________________ अण्णायया 494 - अभिषानराजेन्द्रः - भाग 1 अण्णारंभणिवित्ति इत्यन्यादत्तहरः। ग्रामनगरादिषु चौर्यकृति, उत्त०७ अ०। अण्णा (ना)दि (रि)स-त्रि०(अन्यादृश) अन्येव दृश्यते। अन्य-दृशकज, आत्वम्। "दृशेः क्विप्टक्सकः"1८1१1१४२॥ इति ऋतो रिः। अन्यसदृशे, प्रा०। अण्णाय-त्रि०(अन्याय्य)न्यायादपेते, सूत्र०१ श्रु०१३ अ०। अण्णायभासि(ण)-त्रि०(अन्याय्यभाषिन) अन्याय्यं भाषितुं शीलमस्य सोऽन्याय्यभाषी। यत्किञ्चन भाषिणि, अस्थान-भाषिणि, गुर्वाद्यधिक्षेपकरे च। "जे विग्गहीए अण्णायभासी, न से समे होइ अझंझपत्ते"। सूत्र०१ श्रु०१३ अ०॥ अण्णायया-स्त्री०(अज्ञातता) तपसो यशःपूजाऽऽद्यर्थित्वेनाप्रकाशयद्भिः करणे, स०३२ सम०। कोऽर्थः? पूर्व परीष-हसमर्थानां यदुपधानं क्रियते, तद्यथा लोको न जानाति तथा कर्तव्यम्, विज्ञातं वा कृतं न नयेत्, प्रच्छन्नं वा कृतं नयेत्। आव०४ अ०| अज्ञातद्वारमाहकोसंबि अजिअसेणो, धम्मवसूधम्मघोस-धम्मजसो। विगयभया-विणयवई, इड्डिविभूसाइ परिकम्मे / / 1 / / कौशाम्बीत्यस्ति पूस्तत्राजितसेनो महीपतिः। धारिणीत्यभिधा देवी, तत्र धर्मवसुर्गुरुः॥१॥ धर्मघोषो धर्मयशास्तस्यान्तेवासिनावुभौ। आसीद्विनयवत्याख्या, तत्र तेषां महत्तरा // 2 // तच्छिष्या विगतभया, विदधेऽनशनं तपः। महाप्रभावनापूर्व, सङ्घस्तां निरयामयत् // 3 // तौ च धर्मवसोः शिष्यौ, कुरुतः परिकर्मणाम्। इतश्चउजेणिऽवंतिबद्धण, पालय सुरट्ठवद्धणो चेव। धारिणीऽवंतिसेसो, मणिप्पभो वच्छगातीरे / / 1 / / उज्जयिन्यस्ति पूर्भूभृत, प्रद्योतस्तत्सुतावुभौ। आद्यः पालकनामाऽभूल्लघुर्गोपालकः पुनः॥४॥ गोपालकः प्रवव्राज, पालको राज्यमासदत्। अवन्तिवर्धनो राष्ट्र-वर्द्धनश्चेति तत्सुतौ / / 5 / / तौ राज-युवराजौ च, कृत्वाऽभूत्पालको व्रती। धारिणीकुक्षिजोऽवन्तिसेनोऽभूद् युवराजसूः / / 6 / / भूभुजाऽन्येधुरुद्याने, स्वेच्छस्थाऽदर्शिधारिणी। ऊचे दूत्याऽनुरक्तस्तां, सा नैच्छदशमीलिता / / 7 / / यथा भावेन साऽवोचन्न भ्रातुरपिलबसे? ततोऽसौ मारितस्तेन, स्वशीलं साऽथ रक्षितुम् / / 8 / / ययौ सार्थेन कौशाम्बी-मात्तस्वाभरणोचया। भूभुजो यानशालायां, स्थिताः साध्वीनिरीक्ष्य सा II वन्दित्वा श्राविका साऽभूत्, क्रमाञ्च व्रतमग्रहीत्। गर्भ न सन्तमप्याख्यद्, व्रतलोभभयात्पुनः / / 10 / / ज्ञातो महत्तरायाः स्वः, सद्भावोऽथ निवेदितः। सुगुप्तं स्थापिता साऽथ, रात्रौ पुत्रमजीजनत् / / 11 / / स्वमुद्राभरणाद्यैस्तं, तदैवाभूष्य भूपतेः। सौधाङ्गणे स्थापयित्वा, प्रच्छन्ना स्वयमस्थित // 12|| पार्थिवोऽजितसेनस्तं, दृष्टयाऽऽकाशतलस्थितः। गृहीत्वाऽदात्पट्टराज्ञया, असुतायाः सुतं जयात्॥१३॥ पृष्टा साध्वीभिराख्यत्सा, मृतोऽजन्युज्झितस्ततः। पट्टराज्ञया समं चक्रे, साऽथ सख्यं गताऽऽगतैः।।