________________ अत्थ 507- अभिधानराजेन्द्रः - भाग 1 अत्थकहा साम्प्रतं धर्मादीनामेव संपन्नताऽसंपन्नते अभिधित्सुराहधम्मो अत्थो कामो, मिन्ने ते पिंडिया पडिसवत्ता। जिणवयणं उत्तिन्ना, अवसत्ता होंति नायव्वा / / 2 / / धर्मोऽर्थः कामः, त्रय एते पिण्डिता युगपत्संपातेन प्रतिसपत्नाः परस्परविरोधितः लोके कुप्रवचनेषु च / यथोक्तम्- 'अर्थस्य मूलं निकृतिः क्षमा च, कामस्य वित्तं च वपुर्वयश्च / धर्मस्य दानं च दया दमश्च, मोक्षस्य सर्वोपरमः क्रियासु"॥१॥ इत्यादि। एतेच परस्परविरोधिनोऽपि सन्तो जिनप्रवचनमवतीर्णाः, ततः कुशलाशययोगतो व्यवहारेण धर्मादितत्त्वस्वरूपतो वा निश्चयेन असपत्नाः परस्परविरोधिनो न भवन्ति, ज्ञातव्या इति गाथार्थः॥२६॥ तत्र व्यवहारेणाविरोधमाहजिणवयणम्मि परिणए, अवत्थविहिआणुठाणओ धम्मो। सच्छाऽऽसयप्पयोगा, अत्थो वीसंभओ कामो ||30|| जिनवचने यथावत् परिणते सति अवस्थोचितविहितानुष्ठानात् स्वयोग्यतामपेक्ष्य दर्शनादिश्रावकप्रतिमाइगीकरणे निरतिचार-पालनाद् भवति धर्मः / स्वच्छाऽऽशयप्रयोगाद्विशिष्टलोकतः पुण्यबलाचाऽर्थः विश्रम्भत उचितकलत्राऽङ्गीकरणताऽपेक्षो विश्रम्भेण काम इति गाथार्थः // 30 // अधुना निश्चयेनाविरोधमाहधम्मस्स फलं मोक्खो, सासयमउलं सिवं अणाबाहं। तमभिप्पेया साहू, तम्हाधम्मऽत्थकाम त्ति / / 31 / / धर्मस्य निरतिचारस्य, फलं मोक्षो निर्वाणम्, किं विशिष्टम् ? इत्याहशाश्वतं नित्यम्, अतुलमनन्यतुलम्, शिवं पवित्रम्, अनाबाधं बाधावर्जितमेतदेवाऽर्थः / तं धर्मार्थ मोक्षमभिप्रेताः कामयन्तःसाधवो यस्मात्तस्माद्धर्मार्थकामा इति गाथार्थः // 31 // एतदेव दृढयन्नाहपरलोगमुत्तिमग्गो, नस्थि हु मोक्खो त्ति बिंति अविहिन्नू। सो अत्थि अवितहो जिण- मयम्मि पवरो न अन्नत्थ // 32 // परलोको जन्मान्तरलक्षणो, मुक्तिमार्गो, ज्ञानदर्शनचारित्राणि नास्त्येव मोक्षः सर्वकर्मक्षयलक्षण इत्येवं ब्रुवते अविधिज्ञा न्यायमार्गाप्रवेदिनः। अत्रोत्तरम्- स परलोकादिः अस्त्येवावितथः सत्यो, जिनमते वीतरागवचने प्रवरः पूर्वापराविरोधेन; नाऽन्यत्रैकान्तनित्यादौ, हिंसादिविरोधादिति गाथार्थः // 33 // दश०६ अ० *अस्त-पुं० मेरौ, यतस्तेनाऽन्तरितो रविरस्तंगतइति व्यपदिश्यते। स०३८ समका निरस्ते अविद्यमाने, त्रि०ा ज्ञा०१३ अ०। *अस्त्र-न० अस्यते क्षिप्यते / अस्-ष्ट्रन् / क्षेप्ये शरादौ, वाच० / धनुरादिषु,ध०२ अधि० रिपुक्षेपणमात्रे साधने, प्रहरणमात्रे खड्गादावपि, वाचन अत्थअवगम-पुं०(अर्थावगम) 6 त०।अर्थपरिच्छेदे, दश०१ अ०। अत्थंगय-त्रि०(अस्तंगत) अस्तपर्वतं प्राप्ते, दश०८ अ० अत्यंतर-न०(अर्थान्तर) वस्त्वन्तरे, षो०१६ विव० / पृथग्भूते, दर्श०। गामश्वमभिदधतोऽसत्यभेदे, ध०२ अधि० न्यायमते उद्देश्यसिद्ध्यर्थ प्रयुक्तशब्दसामर्थ्यादनुद्देश्यसिद्ध्यनुकूले दुष्टसाधनवाक्ये, वाच०। अत्यंतरुत्भावणा-स्त्री०(अर्थान्तरोद्भावना) अलीकवचनभेदे, यथेश्वरादिः कर्ता समस्तस्यास्य जगतः क्रोधादिकषाया-ऽऽध्मातचेतसः प्रच्छन्नपापस्य। दर्श०। अत्थकंखिय-त्रि०(अर्थकाक्षित) कासा गृद्धिः, आसक्तिरित्यर्थः। अर्थे द्रव्ये काङ्क्षा अर्थकङ्का, सा संजाता अस्येति अर्थकाशितः। भ०१ श०७ उता प्राप्तेऽप्यर्थे अविच्छिन्नेच्छे, भ०१३ श०६ उ०। अत्थकप्पिय-पुं०(अर्थकल्पिक)आवश्यकादिश्रुतमधीतवति, बृ० / अर्थकल्पिकमाहअत्थस्स कप्पिओ खलु, आवस्सगमादि जाव सूयगमं। मोत्तूणं छेयसुयं, जेण अहीयं तदत्थस्स / / आवश्यकमादिं कृत्वा यावत् सूत्रकृतमङ्गं तावत्, यद् येनाधीतं, स तस्यार्थस्य कल्पिको भवति। सूत्रकृताङ्गस्योपर्यपिछेदश्रुतं मुक्त्वा यद् येनाधीतं सूत्रं, स तस्य सूत्रस्य समस्तस्याप्यर्थस्य कल्पिको भवति / छेदसूत्राणि पुनः पठितान्यपि यावदपरिणतं, तावन्न श्राव्यते, यदा तु परिणतं भवति, तदा कल्पिकः / / 7 / / बृ०१ उ०। अत्थकय-स्त्री०(अर्थकृत)अर्थाऽर्थे, "आसणदानंच अत्थकए" दश०६ अ० अस्थकर-पुं०(अर्थकर) अर्थस्य करस्तत्करणशीलोऽर्थकरः / प्रशस्तविचित्रकर्मक्षयोपशमाविर्भावतो विद्यापूर्वं धनार्जन-करणशीले, आ०म०द्वि०। अत्थकहा-स्त्री०(अर्थकथा) अर्थस्य कथा लक्ष्म्या उपाय-प्रतिपादनपरे वाक्यप्रबन्धात्मके कथाभेदे, उक्तं च- "सामा दिधातुवादादिकृष्यादिप्रतिपादिका / अर्थोपादानपरमा, कथाऽर्थस्य प्रकीर्तिता' // 1 // तथा- "अर्थाख्यः पुरुषार्थोऽयं, प्रधानः प्रतिभासते / तृणादपि लघु लोके, धिगर्थरहितं नरम्" ||1|| इति एतदेव विस्तरत उक्तम् / अधुनाऽर्थकथामाहविजासिप्पमुवाओ, अणिवेओ संचओय दक्खत्तं / सामं दंडो भेओ, उवप्पयाणं च अत्थकहा / / 16 / / विद्या शिल्पमुपायोऽनिर्वेदः संचयश्च दक्षत्वं साम दण्डो भेद उपप्रदानं चाऽर्थकथा, अर्थप्रधानत्वादित्यक्षरार्थः / भावार्थस्तु वृद्धविवरणादवसेयः। तचेदम्-"विजं पडुचऽत्थकहा; जो विजाए अत्थं उवजयति; जहा- एगेण विजा साहिया, सा तस्स पंचयं पइप्पभायं देइ। जहा वासव्वइस्स विजाहरचक्कवट्टिस्स विजापभावेण भोगा उवणया। सव्वइस्स उप्पत्ती जहा य सडकुले वत्थितो, जहा य महेसरो नामं कयं / एवं निरवसेसं जहाऽऽवस्सए जोगसंगहेसु, तहा भाणियव्वं / विज त्ति गयं / इयाणिं सिप्पेत्ति / सिप्पेणऽत्थो उवजिणइति। एत्थ उदाहरणं कोकासो जहाऽऽवस्सए / सिप्पे त्ति गयं / इयाणिं उवाए त्ति / एत्थ दिलुतो चाणक्को / जहा- चाणक्केण बहुविहेहिं अत्थो उवजिओ। कहं? दो मज्झधाउरत्ताओ। एयं पि अक्खाणयं जहाऽऽवस्सए तहा भाणियव्वं / उवाए त्ति गयं। इयाणि अणिव्वेए संचए य एक्कमेव उदाहरणंमम्मणवाणिओ। सो वि जहाऽऽवस्सए तहा भाणियव्वो" (अग्रेतनं तु 'दक्ख' शब्दे वक्ष्यते) दश०३ अ०। विद्यादिभिरर्थस्तत्प्रधाना कथा अर्थकथा / सदसद्पात्मकं वस्तुस्वरूपमिति पदार्थसंबन्धिन्यां वार्तायाम, स्या०।