________________ अण्णाणिय ४९२-अभिधानराजेन्द्रः - भाग 1 अण्णाणिय शेषकर्माभावः प्रतिपादितो भवतीत्याह-(अकर्माश इति) न विद्यते कर्माशोऽस्येत्यकर्माशः / स च कर्माशो विशिष्टज्ञानाद् भवति, नाज्ञानादित्येव दर्शयति / एतमर्थ कर्माभावलक्षणं, मृगः अज्ञानी (चुए त्ति) त्यजेत् / विभक्तिविपरिणामेन वा अस्मादेयंभूतादर्थात् च्यवेद् भ्रश्येदिति // 12 // भूयोऽप्यज्ञानवादिनां दोषाभिधित्सयाऽऽहजे एयं नामिजाणंति, मिच्छदिट्टी अणारिया। मिगावापासबद्धा ते, घायमेसंतिऽणंतसो||१३| माहणा समणा एगे, सवे नाणं सयं वए। सव्वलोगे विजे पाणा, न ते जाणंति किंचण ||14|| मिलक्खू अमिलक्खूस्स, जहा वुत्ताऽणुभासए। ण हेउं से विजाणाइ, भासिअं अणुभासए|१५| एवामन्नाणिया नाणं, वयंता वि सयं सयं / निच्छयत्थं न जाणंति, मिलक्खु व्व अबोहिया।।१६|| (जे एयमित्यादि) ये अज्ञानपक्षं समाश्रिता एनं कर्मक्षपणोपायं न जानन्ति। आत्मीयाऽसद्ग्राहाऽऽग्रहास्ता मिथ्यादृष्टयो-ऽनास्तेि मृगा इव पाशबद्धा घातं विनाशमेष्यन्ति यास्य-न्त्यन्वेषयन्ति वा, तद्योग्याक्रियाऽनुष्ठानात् / अनन्तशो विच्छे-देनेत्यज्ञानवादिनो गताः / / 13 / / इदानीमज्ञानवादिनां दूषणो-द्विभावयिषया स्ववाग्यन्त्रिता वादिनो न चलिष्यन्तीति तन्मता-विष्करणायाऽऽह-(माहणा इत्यादि) एके केचन, ब्राह्मण-विशेषाः, तथा श्रमणाः परिव्राजकविशेषाः, सर्वेऽप्येते, ज्ञाय-तेऽनेनेति ज्ञानम् / हेयोपादेयार्थाऽऽविर्भावकं परस्परविरोधेन व्यवस्थितं, स्वकमात्मीयं, वदन्ति। न चतानि ज्ञानानि परस्परविरोधेन प्रवृत्तत्वात्सत्यानि / तस्मादज्ञानमेव श्रेयः, किं ज्ञानपरिकल्पनया इत्येतद्दर्शयति-सर्वस्मिन्नपि लोके, ये प्राणाः प्राणिनः, न ते किंचनापि सम्यगुपेतवाचं जानन्तीति विदन्तीति / / 14 / / यदपि तेषां गुरुपारम्पर्येण ज्ञानमायातं, तदपि छिन्न-मूलत्वादवितर्थन भवतीति दृष्टान्तद्वारेण दर्शयितुमाह- (मिलक्खू अमिलक्खुस्सेत्यादि) यथा म्लेच्छ आर्यभाषाऽनभिज्ञः, अम्लेच्छस्यार्यस्य म्लेच्छभाषाऽनभिज्ञस्य, यद्भाषितं, तदनुभाषते अनुवदति, केवलं न सम्यक् तदभिप्रायं वेत्ति / यथाऽनया विवक्ष-याऽनेन भाषितमिति / न च हेतुं निमित्तं, निश्चयेनासौ म्लेच्छ-स्तद्भाषितस्य जानाति, केवलं परमार्थशून्यं तद्भाषितमेवानुभाषत इति।।