१४।। मणिप्रभारख्यस्तत्सूनुम॒ते राज्ञयभवन्नृपः। साध्व्याः स चातिभक्तोऽस्या, राजा चावन्तिवर्धनः / / 15 / / भाताऽमारिन साऽथाऽभूत, पश्चात्तापेन पीडितः। राज्यं भातृसुतेऽवन्ति-सेने न्यस्याग्रही व्रतम्॥१६॥ सा कौशाम्बीनृपाद्दण्डमयाचन्न स दत्तवान्। धर्मघोषस्तयोरेकः, प्रपेदेऽनशनं यतिः।।१७।। भूयान्ममापि विगतभयाया इव सत्कृतिः। द्वैतीयीकस्तु कौशाम्बीमवन्तीं चान्तरा गिरौ।।१८|| गुहायां वत्सकातीरे निरीहोऽनशनं व्यधात्। इतश्चागत्य कौशाम्बी, रुरोधावन्तिसेनराट्।।१६।। धर्मघोषान्तिके नागाद्, भयत्रस्तस्ततो जनः। स च चिन्तितमप्राप्तो, मृतो द्वारेण निर्गतः // 20 // न लभ्यते ततः क्षिप्तो, द्वारोपरितलेन सः। साऽथ प्रद्रजिता, दध्यौ, मा भूद्युद्धे जनक्षयः / / 21 / / ततश्चान्तःपुरे गत्वाऽवोचन्मणिप्रभ रहः। भ्रात्रा सह कथं योत्स्ये, सोऽवक् कथमिदं ततः?॥२२॥ सर्वं प्रबन्धमाचख्यौ, पृच्छाऽम्बां प्रत्ययो न चेत्। पृष्टाऽम्बाऽऽख्यत्कथावृत्तं, नाममुद्रामदर्शयत् // 23 // राष्ट्रवर्द्धनसत्कानि, सर्वाण्याभरणानि च। अथोचे प्रसरदलज्जे, सोचे तं सोऽपि भोत्स्यते॥२४॥ इत्युक्त्वा सा विनिर्गत्याऽवन्तिसेनदलेऽगमत्। उपलक्ष्य जनाः सर्वेऽवन्तिसेननृपस्य ताम्।।२५।। आख्यन्निहागताऽम्बा ते, हृष्टोऽपश्यन्ननाम ताम्। मातः कथमिदं चक्रे, सर्व तस्याप्यचीकथत्॥२६।। तेदष तव सोदर्यो, मिलितौ तावथो मिथः। स्थित्वैकमासं कौशाम्ब्यां, द्वावप्युज्जयिनीं गतौ // 27|| निन्ये सगुरुकाऽम्बाऽपि, वत्सकातीरपर्वते। तत्रारोहावरोहांस्ते, कुर्वतो वीक्ष्य संयतान्॥२८|| दृष्ट्वा तेऽप्यगमन्नन्तुं, नृपौ नत्वा मुनि मुदा। चक्रतुविपि स्थित्वा, महिमानं जनैः सह // 26 // एवं तस्याजनि श्रेष्ठाऽनिच्छतोऽपि हि सत्कृतिः। द्वितीयस्येच्छतोऽप्यासीन्न सत्कारलवोऽपि हि ||30|| ततो धर्मयशोवन्निरीहं तपः कार्यम्।आ०क०। अण्णायवइविवेग-पुं०(अज्ञातवाग्विवेक) शुद्धाशुद्धयोग्याऽयोग्यविषयत्वादिरूपो यैस्ते। वाग्विवेकमज्ञातवत्सु, द्वा०1 "अज्ञातवाग-विवेकानां, पण्डितत्वाभिमानिनाम। विषयं वर्तते वाचि, मुखेनाशीविषस्य तत्" / द्वा०२ द्वा०। अण्णायसील-त्रि०(अज्ञातशील) पण्डितैरप्यज्ञातस्वभावे, अब्रह्मशीले च। "ताणं अण्णायसीलाणं (नारीणं)" तासां नारीणामज्ञातशीलानां पण्डितैरप्यज्ञातस्वभावानाम्। यद्वा-नज्ञातं नाङ्गीकृतं शीलं ब्रह्मस्वरूपं याभिस्ता अज्ञातशीलास्तासाम् / यद्वा-नञः कुत्सार्थत्वात् कुत्सितं ज्ञातं शीलं साध्वीनां याभिः परिग्राजिकायो गिन्यादिभिस्ता अज्ञातशीलास्तासाम्। तं०। अण्णारंभणिवित्ति-स्त्री०(अन्यारम्भनिवृत्ति) कृष्याद्यारम्भत्यागे, "अण्णारंभणिवित्तीए, अप्पणा हिद्वणं चेव'' / पञ्चा०७ विव०।