्वभावं तृणादि भुज्यते विदलयति। अध्यात्मचिन्तायामस्थिर कर्म, तद्भज्यते व्यपैति, तथा स्थिरमभङ्गुरमयःशलाकादिनभज्यते।अध्यात्मचिन्तायां स्थिरो जीवः सचन भज्यते,शाश्वतत्वादिति !जीवप्रस्तावादिदमाह-(सासए बालए ति) बालको व्यवहारतः शिशुः, निश्चयतोऽसंयतो जीवः, स च शाश्वतः, द्रव्यत्वात् / (बालियत्तं ति) इह कप्रत्ययस्य स्वार्थिकत्वाद् बालत्वम्, व्यवहारतः शिशुत्वम्, निश्चयतस्त्वसंयतत्वम्। तचाशाश्वतम्, पर्यायत्यादिति। एवं पण्डितसूत्रमपि, नवरं पण्डितो व्यवहारेण शास्त्रज्ञो जीवः, निश्चयतस्तु संयत इति। भ०१ श०६ उ०। अतत्स्थे च, स्थिरा नाम येषां तत्रैव गृहाणि, अस्थिरा येषामन्यत्र गृहाणि / बृ०१ उ०। अत्थि(थि)रछक्क-न०(अस्थिरषट्क) अस्थिराऽशुभदुर्भगदुःस्वराऽनादेयाऽयशःकीर्तिरूपे नामकर्मभेदषट्के, कर्म०१ कर्म०। अत्थि(थि)रणाम(ण)-न०(अस्थिरनामन् ) यदुदयात्कर्णभूजिह्वाद्यवयवा अस्थिराश्वपला भवन्ति, तस्मिन् नामकर्मभेदे, कर्म०१ कर्म०। अत्थि(थि)रतिग-न०(अस्थिरत्रिक) अस्थिराऽशुभाइय-शःकीर्तिसंज्ञे कर्मत्रिके, कर्म०४ कर्म०। अस्थि (थि)रदुग-न०(अस्थिरद्विक) अस्थिराशुभाख्ये कर्मद्विके, कर्म०२ कर्मा अत्थि(थि)रव्वय-त्रि०(अस्थिरव्रत) अस्थिराणि गृहीतमुक्ततया चलानि व्रतान्यस्येत्यस्थिरव्रतः / कदाचिद् व्रतं गृह्णाति कदाचिद् मुञ्चति / उत्त०२० अ०। अत्थि (थि)वाय-पुं०(अस्तिवाद) सतां वस्तूनां सत्त्वाभ्युपगमे, यथा"अस्थि य णिचो कुणई, कयं च वेएइ अस्थिणिव्वाणं / अस्थि य मोक्खोवाओ, छः सम्मत्तस्स ठाणाई" ||18|| प्रव०१४८ द्वा० एतमेवास्तिवादं समवसरणे भगवांस्तीर्थकर आख्याति / औला लोकादीनांवस्तुतः सतामस्तित्वमङ्गी-कार्यमेवाऽन्यथा त्वनाचार इति / सर्वशून्यवादिमतनिरासेन लोकालोकयोः प्रविभागेनाऽस्तित्वं प्रतिपादयितुकाम आहणत्थि लोए अलोएवा,णेवं सन्नं निवेसए। अस्थि लोए अलोएवा, एवं सन्नं निवेसए।।१२।। यदि वा सर्वत्र वीर्यमस्ति, नास्ति सर्वत्र वीर्यम्, इत्यनेन सामान्येन वस्त्वस्तित्वमुक्तम् / तथाहि- सर्वत्र वस्तुनो वीर्य शक्तिरर्थक्रियासामर्थ्य मनसः स्वविषयज्ञानोत्पादनम्, तच्चैकान्तेनाऽत्यन्ताभावाच्छशविषाणादेरप्यस्तीत्येवं संज्ञां न निवेशयेत, सर्वत्र वीर्य नास्तीति नो एवं संज्ञां निवेशयेदिति / अनेनावशिष्टं वस्त्वस्तित्वं प्रसाधितम् / इदानीं तस्यैव वस्तुन ईषद्विशेषितत्वेन लोकालोकरूपतयाऽस्तित्वं प्रसाधयन्नाह- (णत्थि लोए अलोए०इत्यादि) लोकश्चतुर्दशरज्ज्यात्मको धर्माधर्माकाशादिपञ्चास्तिकायात्मको वा स नास्तीन्येवं संज्ञां नो निवेशयेत् / तथाऽऽ- | कारशास्तिष्क्रयाकस्क, सवनाविधातावदो संज्ञांनो निवेशयोत। तदभावप्रतिपत्तिनिबन्धनं त्विदम् / तद्यथा-प्रतिभासमानं वस्त्ववयवद्वारेण वा प्रतिभासेत, अवयविद्वारेण वा? तत्र न तावदवयवद्वारेण प्रतिभासनमुत्पद्यते, निरंशपरमाणूनां प्रतिभासमानासंभवात्सर्वारातीयभागस्यपरमाण्वात्मकत्वात्, तेषां च छमस्थविज्ञानेन