SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ अणेसि 496 - अभिधानराजेन्द्रः - भाग 1 अण्हयभावणा अणेसि (ण)-त्रि०(अन्वेषिन) अन्वेष्टु शीलमस्येति अन्वेषी। मार्गणा शीले, आचा०श्रु०२ अ०६ उ०। अणोणंतरिअंगुलिअ-त्रि०(अन्योन्यान्तरितागुलिक) अन्योन्यं परस्परमन्तरिता अगुलयो ययोस्तावन्योऽन्यान्तरितागुलयः / दर्श० / अव्यवहितकरशाखाकेषु, पञ्चा०३ विव०। अण्णोण्णकार-पुं०(अन्योन्यकार) परस्परं वैयावृत्त्यकरणे, बृ०३ उ०। अण्णोणगमण-त्रि०(अन्योन्यगमन) परस्पराभिगमनीये, प्रश्न०२ संवन्द्वा०। अण्णोण्णजणिय-त्रि०(अन्योन्यजनित) परस्परकृते, "अण्णोण्णजणियं च होज्ज हासं, अण्णोण्णगमणं च होज कम्म" / प्रश्न०२ संव० द्वारा अण्णोण्णपक्खपडिवक्खभाव-पुं०(अन्योन्यपक्षप्रतिपक्षभाव) अन्योन्यं परस्परं यः पक्षप्रतिपक्षभावः पक्षप्रतिपक्षत्वमन्योन्यपक्षप्रतिपक्षभावः / परस्परं पक्षविरोधे, तथाहि- य एव मीमांसकानां नित्यः शब्दः इति पक्षः, स एव सौगतानां प्रतिपक्षः, तन्मते शब्दस्यानित्यत्वात् / य एव सौगतानामनित्यः शब्द इति पक्षः स एव मीमांसकानां प्रतिपक्षः / एवं सर्वयोगेषु योज्यम्। स्या०। अण्णोण्णपग्गहियत्त-न०(अन्योन्यप्रगृहीतत्व) परस्परेण पदानां वाक्यानां वा सापेक्षतायाम्, स०३५ सम०। सप्तदशे सत्यवचनातिशये, रा०। अण्णो ण्णमूढदुट्ठातिकरण-न०(अन्योन्यमूढदुष्टातिकरण) अन्योन्यस्य मूढस्य दुष्टस्य च यदतिकरणं तथाविधक्रियासु पौनः पुन्यप्रवृत्तिस्तत्तथा, ततोऽन्योन्यमूढदुष्टातिकरणम्।परस्परं मूढदुष्टयोः क्रियासु प्रवर्त्तने, तत्राऽन्योऽन्यस्यातिकरणं परस्परेण पुरुषयोर्वेदविकारकरणं मूढातिकरणं पञ्चमनिद्रावशविवर्तनम् / दुष्टातिकरणं तु द्विविधम्-कषायतो विषयतश्च / तत्र स्वपक्षे कषायतो लिङ्गिघातः / विषयतस्तु लिङ्गिनि प्रतिसेवा / परपक्षे तु कषायतो राजवधः, विषयतस्तु राजदारसेवेति / अथवा "अन्योऽन्यमूढदुष्टादिकरणतः" इति व्याख्येयम् / तत्र चादिशब्दातीर्थकराद्याशातनाकरणपरिग्रहः / अस्माद् विषयपाराञ्चिकं भवति / पञ्चा०१६ विव० अण्णोण्णसमणु बद्ध-त्रि०(अन्योन्यसमनुबद्ध) परस्परानुगते, ''अण्णोण्णसमणुबद्धं, णिच्छयतो भणियविसयं तु / पञ्चा० 6 विव०। अण्णोण्णसमणुरत्त-त्रि०(अन्योन्यसमनुरक्त) परस्परं सख्यौ, बृ०६ उ०। अण्णोण्णसमाधि-पुं०(अन्योन्यसमाधि) परस्परं समाधौ, "अण्णोण्णसमाहीए एवं वणं विहरंति" यो यस्य गच्छान्तर्गतादेः समाधिरभिहितस्तद्यथा सप्तापि गच्छवासिना, गच्छनिर्गताना द्रयो रग्रहः, पञ्चसु अभिग्रहः, इत्यनेन विहरन्ति / आचा०२ श्रु०१ अ०११ उ० अण्णोवएस-पुं०(अन्योपदेश) आहरणतद्देशाख्योदाहरणभेदे, अन्नोवएसओ ना-हियवाई जेसिँ नत्थि जीवो उ। दाणाइफलं तेसिं,न विजई चउह तद्दोसं // 