SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ अस्थिकाय 514- अभिधानराजेन्द्रः- भाग 1 अत्थिकाय साम्प्रतमस्तिकायद्वारमाहएएसिणं मंते ! धम्मत्थिकायअधम्मत्थिकायआगासत्थिकायजीवत्थिकाय पोग्गलत्थिकायअद्धासमया णं दव्वट्ठयाए कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए, एए तिन्नि वि तुल्ला दव्वट्ठयाए सव्वत्थोवा, जीवत्थिकाए दव्वद्वथाए अणंतगुणे, पोग्गलत्थिकाए दव्वट्ठयाए अणंतगुणे, अद्धासमए दव्वट्ठयाए अणंतगुणे। (एएसिणं भंते ! धम्मत्थिकायेत्यादि) धर्मास्तिकायोऽ-धर्मास्तिकाय आकाशास्तिकायः। एते त्रयोऽपि द्रव्यार्थतया द्रव्यमेवार्थो द्रव्यार्थस्तस्यभावो द्रव्यार्थता, तया द्रव्यरूपतया इत्यर्थः / तुल्याः समानाः, प्रत्येकमेकसङ्ग्याकत्वात्। अत एव सर्वेस्तोकाः, तेभ्यो जीवास्तिकायो द्रव्यार्थतयाऽनन्तगुणः / जीवानां प्रत्येकं तद्रव्यत्वात्, तेषां च जीवास्तिकायेऽनन्तत्वात्। तस्मादपि पुद्गलास्तिकायो द्रव्यार्थतयाऽनन्तगुणः। कथम् ? इति चेत्। उच्यते- इहपरमाणुद्विप्रदेशकादीनि पृथक् 2 द्रव्याणि, तानि च सामान्यतस्त्रिधा / तद्यथा-प्रयोगपरिणतानि, मिश्रपरिणतानि, विश्रसापरिणतानि च / तत्र प्रयोगपरिणतान्यपि तावजीवेभ्योऽनन्तगुणानि, एकै कस्य जीवस्यानन्तैः प्रत्येक ज्ञानावरणीयादि-कर्मसु पुद्गलस्कन्धरावेष्टितत्वात्। किं पुनः शेषाणि ? ततः प्रयोगपरिणतेभ्यो मिश्रपरिणतान्यनन्तगुणानि / तेभ्योऽपि विश्रसापरिणतान्यनन्तगुणानि। तथा चोक्तं प्राप्तौ-सव्वत्थोवा पुग्गला पओगपरिणया मीसपरिणया अनन्तगुणा, वीससापरिणया अनन्तगुणात्ति / ततो भवति जीवास्तिकायात् पुद्गलास्तिकायो द्रव्यार्थतया अनन्तगुणः। तस्मादप्यद्धासमयोद्रव्यार्थतया अनन्तगुणः / कथम् ? इति चेत् / उच्यते- इहैकस्यैव परमाणोरनागते काले तत् तद् द्विप्रदेशकत्रिप्रदेशकयावद्दशप्रदेशकसंख्यातप्रदेशकाऽसंख्यातप्रदेशकाऽनन्तप्रदेशकस्कन्धान्तः परिणामितया अनन्ता भाविनः संयोगाः पृथक् पृथक् कालाः केवलदेशोपलब्धाः। यथा चैकस्य परमाणोस्तया सर्वेषां प्रत्येकं द्विप्रदेशकादिस्कन्धानां च अनन्ताः संयोगाः पुरस्कृताः पृथक् पृथक् काला उपलब्धाः / सर्वेषामपि मनुष्यक्षेत्राऽन्तर्वर्तितया परिणामसंभवात् / तथा क्षेत्रतोऽप्ययं परमाणुरमुष्मिन् आकाशप्रदेशे अमुष्मिन् काले अत्र गाहिष्यते, इत्येवमनन्ता एकस्य परमाणो विनः संयोगा यथैकस्य परमाणोस्तथा सर्वेषां परमाणनां, तथा द्विप्रदेशकादीनामपि स्कन्धानामनन्तप्रदेशस्कन्धपर्यन्तानां प्रत्येक तत्तद्देश-प्रदेशाद्यवगाहभेदतो भिन्नभिन्नकाला अनन्ता भाविनः संयोगाः। तथा कालतोऽप्ययं परमाणुरमुष्मिन्नाकाशप्रदेशे एकसमयस्थितिकः, इत्येवमेकस्यापि परमाणोरेकस्मिन्नाकाशप्रदेशे-संख्येया भाविनः संयोगाः। एवं सर्वेष्यप्याकाशप्रदेशेषु प्रत्येकमसंख्येया भाविनः संयोगाः / ततो भूयो भूयस्तथा-55काशप्रदेशेषु परावृत्तौ कालस्याऽनन्तत्वादनन्ताः काललो भाविनः संयोगाः / यथा चैकस्य परमाणोस्तथा सर्वेषां परमाणूनां सर्वेषां च प्रत्येक द्विप्रदेशकादीनां स्कन्धानां; तथा भावतोऽप्ययं परमाणुरमुष्मिन् काले एकगुणकालको भवतीत्येव-मेकस्याऽपि