द्रष्टुमशक्यत्वात्। तथा चोक्तम्-"यावद्दृश्यं परस्तावभागः सचन दृश्यते। निरंशस्य च भागस्य,नास्तिछमस्थदर्शनम् // 1 // इत्यादि। नाप्यवयविद्वारेण विकल्प्यमान-स्यावयविन एवाभावात्। तथाहि असौ स्वावयवेषु प्रत्येकं सामस्त्येन वा वर्तेताम्, अशांशिभावेन वा ? सामस्त्येनावयविबहुत्वप्रसङ्गात् / नाप्यंशेन, पूर्वविकल्पानतिक्रमेणानवस्थाप्रसङ्गात्। तस्माद्विचार्यमाणं न कथंचिद्वस्त्वात्मकं भावं लभते / ततस्तत्सर्वमेवैतन्मायास्वप्नेन्द्रजालमरुमरीचिकाविज्ञानसदृशम् / तथा चोक्तम् -"यथा यथाऽर्थाश्चिन्त्यन्ते, विविच्यन्ते तथा तथा यद्येते स्वयमर्थिभ्यो, रोचन्ते तत्र के वयम् ?" ||1|| इत्यादि। तदेव वस्त्वभावे तद्विशेषलोकालोकाभावः सिद्ध एयेत्येवं नो संज्ञां निवेशयेत्, किन्त्वस्ति लोक उधिस्तिर्यग् रूपो वैशाखस्थानस्थितकटिन्यस्तकरयुग्मपुरुषसदृशः, पञ्चास्तिकायास्मको वा / तद्व्यरिक्तश्वालोकोऽप्यस्ति, संबन्धिशब्दत्वाल्लोकध्यवस्थऽनुपपत्तेरिति भावः / युक्तिश्चात्र- यदि सर्व नास्ति, ततः सर्वान्तःपातित्वात्प्रतिषेधकोऽपि नास्ति इत्यतस्तदभावात् प्रतिषेधाभावोऽपि च सति परमार्थभूते वस्तुनि मायास्वप्नेन्द्रजालादिव्यवस्था / अन्यथा किमाश्रित्य, को वा मायादिकं व्यवस्थापयेत् ? इति / अपि च- "सर्वाभावो यथाभीष्टो, युक्तयभावे न सिध्यति / साऽस्ति चेत्सैव नस्त वं, तत्सिद्धौ सर्ववस्तु सत्" // 1 // इत्यादि / यदप्यवयवावय-विविभागकल्पनया दूषणमभिधीयते तदप्यार्हतमतानभिज्ञेन / तन्मतं चैवंभूतम् / तद्यथा- नैकान्तेनावयवा एव, नाप्यवयव्येव चेत्यतः स्याद्वादाश्रयणात्पूर्वोक्तविकल्पदोषानुपपत्तिरित्यतः कथंचिल्लोकोऽस्त्येवमलोकोऽपीति स्थितम् // 12 // तदेवं लोकालोकास्तित्वं प्रतिपाद्याधुना तद्विशेषभूतयो र्जीवाजीक्योरस्तित्वप्रतिपादनायाहणत्थि जीवा अजीवा वा, णेवं सन्नं निवेसए। अस्थि जीवा अजीवावा, एवं सन्नं निवेसए|१३|| (णत्थि जीवा अजीवा वेत्यादि) जीवा उपयोगलक्षणाः संसारिणो मुक्ता वा, ते न विद्यन्ते- तथा अजीवाश्च, धर्माधर्माकाशपुगलकालात्मका गतिस्थित्यवगाहदानच्छायातपोद्योतादिवर्तनालक्षणा न विद्यन्त इत्येवं संज्ञां परिज्ञानं नो निवेशयेत्, नास्तित्वनिबन्धनं त्विदम्, प्रत्यक्षेणानुपलभ्यमानत्वात् / जीवा न विद्यन्ते, कायाकारपरिणतानि भूतान्येव धावनवल्गनादिकां क्रियां कुर्वन्तीति। तथाऽऽत्माद्वैतवादमताभिप्रायेण- "पुरुष एवेदं सर्व यद्भूतं यच भाव्यम्" इत्यागमात् / तथा अजीवा न विद्यन्ते, सर्वस्यैव चेतनाऽचेतनस्यात्ममात्रनिर्वर्तित्वात्, नो एवं संज्ञां निवेशयेत् / किं त्वस्ति जीवः सर्वस्यास्य सुखदुःखादेर्निबन्धनभूतः स्वसंवित्तिसिद्धोऽहंप्रत्ययग्राह्यः; तथा त व्यतिरिक्ता धर्माधर्माकाशपुद्गालादयश्च विद्यन्ते / सकलप्रमाणज्येष्ठे न प्रत्यक्षेणानुभूयमानत्वात् / तद्गुणानां भूतचैतन्यवादीव वाच्यः / किं तानि भवदभिप्रेतानि भूतानि नित्यानि,उत अनित्यानि ? यदि नित्यानि, ततोऽप्र