________________ अत्तगवेसय 502 - अभियानराजेन्द्रः - भाग 1 अत्तट्ट अत्तगवेसय-पुं०(आत्मगवेषक) आत्मानं चारित्राऽऽत्मानं गवेषयतीति आत्मगवेषकः / कथमयं मम स्यादिति संयमजीवमार्गयितरि, तिगिच्छं नाभिनंदेजा, संचिक्खेऽत्तगवेसए। एवं खुतस्स सामण्णं, जंन कुज्जान कारवे / / 1 / / उत्त०२ उ०। नो ताहिं विहन्नेजा, चरेजऽत्तगवेसए। आत्मानं गवेषयेत्, कथं मयाऽऽत्मा भवानिस्तारणीयः, इत्यन्वेषयते। "आत्मगवेषकसिद्धिः स्वरूपाऽऽपत्तिः" इति वचनात् / सिद्धिर्वाऽऽत्मा। ततः कथं ममाऽसौ स्यादित्यन्वेषक आत्मगवेषकः / यद्वा आत्मानमेव गवेषयत इत्यात्मगवेषकः। किमुक्तं भवति?चित्राऽलङ्कारशालिनीरपि स्त्रियोऽवलोक्य तदृष्टिन्यास-स्य दुष्टताऽवगमात् झटिति ताभ्यो दृगुपसंहारत आत्माऽन्वेष्टेव भवति / उत्त०३ अ०॥ अत्तगामि(ण)-पुं० [आप्त (त्म) गामिन्] आप्तं (मोक्ष) गच्छति तच्छीलः / मोक्षगमनशीले आत्महितगामिनि, सर्वज्ञोप-दिष्टमार्गगामिनि वा मुनौ, "मुस न बूया मुणि अत्तगामी' / सूत्र० 1 श्रु०१० अ०) अत्तगुण-पुं०(आत्मगुण) बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माऽधर्मसंस्कारेषु जीवगुणेषु, सूत्र०१ श्रु०१२ अ०। अत्तचिंतअ-पुं०(आत्मचिन्तक) आत्मानमेव चिन्तयतीति। परकार्यमनपेक्ष्यैवाऽऽत्मानं चिन्तयति गणधारणाऽयोग्ये, व्य०। अब्भुञ्जयमेगयरं, पडिवजिस्सं ति अत्तचिंतो उ। जो वि गणे वि वसंतो, न वहति तत्ती तु अग्नेसिं ||1|| य आत्मानमेव केवलं चिन्तयन्मन्यते- यथाऽहमभ्युद्यतं जिन-कल्पं यथालन्दकल्पानमेकतरं प्रतिपत्स्ये इति आत्मचिन्तकः। योऽपि गणेऽपि गच्छेऽपि, वसन् तिष्ठन, न वहति,न करोति, तप्तिमन्येषां साधूनां सोऽप्यात्मचिन्तकः। एतौ द्वाक्प्यात्मचिन्त-कावनहीं / व्य०३ उ०। अत्तछट्ठ-पुं०(आत्मषष्ठ) आत्मा षष्ठ इति। पञ्चानां भूतानामात्मा षष्ठः प्रतिपाद्यत इत्ययं पञ्चमं सूत्रकृताङ्गस्य प्रथमोद्देशकस्य अर्थाऽधिकारे, सूत्र०। सांप्रतमात्मषष्ठवादिमतंपूर्वपक्षयितुमाहसंति पंच महन्भूया, इह मेगेसि आहिया। आयछट्टो पुणो आहु, आया लोगे य सासए।।१५। (संतीत्यादि) सन्ति विद्यन्ते, पञ्च महाभूतानि पृथिव्यादीनि, इहाऽस्मिन् संसारे, एकेषां वेदवादिनां सांख्यानां शैवाऽधिकारिणां च, एतदाख्यातम् / आख्यातानि च भूतानि ते च वादिन एवमाहुरेवमाख्यातवन्तः - यथा आत्मषष्ठानि आत्मा षष्ठो येषां तानि आल्मषष्ठानि, भूतानि, विद्यन्त इति / एतानि चाऽऽत्मषष्ठानि भूतानि यथाऽन्येषां वादिनामनित्यानि तथा नाऽमीषामिति दर्शयति- आत्मा, लोकश्व पृथिव्यादिरूपः शाश्वतोऽविनाशी / तत्राऽऽत्मनः सर्वव्यापित्वादमूर्तत्वाचाऽऽकाशस्येव शाश्वतत्वम्, पृथिव्यादीनां च तद्रूपाऽप्रच्युतेरविनश्वरत्वमिति / / 15 / / शाश्वतत्वमेव भूयः प्रतिपादयितुमाहदुहओ ण विणस्संति, नो य उपजए असं। सव्वे विसव्वहा भावा, नियतीभावमागया॥१६॥ (दुहओ ण विणस्संतीत्यादि) ते आत्मषष्ठाः पृथिव्यादयः पदार्थाः (उभयत इति) निर्हेतुकसहेतुकविनाशद्वयेन न विनश्यन्ति / यथा | बौद्धानां स्वत एव निर्हेतुको विनाशः। तथा च ते ऊचुः- जातिरेव हि भावानां, विनाशे हेतुरिष्यते / यो जातश्च न च ध्वस्तो, नश्येत्पश्चात्स केन च? / / 1 / / तथा च वैशेषिकाणां लकुटादिकारणसान्निध्ये विनाशः सहेतुकः / तेनोभयरूपेणापि विनाशेन लोकात्मनोर्न विनाश इति तात्पर्यार्थः / यदि वा (दुहउ त्ति) द्विरूपादात्मनः स्वभावाचेतनाचेतनरूपान्न विनश्यतीति। तथाहिपृथिव्यप्तेजोवाय्वाकाशानि रूपाऽपरित्यागतया नित्यानि, न कदाचिदनीदृशं जगदिति कृत्वा आत्माऽपि नित्य एव, कृतकत्वादिभ्यो हेतुभ्यः / तथा चोक्तम्- नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः / न चैन क्लेदयन्त्यापो, न शोषयति मारुतः // 1 / / अच्छेद्योऽयमदाह्योऽयमविकार्योऽयमुच्यते। नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः / / 2 / / एवं च कृत्वा नाऽसदुत्पद्यते, सर्वस्य सर्वत्र सद्भावात् / असति च कारकव्यापाराऽभावात् सत्कार्यवादः | यदि वा असदुत्पद्येत, खरविषाणादेरप्युत्पत्तिः स्यादिति / तथा चोक्तम्असदकरणादुपादानग्रहणात् सर्वसंभवाऽभावात् / शक्तस्य शक्यकरणात, कारणभावाच सत्कार्यम् / / 6 / / एवं च कृत्वा मृत्पिण्डेऽपि घटोऽस्ति, तदर्थिनां मृत्पिण्डोपादानात् / यदि वा असदुत्पद्येत, ततो यतः कुतश्चिदेव स्यानाऽवश्यमेतदर्थिनां मृत्पिण्डोपादानमेव क्रियते, इत्यतः सदेव कारणे कार्यमुत्पद्यत इति। एवं च कृत्वा सर्वेऽपि भावाः पृथिव्यादय आत्मषष्ठा नियतिभावं नित्यत्वमागताः, नाऽभावरूपताम्। अभूत्या च भावरूपतां प्रतिपद्यन्ते। आविर्भावतिरोभावमात्रत्वा-दुत्पत्तिविनाशयोरिति। तथा चाऽभिहितम्- नाऽसतो जायते भावो, नाऽभावो जायते सतः। इत्यादि। अस्योत्तरं नियुक्तिकृदाह- "को वेए" इत्यादि प्राक्तन्येव गाथा / सर्वपदार्थनित्यत्वाऽभ्युपगर्म कर्तृत्वपरिणामो न स्यात्, ततश्चाऽऽत्मनोऽकर्तृत्वे कर्मबन्धाऽभावः / तदभावाच को वेदयति, न कश्चित् सुखदुःखादिकमनुभवतीत्यर्थः / एवं च सति कृतनाशः स्यात् / तथा असतश्चोत्पादाभावे येयं मया आत्मनः पूर्वभावपरित्यागेनाऽपरभावोत्पत्तिलक्षणा पञ्चधा गतिरुच्यते, सा न स्यात्। ततश्च मोक्षगतेरभावाद्दीक्षादिक्रियाऽनुष्ठानमनर्थक-मापद्यते। तथाऽप्रच्युताऽनुत्पन्नस्थिरैकस्वभावत्वेन त्वात्मनो देवमनुष्यगत्यागती, तथा विस्मृतेरभावाद् जातिस्मरणादिकं वा न प्राप्नोति / यचोक्तम्सदेवोत्पद्यते / तदप्यसत् / यतो यदि सर्वथा सदेव, कथमुत्पादः ? उत्पादश्चेत्, तर्हि सर्वदाऽसदिति / तथा चोक्तम्- 'कर्मगुणव्यपदेशाः, प्रागुत्पत्तेर्न सन्ति यत् तस्मात् / कार्यमसद्विज्ञेयं, क्रियाप्रवृत्तेश्व कर्तृणाम् // 1 // तस्मात् सर्व-पदार्थानां कथंचिन्नित्यत्वं सदसत्कार्यवादश्चेत्यवधार्यम्। तथा चाभिहितम्- सर्वव्यक्तिषु नियतं, क्षणे क्षणेऽन्यत्वमथ च न विशेषः / सत्यश्चित्यपचित्योराकृतिजातिव्यवस्थानात् // 1 // इति / तथा नाऽन्वयः स हि भेदत्वात्, नभेदोऽन्वयवृत्तितः। मृझेदद्वयसंसर्ग-वृत्तिजात्यन्तरं घटः / / 1 / / सूत्र० १श्रु०१ अ०१ उ० अत्तट्ठ-त्रि०(आत्मस्थ) आत्मनि तिष्ठतीति आत्मस्थः / जीवस्थे, "आत्मस्थं त्रैलोक्यप्रकाशकं निष्क्रियं परानन्द्यम् / तीतादिपरिच्छेदकमलं ध्रुवं चेति समयज्ञाः" // 1 // षो०१५ विव०।। *आत्मार्थ-त्रि० आत्मभोगार्थे स्वभोगार्थे, ध०२ अधिक। आत्मनोऽर्थः आत्मार्थः / अर्थ्यमानतया स्वर्गादौ, आत्मैवाऽर्थ आत्माऽर्थः / आत्मव्यतिरिक्ते, मोक्षे च / उत्त०। "इह कामनियत्तस्स, अत्तद्वे नाऽवरज्झइ" / उत्त०८ अग हा०।