परमाणोभिन्नभिन्नकालाः अनन्ताः संयोगाः / यथा चैकस्य परमाणोस्तथा परमाणूनां च सर्वेषां च द्विप्रदेशकादीनां स्कन्धानां पृथक पृथक् अनन्ता भावतः पुर-स्कृताः संयोगाः। / तदेवमेकस्यापि परमाणोर्द्रव्यक्षेत्रकालभावविशेषसंबन्धवशादनन्ता भाविनः समया उपलब्धाः, यथैकस्य परमाणोस्तथा सर्वेषां परमाणूनां सर्वेषां च प्रत्येक द्विप्रदेशकानां स्कन्धानाम् / न चैतत्परिणामकालवस्तुव्यतिरेकपरिणामि-पुद्गलास्तिकायादिव्यतिरेके चोपपद्यते / ततः सर्वमिदं च तात्त्विकमवसेयम् / उक्तं च- "संयोगपुरक्खारश्च, नाम भाविनि हि युज्यते काले / न हि संयोगपुरवखारो, ह्यसतां केषांचिदुपपन्नः" ||1|| इति यथा च सर्वेषां परमाणूनां च द्विप्रदेशकादीनां स्कन्धानां प्रत्येकं द्रव्यक्षेत्रकालभावविशेषसम्बन्धवशादनन्ता भाविनोऽद्धासमयाः, तथा अतीता अपीति, सिद्धः पुद्गलास्तिकायादनन्तगुणोऽद्धासमयो द्रव्यार्थतयेति / उक्तं द्रव्यार्थतया परस्परमल्पबहुत्वमिति। इदानीमेतेषामेव प्रदेशार्थतया तदाहएएसिणं भंते ! धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलत्थिकाए अद्धासमयाणं पदेसट्ठयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! घम्भत्थिकाए अधम्मत्थियाए, एएसिणं दो वितुल्ला पदेसट्ठयाए सव्वत्थोवा, जीवत्थिकाए पदेसठ्ठयाए अणंतगुणा, पोग्गलस्थिकाए पदेसट्ठयाए अणंतगुणा, अद्धासमए पदेसट्ठयाए अणंतगुणा, आगासत्थिकाए पदेसट्ठयाए अणंतगुणा। (एएसिणं भंते! धम्मत्थिकायेत्यादि) धर्मास्तिकायोऽ-धर्मास्तिकायः, एतौ द्वावपि परस्परं प्रदेशार्थतया तुल्यो, उभयोरपि लोकाकाशप्रदेशत्वात् / शेषास्तिकायावद्धासमयापेक्षया च सर्वस्तोकौ / ततो जीवास्तिकायः प्रदेशार्थतया अनन्तगुणः, जीवास्तिकाये जीवानामनन्तत्वात् / एकैकस्य च जीवस्य लोकाकाशप्रदेशपरिमाणप्रदेशत्वात् / तस्मादपि पुद्गलास्ति-कायः प्रदेशार्थतया अनन्तगुणः / कथमिति ? उच्यते- इह कर्मस्कन्धप्रदेशा अपि तावत्सर्वजीवप्रदेशेभ्योऽनन्तगुणाः; एकैकस्यच जीवप्रदेशस्यानन्तानन्तैः कर्मपरमाणुभिरावेष्टित-परिवेष्टितत्वात्। किं पुनः सकलपुद्गलास्तिकायप्रदेशस्ततो भवति जीवास्तिकायात्पुद्गलास्तिकायः प्रदेशार्थतयाअनन्तगुणः, तस्मादप्यद्धासमयः प्रदेशार्थतया अनन्तगुणः; एकैकस्य पुद्गला-स्तिकायप्रदेशस्य प्रागुक्तक्रमेण तत्तद्रव्यक्षेत्रकालभावविशेषसंबन्धभावतोऽनन्तानामतीताद्धासमयाना-मनन्तानामनागतसमयानां भावात्। तस्मादाकाशास्तिकायप्रदेशार्थतया अनन्तगुणः, अलोकस्य सर्वतोऽप्यनन्तताभावात् / गतं प्रदेशाऽर्थतयाऽप्यल्पबहुत्वम्। इदानीं प्रत्येकं द्रव्यार्थप्रदेशार्थतयाऽल्पबहुत्वमाहएएसि णं मंते ! धम्मत्थिकायस्स दव्वट्ठयाए पदेसट्ठयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा एगे धम्मत्थिकाए दव्वट्ठयाए, सो चेव पदेसट्टयाए असं खिज्जगुणा / एएसि णं भंते ! अधम्मत्थिकायस्स दव्वट्ठयपदेसट्टयाए कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवे एगे अधम्मत्थिकाए दव्वट्ठयाए, सो चेव पदेसट्टयाए असंखिजगुणे। एतस्सणं भंते! आगासत्थिकायस्स
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy