________________ अत्तकम्म 501 - अभिवानराजेन्द्रः - भाग 1 अत्तगवेसणया यस्मात् नाऽऽक्रामति संक्रमो विभागोवा, तस्मात् सत्त्वानां कर्म यस्य संपन्नं तेन तद् वेद्यते। तत् कथमुच्यते परकर्म आत्मकर्मीकरो-तीति? इदं च वाक्यं पूर्वाऽन्तर्गतम् / अन्यथाऽपि केचित्परमार्थम-जानाना व्याख्यानयन्ति। ततस्तन्मतमपाकर्तुमुपन्यसन्नाहकूडउवमाएँ केई, परप्पउत्ते वि बिंति बंधो त्ति। के चित् स्वपूज्या एव प्रवचनरहस्यमजानानाः कूटोपमायाः कूटदृष्टान्तेन, बुवतेपरप्रयुक्तेऽपि परेण पाचकादिना निष्पादितेऽप्योदनादौ साधोस्तद्ग्राहकस्य भवति बन्धः / एतदुक्तं भवति- यथा व्याधेन कूटे स्थापिते मृगस्यैव बन्धी, नव्याधस्य, तथा गृहस्थेनपाकादौ कृते तद्ग्राहकस्य साधोर्बन्धः, न पाककर्तुः। ततः परस्य यत्कर्म ज्ञानावरणीयादि संभवति, तदाधाकर्मग्राही स्वस्यैव संबन्धि करोतीत्युच्यते / तदेतदसदुक्तम् / जिनवचनविरुद्धत्वात् / तथाहिपरस्यापि साक्षादारम्भकर्तृत्वेन नियमतः कर्मबन्धसंभवस्ततः कथमुच्यते तद्ग्राहकस्य साधोर्बन्धो, न पाककर्तुः ? न च मृगस्याऽपि परप्रयुक्तिमात्रात् बन्धः, किन्तु स्वस्मादेव प्रभादादिदोषात्; एवं साधोरपि। तथा चैतदेव नियुक्तिकृदाहभणइ य गुरू पमत्तो, बज्झइ कूडे अदक्खो य। एमेव भावकूडे, बज्झइ जो असुभभावपरिणामो॥१॥ तम्हा उअसुभभावो, वजेयव्वो....... भणति प्रतिपादयति, चः पुनरर्थे / पुनरर्थश्चाऽयम् - एके केचन सम्यग् गुरुचरणपर्युपासनाविकलतया यथाऽवस्थितं तत्त्वमवेदितारोऽनन्तरोक्तं ब्रुवते- गुरुः पुनर्भगवान् श्रीयशोभद्रसूरिरेवमाह / एतेनैतदावेदयति- जिनवचनमवितथं, जिज्ञासुना नियमतः प्रज्ञावताऽपि सम्यग्गुरुचरणकमलपर्युपासनमास्थेयम्, अन्यथा प्रज्ञाया अवैतथ्यानुपपत्तेः। तदुक्तं च- तत्तदुत्प्रेक्ष्यमाणानां, पुराणैरागमैर्विना / अनुपासितवृद्धानां, प्रज्ञा नाऽति प्रसीदति / / 1 / / गुरुवचनमेव दर्शयति- मृगोऽपिखलु कूटैः स बध्यते, यः प्रभत्तोऽदक्षश्च भवति। यस्त्वप्रमत्तो दक्षश्च, स कदाचनापिन बध्यते / तथाहि-अप्रमत्तो मृगः प्रथमत एव कूटदेशंपरिहरति।अथकथमपि प्रमादवशात् कूटदेशमपि प्राप्तो भवति, तथाऽपि यावद् नाऽद्याऽपि बन्धः पतति, तावद् दक्षतया झगिति तद्विषयादपसर्पति / यस्तु प्रमत्तो दक्षतारहितश्च, स बध्यत एव। तस्मात् मृगोऽपि बध्यते / परमार्थतः स्वप्रमाद-क्रियावशतो, न परप्रयुक्तिमात्रात्। (एवमेव) अनेनैव मृग-दृष्टान्तोक्तप्रकारेण (भावकूटे) संयमरूपभावबन्धनाय कूटमिव कूटमाधाकर्म, तत्र स बध्यते, ज्ञानावरणीयादिकर्मणा युज्यते, योऽशुभभावपरिणाम आहारमापद्यते, आधाकर्मग्रहणात्मका-ऽशुभभावपरिणामो, नशेषः।नखल्वाधाकर्मणि कृतेऽपि यो न तद् गृह्णाति, नाऽपि भुङ्क्ते, स ज्ञानावरणीयाऽऽदिना पापेन बध्यते / न हि कूटे स्थापिते यो मृगस्तदेश एव नाऽऽयाति, आयातोऽपि यत्नतस्तद्देशं परिहरति, स कूटे बन्धमाप्नोति / तत्र परयुक्तिमात्राद् बन्धो, येन परोक्तनीत्या परकृतकर्मण आत्मकर्मीकरणमुपपद्यते, किन्त्वशुभाऽध्यव-सायभावतः / तस्मादशुभो भाव आधाकर्मग्रहणरूपः साधुना प्रयत्नेन वर्जयितव्यः परकर्म करोतीत्यत्र वाक्ये भावार्थः प्रागेव दर्शितः 1 यथा- परस्य पाचकादेर्यत्कर्म तदात्मकर्मीकरोति, किमुक्तं भवति? तदात्मन्यपि कर्म करोतीति, ततो ! न कश्चिद्घोषः। परकर्मणश्चाऽऽत्मकर्मीकरणमाधाकर्मणो ग्रहणे भोजने वा सति भवति यथा, तत उपचारादाधाकर्म आत्मकर्मत्युच्यते / ननु तदाधाकर्म, यदा स्वयं करोति, अन्येन वा कारयति, कृतं वाऽनुमोदते, तदा भवेदोषः। यदा तु स्वयंन करोति, नाऽपि कारयति, नाऽप्यनुमोदते, तदा कस्तस्य ग्रहणे दोष इति ? अत्राऽऽहकामं सयं न कुव्वइ, जाणतो पुण तहा वि तम्गाही। वड्लेइ तप्पसंग, अगिण्हमाणो उ वारेइ / / 1 / / काम सम्मतमेतत्, यद्यपि स्वयं न करोत्याधाकर्म; उप-लक्षणमेतत, न कारयति, तथाऽपि मदर्थमेतन्निष्पादितमिति जानानो यदि आधाकर्म गृह्णाति, तर्हि तद्ग्राही तत्प्रसंगम्आधाकर्मग्रहणप्रसङ्गं वर्द्धयति / तथाहि- यदा स साधुराधाकर्म जानानो गृह्णाति, तदाऽन्येषां साधूनां दायकानां च एवं बुद्धिरुप-जायते- नाऽऽधाकर्म भोजने कश्चनाऽपि दोषः; कथमन्यथा स साधु नानोऽपि गृहीतवान् ? इति / तत एवं तेषां बुद्ध्युत्पादे संतत्या साधूनामाधाकर्मभोजने दीर्घकालंषड्जीवनिकायविघातः, स परमार्थतस्तेन प्रवर्त्यते / यस्तु न गृह्णाति, स तथाभूतप्रसङ्ग वृद्धिं निवारयति; प्रवृत्तेरेवाभावात् / तथा चाह(अगिण्हमाणो उ वारेइ) ततोऽतिप्रसङ्ग दोषभयात् कृतकारितदोषरहितमपि नाऽऽधाकर्म भुञ्जीत / अन्यच्च तदाधाकर्म जानानोऽपि भुञ्जानो नियमतोऽनुमोदते / अनुमोदना हि नाम- अप्रतिषेधनम् / अप्रतिषिद्धमनुमोदनमिति विद्वत्प्रवादात् / तत आधाकर्मभोजने नियमतोऽनुमोदनदोषोऽनिवारितप्रसरः / अपि च- एवमाधाकर्मभोजने कदाचित् मनोज्ञाऽऽहारभोजनभिन्न-दृष्टतया स्वयमपि पचेत् पाचयेगा। तस्मात् न सर्वथा आधाकर्म भोक्तव्यमिति स्थितम् / तदेवमुक्तमात्मकर्मेति नाम / पिं०। निचू०। अत्तग-त्रि०(आत्मग) आत्मनिगच्छतीति आत्मगः / आन्तरे, "चिचाण अत्तगं सोय" सूत्र०१ श्रु०६ अ०l अत्तगवेसण-न०(आर्तगवेषण) द्रव्याद्यापत्सु, आर्तस्य, उपलक्षणमेतत्। अनार्तस्य वा, गवेषणं दुर्लभद्रव्यसंपादनाऽऽदिरूपमार्तगवेषणम् / औपचारिकविनयभेदे, व्य०१ उ०। अत्तगवेसणया-स्त्री०(आर्तगवेषणता) आर्तं ग्लानीभूतं गवेषयति भैषज्यादिना योऽसावार्तगवेषणः / तद्भाव आर्तगवेषणता / भ० 25 श०५ उ०ा आर्तस्य दुःखाऽऽर्तस्य गवेषणमौषधाऽऽदेरित्यार्त्तगवेषणम्; तदेवाऽऽर्तगवेषणतेति। पीडितस्योपकार इत्यर्थः। स्था०७ ठा०। *आत्म(स)गवेषणता-स्त्री० आत्मना, आप्तेन वा भूत्वा गवेषणं सुस्थदुःस्थतयोरन्वेषणं कार्यमिति / लोकोपचारविनयभेदे, स्था०७ ठा०ा औ०! साम्प्रतमार्तगवेषणरूपविनयप्रतिपादनार्थमाहदव्वावइमाईसुं, अत्तमणत्ते गवेसणं कुणइ / द्रव्यापदिदुर्लभद्रव्यसंपत्तौ च। तथा च भवति केषुचिद्देशेष्ववन्त्यादिषु दुर्लभं घृतादिद्रव्यमिति / आदिशब्दात् क्षेत्रा-ऽऽपदादिपरिग्रहः / तत्र क्षेत्राऽऽपदि कान्तारादिपत्तने, कालाऽऽपदि दुर्भिक्षे, भावाऽऽपदि गाढग्लानत्वे। आर्त्तस्य पीडितस्य अत्यन्तमसहिष्णुतया, अनार्तस्य या यथाशक्ति, यद् गवेषणं करोति, दुर्लभद्रव्यादि संपादयति, स आर्तगवेषणविनयः / व्य०१ उ०।