________________ अतीरंगम 499 - अभिधानराजेन्द्रः - भाग 1 आप्त अपि तीरं गन्तुमलम्, सर्वज्ञोपदिष्टसन्मार्गाभावादिति भावः / तथा (अपारंगमा इत्यादि) पारस्तटः, परकूलं, तद्गच्छन्तीति पारंगमाः, न पारङ्गमा अपारङ्ग माः / (एत इति) पूर्वोक्ताः , पारगतोपदेशाभावादपारंगता इति भावनीयम् / न च ते पारगतोपदेशमृते पारङ्गमनायोद्यता अपि पारं गन्तुमलम्। अथवा गमनं गमः, पारस्य पारे वा गमः पारगमः / सूत्रे त्वनुस्वारोऽलाक्षणिकः / न पारगमोऽपारगमस्तस्मा अपारगमनाय / असमर्थसमासोऽयम् / तेनयमर्थः - पारगमनाय तेन भवन्तीत्युक्तं भवति। ततश्चानन्तमपि संसारं संसारान्तर्वर्तिन एवासते, यद्यपि पारगमनायोद्यमयन्ति तथापि ते सर्वज्ञोपदेशविकलाः स्वरुचिविरचितशास्त्रवृत्तयो नैव संसारपारं गन्तुमलम्।आचा०१ श्रु०२ अ०३ उ०। अतुच्छभाव-त्रि०(अतुच्छभाव) अकार्पण्ये, पं०व०४ द्वा०।उदराशये, पञ्चा०६ विव० अतुरिय-त्रि०(अत्वरित) स्तिमिते, ध०३ अधिo उत्त०। विपा०। "अतुरियमचवलमसंभताए अविलंबियाए रायहंससरिसीए गईए'। अत्वरितया मानसौत्युक्यरहितया / कल्प०। देहमनश्वापल्यरहितं यथाभवत्येवम्। भ०११ श०११ उ०। रा०ा अतुरियगइ-त्रि०(अत्वरितगति) मायया लोकावर्जनाय मन्द-गामिनि, बृ१ उ० अतुरियभासि(ण)-त्रि०(अत्वरितभाषिन) विवेकभाषिणि, आचा०१ श्रु०२ अ०६ उ०। अतुल-त्रि०(अतुल) तुलामतिक्रान्ते, संथा० / असाधारणे, स०३० सम०ा निरुपमे, प्रश्न०१ आश्र० द्वा० अत्त-त्रि०(आत्त) आ-दा-क्ता गृहीते, उत्त०१७ उ०। करतल-परिगृहीते, ज्ञा०१ अ० भीमो भीमसेन इति न्यायात् आत्तो गृहीतः सूत्रार्थो यैस्ते आत्ताः। गीतार्थेषु, बृ०१ उ०। स्था० *आत्मन्-पुं०1 स्वस्मिन्, उत्त०३२ अ० | जीवे, आचा०१ श्रु० 6 अ०१ उ०। पञ्चा०। स्वभावे, नं०। *आत्र-त्रिका आ अभिविधिनात्रायते दुःखात्संरक्षति सुखं घोत्पादयतीति आत्रः। दुःख सुखसाधके, "णेरइआणं भंते ! किं अत्ता पोग्गला अणत्ता पोग्गलावा?" भ०१४ श०६ उा स्था०। *आप्त-त्रि० / आप्ते, उत्त०१२ अ० अतीव सुष्टुपरिकर्मिते, सू, प्र० 20 पाहु० / चं०प्र०। स्था०। आप्तिर्हि रागद्वेषमोहानामैकान्तिक आत्यन्तिकश्च क्षयः, सा यस्याऽस्ति स आप्तः / अभ्रादित्त्वान्मत्वर्थी योऽप्रत्ययः / स्या० / यथार्थदर्शनादिगुणयुक्ते पुरुष, नं०। दशा० / रागादिविप्रमुक्ते, सूत्र०१ श्रु०६ अ० जी०। अप्रतारके, अप्रतारकश्च (प्रक्षीणदोषः सर्वज्ञः) अशेषदोषक्षयाद् भवतीति। उक्तंच"आगमोह्याप्तवचनमाप्त दोषक्षयाद विदुः / वीतरागोऽनृतं वाक्यं, न ब्रूयात्विसंभवात् ||1|| दश०१ अ०व्य०।। नाणमादीणि अत्ताणि, जेण अत्तो उसो भवे। रागहोसप्पहीणो वा, जे व इटाव सोधिए / / 5 / / ज्ञानादीनि ज्ञानदर्शनचारित्राणि येनाप्तानि स भवत्याप्तः / / ज्ञानादिभिराप्यते स आप्त इति व्युत्पत्त्यन्तरम् / यो वा राग-द्वेषप्रहीणः स आप्तः / यदि वा(इहा) इष्टाः, शोधौ शोधिविषये आप्ताः / / 5 / / व्य०१० उ०॥ आप्तस्वरूपंप्ररूपयन्तिअभिधेयं वस्तु यथावस्थित यो जानीते, यथाज्ञानं चाभिधत्ते स आप्तः | आप्यते प्राप्यते अर्थोऽस्मादित्याप्तः। यद्वा-आप्तिः रागा-दिदोषक्षयः, सा विद्यते यस्येत्यर्श आदित्वादचि आमः | जानन्नपि हि रागादिमान पुमानन्यथाऽपि पदार्थान् कथयेत्, तद्-व्यवच्छित्तये यथाज्ञानमिति। तदुक्तम्- "आगमो ह्याप्तवचनमाप्तिं दोषक्षयं विदुः / क्षीणदोषोऽनृतं वाक्यं, न ब्रूयाद्धेत्वसंभवात्" ||1|| अभिधानंचध्वनेः परम्परयाऽप्यत्र द्रष्टव्यम्। तेनाक्षरविलेखनद्वारेण,अड्कोपदर्शनमुखेन, करपल्लवादिचेष्टाविशेषवशेन वा शब्द-स्मरणाद्यः परोक्षाऽर्थविषयं विज्ञानं परस्योत्पादयति, सोऽप्याप्त इत्युक्तं भवति / स च स्मर्यमाणः शब्दः आगम इति // 4|| कस्मादमूदृशस्यैवाप्तत्वमित्याहुः - तस्य हि वचनमविसंवादि भवति॥५॥ यो हि यथावस्थिताभिधेयवादी परिज्ञानानुसारेण तदुपदेश-कुशलश्व भवति, तस्यैव यस्माद्वचनं विसंवादशून्यं संजायते / मूढवञ्चकवचने विसंवादसंदर्शनात् / ततो यो यस्यावञ्चकः स तस्याप्त इति ऋष्यार्यम्लेच्छसाधारणं वृद्धानामाप्तलक्षणमनूदितं भवति // 5 // आतभेदौ दर्शयन्तिसच द्वेधा-लौकिको,लोकोत्तरश्च / / 6 / / लोके सामान्यजनरूपे भवो लौकिकः / लोकादुत्तरः प्रधानमोक्षमार्गोपदेशकत्वाल्लोकोत्तरः॥६|| तावेव वदन्तिलौकिको जनकादिर्लोकोत्तरस्तु तीर्थकरादिः // 7 // प्रथमाऽऽदिशब्देन जनन्यादिग्रहः / द्वितीयाऽऽदिशब्देन तु गणधरादिग्रहणम्॥७।। रत्ना०४ परि०। न च वाच्यमाप्तः क्षीणसर्वदोषः, तथाविधं चाप्तत्वं कस्यापि नास्तीति। यतो रागादयः कस्यचिदत्यन्तमुच्छिद्यन्ते, अस्मदादिषु तदुच्छेदप्रकर्षापकर्षोपलम्भात्, सूर्याद्यावारकजलदपटलवत् / तथाचाहुः - "देशतोनाशिनोभावाः, दृष्टा निखिलनश्वराः। मेघपत्यादयो यद् वद्, एवं रागादयो मताः" // 1 // इति / यस्य च निरवयवतयैते विलीनाः स एवाप्तो भगवान् सर्वज्ञः अथाना-दित्वाद्रागादीनां कथं प्रक्षय इति चेत् ? न / उपायतस्तद्भावात्, अनादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिना विलयोपलम्भात् / तद्वदेवानादीनामपि रागादिदोषाणां प्रतिपक्षभूतरत्नत्रयाभ्यासेन विलयोपपत्तेः, क्षीणदोषस्य च केवलज्ञानाव्यभिचारात् सर्वज्ञत्वम्। तत्सिद्धिस्तुज्ञानतारतम्यं क्वचिद्विश्रान्तं, तारतम्यत्वात्, आकाशपरिमाणतारतम्यवत्। तथासूक्ष्मान्तरितदूरार्थाः, कस्यचित्प्रत्यक्षाः, अनुमेयत्वात्, क्षितिधरकन्धराधिकरण-धूमध्वजवत् / एवं चन्द्रसूर्योपरागादि सूचकज्योतिर्ज्ञानाविसंवादा-न्यथाऽनुपपत्तिप्रभृतयोऽपि हेतवो। वाच्याः / स्था०। सूत्र०ा साधूनां शोधिविषये इष्ट प्रायश्चित्तदे, व्य०१० उ०। मोक्षे सूत्र०१ श्रु०१० अ०। एकान्तहिते, त्रि० भ०१४ श०६ उ०| माण