________________ आत ५००-अभिधानराजेन्द्रः-भाग 1 अत्तकम्म *आर्त्त-त्रि०ग्लानीभूते, भ०३५ श०१ उ०। दुःखार्ते, स्था०७ ठा०। "कम्मत्ता दुब्भगा चेव, इचाहं सुपुढो जणा'' पूर्वाचरितैः कर्मभिरार्ताः पूर्वस्वकृतकर्मणः फलमनुभवन्ति, यदि वा कर्मभिः कृष्यादिभिरातस्तित्कर्तुमसमर्थाः / सूत्र०१ श्रु०३ अ०१ उ०) अत्तउवण्णास-पुं०(आत्मोपन्यास) आत्मन एव उपन्यासो निवेदनं यस्मिस्तदात्मोपन्यासम्। उदाहरणे, दोषे, उपन्यासभेदे च / दश०। इदानीमात्मोपन्यासद्वारं विवृण्वन्नाहअत्तउवन्नासम्मिय, तलागभेयम्मि पिंगलो थवई। आत्मन एवोपन्यासो निवेदनं यस्मिन् तदात्मोपन्यासम्, तत्र च तडागभेदे पिङ्गलः स्थपतिरुदाहरणमित्यक्षरार्थः / भावार्थ: कथानकगम्यः / स चायम्- "इह एगस्स रन्नो तलागं सव्वरजस्स सारभूअंतं च तलागं वरिसे वरिसे भरियं भिजइ। ताहे राया भणइ-को सो उवाओ होज्जा, जेण तं न भिजेज ? तत्थ एगो कविलओ मणूसो भणति- जदि नवरं महाराय ! अच्छिपिंगलो, कविलियाओ से दाठियाओ, सिरं से कविलियं, सो जीवंतो चेव जम्मि ठाणे भिजति तम्मि ठाणे णिक्खमति, तोणवरण भिजति / पच्छा कुमारामचेण भणियंमहाराय ! एसो चेव एरिसो, जारिसयंभणति, एरिसोनत्थि अन्नो। पच्छा सो तत्थेव मारेत्ता निक्खित्तो / एवं एरिसं णो भाणियव्वं जं अप्पवहाए भवइ" इदं लौकिकम् / अनेन लोकोत्तरमपि सूचितम् / एकग्रहणेन तज्जातीयग्रहणात्तत्रचरणकरणानुयोगेनैवं ब्रूयाद्द्यदुत-"लोइयधम्माओ वि हु जे पन्भट्ठा णराहमा ते उ। कह दव्यसोयरहिया, धम्मस्साराहया होति" // 1 // इत्यादि। द्रव्यानुयोगे पुनरेकेन्द्रिया जीवाः, व्यक्तोच्छ्वास 'निःश्वासादिजीवलिङ्गसद्भावात्, घटवत् इह ये जीवा न भवन्ति, नतेषु व्यक्तोच्छवा-सनिःश्वासादिजीवलिङ्ग सद्भावः, यथा घटे, न च तथैतेष्वसद्भाव इति तस्माजीवा एवैते इत्यत्रात्मनोऽपि तद्रूपापत्त्याऽऽत्मोपन्यासत्वं भावनीयमिति / उदाहरणदोषता चास्याऽऽत्मोपघातजनकत्वेन प्रकटार्था एवेति न भाव्यते / गतमात्मोपन्यासद्वारम् / दश०१ अ॥ अत्तकड-त्रि०(आत्मकृत) आत्मार्थं कृते स्वगृहार्थमेव स्थापिते, बृ०१ शरीरभव्यशरीव्यतिरिक्तम् / द्रव्ये द्रव्यविषये, आत्मकर्म भवति / आत्मसंबन्धित्वेन कर्मकरणमात्मकर्म, इति व्युत्पत्त्या-ऽऽत्मश्रयणात्। भावात्मकर्म च द्विधा / तद्यथा- आगमतः, नोआगमतश्च / तत्रागमत आत्मकर्मशब्दार्थज्ञाता चोपयुक्तः। नोआगमतः पुनराहभावे असुहपरिणओ, परकम्म अत्तणे कुणइ / अशुभपरिणतोऽशुभेन प्रस्तावादाधाकर्मग्रहणरूपेण भावेन परिणतः परस्परपाचकादेः संबन्धे यत्कर्मपचनपाचनादिजनितं ज्ञानावरणीयादि, तदात्मनः संबन्धि करोति। तच परसंबन्धिनः कर्मण आत्मीयत्वेन करणं, भावे भावत आत्मकर्म, नोआगमतो भावात्मकर्मेत्यर्थः / भावेन परिणामविशेषेण परकीयस्यात्मसं-बन्धित्वेन कर्मकरणं भावात्मकर्मेति व्युत्पत्तेः। एतदेव सार्द्धया गाथया भावयतिआहाकम्मपरिणओ, फासुयमवि संकिलिट्ठपरिणामो। आयपरिमाणो बज्झइ, तंजाणसु अत्तकम्मे त्ति / / 1 / / परकम्म अत्तकम्मा, करेइ तं जो गिण्हितुं मुंजे // प्रासुकमचेतनलक्षणमेतदेषणीयं च स्वरूपेण भक्तादिकम् / आस्तामाधाकर्मेत्यपिशब्दार्थः / संक्लिष्टपरिणामः सन्नाधाकर्म ग्रहणपरिणतः सन्नादत्ते गृह्णन् यथाऽहमतिशयेन व्याख्या-नलब्धिमान्, मद्गुणाश्वासाधारणविद्वत्तादिरूपाः, सूर्यस्य भावनमिव कुत्र कुत्र न वा प्रसरमधिरोहन्ति ? ततो मद्गुणावर्जित एष सर्वोऽपि लोकः पक्त्वा पाचयित्वा च मामिष्टमिदमोदनादिकं प्रयच्छतीत्यादि, स इत्थमाददानः साक्षादारम्भकर्तेव ज्ञानावरणीयादि कर्मणा बध्यते / ततस्तज्ज्ञानावरणीयादि कर्मबन्धनमात्मकर्म जानीहि / इयमत्र भावना-आधाकर्म, यद्वा-स्वरूपेण अनाधाकर्मापि भक्तिवशतो मदर्थमेतन्निष्पादितमित्याधाकर्मग्रहणपरिणतो यदा गृह्णाति तदा स साक्षादारम्भकर्तेय स्वपरिणामविशेषतो ज्ञानावरणीयादिकर्मणा बध्यते, यदि पुनर्न गृह्णीयात्तर्हिनबध्यते।तत आधाकर्मग्राहिणा यत्परस्य पाचकादेः कर्म, तदात्मनोऽपि क्रियत इति परकर्म आत्मकर्म करोतीति बध्यते / एतदेव स्पष्ट व्यनक्ति-(परकम्मेत्यादि) तत आधाकर्म यदा साधुर्गृहीत्वा भुङ्क्ते, स परस्परं पाचकादेर्यत्कर्म तदात्मकर्म करोति, आत्मनोऽपि संबन्धि करोतीति भावार्थः। अमुच भावार्थमस्य वाक्यस्याजानानः परो जातसंशयः प्रश्नयति तत्थ भवे परकिरिया, कहं तु अन्नत्थ संकमइ। तत्र परकर्म आत्मकर्म करोतीत्यत्र वाक्ये भवेत् परस्य वक्तव्यम्। यथा-कथं परक्रिया परस्य सत्कं ज्ञानावरणीयादि कर्म, अन्यत्र आधाकर्मभोजके साधौ संक्रामतीति भावः / न खलु जातुचिदपि परकृतं कर्म अन्यत्र संक्रामति / यदि पुनरन्यत्रापि संक्रमेत्तर्हि क्षपक श्रेणिमधिरूढः कृपापरीतचेताः सकलजगज्जन्तुकर्मनिर्मूलनापादनसमर्थः सर्वेषामपि जन्तूनां कर्म ज्ञानात्मनि संक्रमय्य क्षपयेत् / तथा च सति सर्वेषामेककालं मुक्तिरूपंजायेत ? नजायते, तस्मान्नैव परकृतकर्मणामन्यत्र संक्रमः / उक्त च-क्षपकश्रेणिपरिणतः समर्थः सर्वकर्मिणां कर्म / क्षपयिता भवेत् कृपापरीतात्मको यदि कर्मसंक्रमः स्यात्परकृ तस्य / परकृतकर्मणि उ०) अत्तकम्म-न०(आत्मकर्मन्) 6 तक। स्वदुश्चरिते, "निचुब्विग्गो जहा तेणो, अत्तकम्मेहिं दुम्मई" / दश०५ अ०२ उ०। आत्मा अष्टप्रकारकर्मणाऽऽयतकरणकारणामोदनादिभिर्लिप्यते तदा-त्मकर्म / दर्श०। यत्पाचकादि सम्बन्धि कर्म पाकादिलक्षणं, ज्ञानावरणीयादिलक्षणं वा, तदात्मनः सम्बन्धि क्रियतेऽनेने-त्यात्मकर्म / बृ०४ उ०। आधाकर्मशब्दार्थे, पिं० / निक्षेपोऽस्य-तदेवमुक्तमात्मनं नाम / सम्प्रत्यात्मकर्मनाम्नोऽवसरः / तदपि चात्मकर्म चतुर्दा / तद्यथानामात्मकर्म, स्थापनाऽऽत्मकर्म, द्रव्यात्मकर्म, भावात्मकर्म वा / इदं चाधाकर्मैव तावद्भावनीयम्, यावन्नोआगमतो भव्यशरीरं द्रव्यात्मकर्म। ज्ञशरीरभव्यशरीव्यतिरिक्तं तु द्रव्यात्मकर्म प्रतिपादयतिदव्वम्मि अत्तकम्म, जं जो उममायए भवे दव्वं / यः पुरुषो यद्रव्यादिकं द्रव्यं ममायते- ममेति प्रतिपद्यते। तन्ममेति प्रतिपादनं, तस्य पुरुषस्य (दव्वम्मि अत्तकम्म ति) ज्ञ