76| अन्योपदेशतः अन्योपदेशेन नास्तिकवादी लोकायतो वक्तव्यः इति शेषः / अहो ! धिक्ष्ट, कयेषां वादिनां नास्तिजीव एव न विद्यते आत्मैव, दानादिफलं या तेषां न विद्यते, दानहोमयागतपःसमा-ध्यादिफलं स्वर्गापवर्गादि तेषांवादिनांन विद्यते, नास्तीत्यर्थः। कदाचिदेतत् श्रुत्वैवं ब्रूयुर्मा भवतु, का नो हानिः ? न ह्यभ्युपगमा एव बाधायै भवन्तीति / ततश्च सत्त्ववैचित्र्यान्यथाऽनुपपत्तितस्ते संप्रतिपत्तिमानेतव्याः, इत्यलं विस्तरेण / गमनिकामात्रमेतदु-दाहरणदेशना चरणकरणानुयोगानुसारेण भावनीयेति / गतं निश्राद्वारम्। दश०१ अ०॥ अण्णोसरिअ-(देशी) अतिक्रान्ते, दे०ना०१ वर्ग। अण्ह-धा०(भुज) पालनाऽभ्यवहारयोः / रुधादि० पालने / प० स० अनिट् / अभ्यवहारे भोजने, आत्म० स० अनिट् / प्राकृते-"भुजो भुञ्ज-जिम-जेम-कम्माऽण्ह-समाण-चमढ-चड्डाः" |8|4110 / इति भुजेरण्हाऽऽदेशः। अण्हइ-भुङ्क्ते। प्रा०! अण्हयंती-स्त्री०(भुजाना) भोजनं कुर्वत्याम्, तं०। औ०। अण्हय-पुं०(आश्रव) आशृणोत्यादत्ते कर्म यैस्ते आश्रवाः / पा०। अभिविधिना श्रौति श्रवति कर्म येभ्यस्ते आश्रवाः / कर्मोपादान-भूतेषु प्राणातिपातादिषु पञ्चसु, प्रश्न०१ आश्र० द्वा०। (आश्रव-वक्तव्यता प्रश्नव्याकरणेषु आदावेव कृता, सा च प्राणातिपातादिषु शब्देष्वेव दृश्या) "जंबू ! इणमो अण्हय-संवरविणिच्छियं पवयणस्स / णिस्संदं वोच्छामी, णिच्छयत्थं सुभासियत्थं महे सीहिं'' ||1|| प्रश्न० 2 आश्र०द्वा० स्था०। उत्त० "पंचविहो पन्नत्तो, जिणेहि इह अण्हयो अणादीवो / हिंसा 1 मोस२ मदिन्नं 3, अबंभ 4 परिगह चेव 5 // 1 // प्रश्न०१ आश्र०द्वा०। अण्हयकर-पुं०(आश्रवकर) आश्रवः कर्मोपादानं, तत्करणशील आश्रवकरः। प्राणातिपाताद्याश्रवजनकेऽप्रशस्तमनोविनयभेदे, स्था०७ ठा०। अशुभकर्माश्रवकारिणि, ग०१ अधि० औ०। आचा०। अण्हयभावणा-स्त्री०(आश्रवभावना) सप्तम्यां भावनायाम्, अथाश्रवभावना"मनोवचोवपुर्योगाः, कर्म येनाशुभं शुभम्। भविनामाश्रवन्त्येते, प्रोक्तास्तेनाश्रवा जिनैः / / 1 / / मैत्र्या सर्वेषु सत्त्वेषु, प्रमोदेन गुणाधिके। मध्यस्थेष्वविनीतेषु, कृपया दुःखितेषु च।।२।। तंतथा वासितं स्वान्तं, कस्यचित्पुण्यशालिनः। विदधाति शुभं कर्म, द्विचत्वारिंशदात्मकम् // 3 // रौद्रार्तध्यानमिथ्यात्व-कषायविषयैर्मनः। आक्रान्तमशुभं कर्म, विदधाति द्वयशीतिधा / / 4 / / सर्वज्ञगुरुसिद्वान्त-संघसद्गुणवर्णनम्। कृतं हितं च वचनं, कर्म संचिनुते शुभम्।।!। श्रीसङ्घगुरुसर्वज्ञ-धर्मधार्मिकदूषकम्। उन्मार्गदेशवचनमशुभं कर्म चेष्यति॥६॥ देवार्चनगुरूपास्ति-साधुविश्रामणादिकम्। वितन्वतां सुगुप्ता च, तनुर्वितनुते शुभम् // 7 //
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy