________________ अण्णाणिय 493 - अभिधानराजेन्द्रः - भाग 1 अण्णायभासि तदर्थनस्ते किल वय सद्धर्माराधका इत्येवं संधाय प्रव्रज्यायामुद्यताः सन्तः पृथिव्यम्बुवनस्पत्यादिकायोपमर्दैन पचनपाचनादिक्रियासु प्रवृत्ताः सन्तस्तत्तत् स्वयमनुतिष्ठन्ति, अन्येषां चोपदिशन्ति, येनाभिप्रेतावा मोक्षाप्तेर्भश्यन्ति / अथवा तावन्मोक्षाभावस्तमेवं प्रवर्तमाना अधर्म पापमापोरन्। पुनरपि तदूषणाभिधित्सयाऽऽहएवमेगे वियक्काहिं, नो अन्नं पञ्जुवासिया। अप्पणो य वियक्काहिं, अयमंजू हि दुम्मई ||21|| एवं तक्काइ साहिंता, धम्माधम्मे अकोविया। दुक्खं ते नाइतुटुंति, सउणी पंजरं जहा // 22 // सयं सयं पसंसंता, गरहंता परं वयं / जे उ तत्थ विउस्संति, संसारं ते विउस्सिया॥२३|| (एवमित्यादि) एवमनन्तरोक्तया नीत्या एके केचनाऽज्ञानिका वितर्काभिर्मीमांसाभिः स्वोत्प्रेक्षिताभिरसत्कल्पनाभिः, परमन्यमार्हतादिकं ज्ञानवादिनं न पर्युपासते, न सेवन्ते। स्वाव-लेपग्रहग्रस्ता वयमेव तत्त्वज्ञानाभिज्ञानपराः के चिदित्येवं नान्यं पर्युपासते इति / तथाऽऽत्मीयैर्विकल्पैरेवमभ्युपगतवन्तो यथा-ऽयमेवास्मदीयोऽज्ञानमेव श्रेय इत्येवमात्मको मार्गः / (अंजूरिति) निर्दोषत्वाद् व्यक्तः स्पष्टः परैस्तिरस्कर्तुमशक्यः, ऋजुर्वा-प्रगुणोऽकुटिलः, यथावस्थितार्थाभिधायित्वात्। किमिति एवमभिदधति ? हिर्यस्मादर्थे / यस्मात् ते दुर्मतयो विपर्यस्तबुद्धय इत्यर्थः / / 21 / / सांप्रतमज्ञानवादिना स्पष्टमेवाऽनाभिधित्सयाऽऽह-(एवं तक्काइ इत्यादि) एवं पूर्वोक्तन्यायेन तर्कया स्वकीयविकल्पनया साधयन्तः प्रतिपादयन्तोधर्मे क्षान्त्यादिकेऽधर्मे चजीवोपमर्दापादिते पापेऽकोविदा अनिपुणादुःखमसातोदयलक्षणं तद्धेतुंवा, मिथ्यात्वाद्युपचितकर्मबन्धनं नातित्रोटयन्ति, अति-शयेनैतद् व्यवस्थितम् / तथा ते न त्रोटयन्त्यपनयन्तीति। अत्र दृष्टान्तमाह-यथा पञ्जरस्थः शकुनिः पञ्जरं बोटयितुं पञ्जरबन्धादात्मानं मोचयितुं नालम्, एवमसावपि संसारपञ्जरादात्मानं मोचयितुं नालमिति / / 22 / / अधुना सामान्येनैकान्तवादिमतदूषणार्थमाह-(सयं सय-मित्यादि) स्वकं स्वकमात्मीयं च दर्शनमभ्युपगतं प्रशंसन्तो वर्णयन्तः समर्थयन्तो वा, तथा गर्हमाणा निन्दन्तः परकीयां वाचम् / तथाहि- सांख्याः सर्वस्याविर्भावतिरोभाववादिनः, सर्व वस्तु क्षणिकं निरन्वयं निरीश्वरं वेत्यादिवादिनो बौद्धान् दूषयन्ति / तेऽपि नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरहात् सांख्यान् / एवमन्येऽपि द्रष्टव्या इति / तदेवं य एकान्तवादिनः। तुरवधारणे भिन्नक्रमश्च / तत्रैव तेष्वेवाऽत्मीयात्मीयेषु दर्शनेषु प्रशंसां कुर्वाणाः परवाचं च विगर्हमाणा विद्वस्यन्ते विद्वांस इवाऽऽचरन्ति / तेषु वा विशेषेणोशन्ति स्वशास्त्रविषये विशिष्टं युक्तिवातं वदन्ति / ते चैवंवादिनः संसारं चतुर्गतिभेदेन संसृतिरूपं विविधमनेकप्रकारमुत्प्राबल्येन श्रिताः संबद्धाः, तत्र वा संसारे उषिताः संसारान्तर्वर्तिनः सर्वदा भवन्तीत्यर्थः।।२३।। सूत्र०१ श्रु०१अ०२ उ०। अण्णाणियवाइ(ण)-पुं०(अज्ञानिकवादिन्) अज्ञानमभ्यु-पगमद्वारेण येषामस्ति तेऽज्ञानिकास्त एव वादिनोऽज्ञानिक वादिनाः / अज्ञानमेव श्रेय इत्येवं प्रतिज्ञेषु, स्था०४ ठा०४ उ०। सूत्र०। अण्णात (य)-त्रि०(अज्ञात) अनधिगते सम्यगनवधारिते, ध० 3 अधि० / अनुमानेनाऽविषयीकृते, ।भ०३ श०६ उ०। स्वयं स्वजनादिसंबन्धाऽकथनेन गृहस्थैरपरिज्ञातस्वभावादिभावे भिक्षौ, प्रश्न०१ संव० द्वा०। यत्र ग्रामादौ प्रतिमा प्रतिपन्ना, तयाऽविदिते, प्रव०६७ द्वा०। जातिकुलसद्रव्यादिनाऽपरीक्षिते, उत्त०२ अ०1 राजा दिप्रव्रजितत्वेनाविदितस्य भैक्ष्ये, पञ्चा० 17 विव०।"अण्णायंणाम जहा, अचित्तकरो चित्तं काऊण ण जाणति" अज्ञत्वात् अल्पविज्ञानत्वादित्यर्थः / नि०चू०१५ उ० अण्णात (य) उञ्छ-पुं०(अज्ञातोञ्छ) विशुद्धोपकरणग्रहणे, दश० २चू०। परिचयाकरणे, दश० अ०३ उ०। अण्णाओंछं दुविहं, दव्वे भावे य होइ नायव्वं / दव्वुछ णेगविहं, लोगरिसीणं मुणेयव्वं // अज्ञातोञ्छं द्विविधम्। तद्यथा- द्रव्ये भावे चातत्र द्रव्योञ्छमनेकविधं लोकमृषीणां तापसानां ज्ञातव्यम्। तदेवानेकविधंद्रव्योञ्छमाहउक्खल खलए दव्वी, दंडे संडासए य पोत्तीय। आमे पक्के य तहा, दव्वोंछे होइ निक्खेवो // तापसा उञ्छवृत्तयः, उदूखले छटितेषु तन्दुलेषु ये परिशटिताः शालितन्दुलादयस्तान उचित्य रन्धन्ति। (खलए त्ति) खले धान्ये मर्दिते संव्यूढं च यत् परिशटितं तत् उधिन्वन्ति। (दव्वी ति) धान्यराशेर्यदेकया दा उत्पाट्यते तद् गृह्णन्ति / एवमन्यत्रापि प्रतिदिवसं (दंड त्ति) स्वामिनमनुज्ञाप्य यद्धान्यराशेरेकया यष्ट्या उत्पाट्यते तद् गृह्णन्ति, एतदेवमन्यत्रापि प्रतिदिवसं (संडासएत्ति) अड्गुष्ठप्रदेशिनीभ्यां यद् गृह्यते शाल्यादिकं तावन्मानं प्रतिगृहं गृह्णन्ति। यद्यपि बहुकं पश्यन्तिशाल्यादि, तथापि न मुष्टिं भृत्वा गृण्हन्ति (पोत्ती य त्ति) स्वामिनमनुज्ञाप्य धान्यराशौ पोत्तिं क्षिपन्ति, तत्र यत् पोत्तौ लगति, तद् गृह्णन्ति / एवमन्यत्रापि।तथा आमं,पक्वं वा यचरकादयो भिक्षाप्रविष्टा मृगयन्ते, एष भवति द्रव्योज्छे निक्षेपः। संप्रति भावोञ्छमाहपडिमापडिवण्णे एस भयवमज किर एत्तिया दत्ती। आदियति त्ति न नजइ, अन्नाओंछं तवो भणितो।। प्रतिमाप्रतिपन्न एष भगवान् अद्य किल एतावद्दत्तीरादत्ते इति न ज्ञायते, तेन तस्य भगवतस्तपोऽज्ञातोञ्छं भवति। व्य०१० उ०। अण्णात (य)चरय-पुं०(अज्ञातचरक) अज्ञातोऽनुपदर्शित सौजन्यादिभावः संश्वरतियःसतथा। औ०। अज्ञातेषुवा गृहेषु चरतीति अज्ञातः। अज्ञातगृहे वा चरामीत्यभिग्रहवति, सूत्र०२ श्रु०२ अ० अण्णातपिंड-पुं०(अज्ञातपिण्ड) अज्ञातश्चासौ पिण्डश्चाऽज्ञातपिंडः / अन्तप्रान्तरूपे पिण्डे, अज्ञातेभ्यः पिण्डोऽज्ञातपिण्डः / अज्ञातेभ्यः पूर्वाऽपरसंस्तुतेभ्य उञ्छवृत्त्या लब्धे पिण्डे, "अण्णातपिंग हिपासएजा, णो पूयणं तवसा आवहेजा"। सूत्र०१ श्रु०१ अ०१ उ०। अण्णादत्तहर-त्रि०(अन्यादत्तहर) अन्यैरदत्तमनिसृष्टं हरत्यादत्ते