१५।। एवं दृष्टान्तं प्रदर्श्य दार्शन्तिकं योजयितुमाह- (एवमित्यादि) यथा म्लेच्छः, अम्लेच्छस्य परमार्थमजानानः केवलं तद्भाषिताननुभाषते, तथा अज्ञानकाः सम्यग्ज्ञानरहिताः श्रमणा ब्राह्मणा वदन्तोऽपि स्वीयं स्वीयं ज्ञानं प्रमाणत्वेन परस्परविरुद्धार्थभाषणात्, निश्चयार्थं न जानन्ति / तथाहि-ते स्वकीयं तीर्थकरं सर्वज्ञत्वेन निर्धार्य तदुपदेशेन क्रियासु प्रवर्तेरन्, न च सर्वज्ञविवक्षा अग्दिर्शनिना ग्रहीतुं शक्यते, "नासर्वज्ञःसर्वं जानातीति'न्यायात्। तथाचोक्तम्-"सर्वज्ञोऽसाविति ह्येत-तत्कालेऽपि बुभुत्सुभिः / तज्ज्ञानज्ञेयविज्ञान-रहितैर्गम्यते कथम्?" ||1|| एवं परचेतो-वृत्तीनां दुरन्वयत्वादुपदेष्टुरपि यथावस्थितविवक्षया ग्रहणाऽसंभवान्निश्चयार्थमजानाना म्लेच्छवदपरोक्तमनुभाषन्त एव। अबोधिका बोधरहिताः, केवलमित्यतो-ऽज्ञानमेव श्रेय इति / एवं यावद्यावज्ज्ञानाभ्युपगमस्तावत्तावद् गुरुतरदोषसंभवः। तथाहि-योऽवगच्छन् पादेन कस्यचित् शिरःस्पृशति, तस्य महानपराधो भवति।यस्त्वनाभोगेन स्पृशति, तस्मैन कश्चिदपराध्यतीत्येवं चाज्ञानमेव प्रधानभावमनुभवति, न तु ज्ञानमिति ||16|| एवमज्ञानवादिमतमनूचेदानी तद्दूषणायाहअन्नाणियाणं वीमंसा, नाणे ण विनियच्छा। अप्पणो य परं नालं, कुतो अन्नाणुसासिउं ? ||17| वणे मूढे जहा जंतू, मूढे णेयाणुगामिए। दो वि एए अकोविया, तिव्वं सोयं नियच्छइ||१८|| अंधो अंधं पहं णितो, दूरमद्धाणं गच्छद। आवजे उप्पहं जंतू, अदुवा पंथाणुगामिए।|१६|| एवमेगे णियायट्ठी, धम्ममाराहगा वयं / अदुवा अहम्ममावज्जे, ण ते सव्वज्जुयं वए / / 20 / / (अन्नाणियाणमित्यादि) न ज्ञानमज्ञानं, तद्विद्यते येषां तेऽज्ञा-निनः। अज्ञानशब्दस्योत्तरपदत्वाद्वा मत्वर्थीयः। यथा गौरखरवदरण्यमिति। यथा तेषामज्ञानिनामज्ञानमेव श्रेयः, इत्येवंवादिनां योऽयं विमर्शः पर्यालोचनात्मकः, मीमासां वा मातुं परिच्छे त्तुमिच्छा सा, अज्ञानेऽज्ञानविषये (ण णियच्छइ) न निश्चयेन यच्छति नावतरति, न युज्यत इति यावत् / तथाहि- यैवंभूता मीमांसा, विमर्शो वा, किमेतज्ज्ञानं सत्यमुताऽसत्यमिति ? यथा अज्ञानमेव श्रेयो, यथा यथा च ज्ञानातिशयस्तथा तथा च दोषातिरेक इति, सोऽयमेवंभूतो विमर्शस्तेषां न बुध्यते / एवंभूतस्य पर्या-लोचनस्य ज्ञानरूपत्वादिति / अपि चतेऽज्ञानवादिन आत्मनोऽपि,परं प्रधानमज्ञानवादमिति, शासितुमुपदेष्टु, नालंन समर्थाः। तेषामज्ञानपक्षसमाश्रयणेनाऽज्ञत्वादिति, कुतः पुनस्ते स्वयमज्ञाः सन्तोऽन्येषां शिष्यत्वेनोपगतानामज्ञानवादमुपदेष्टुमलं समर्था भवेयुरिति ? यदप्युक्तम्-छिन्नमूलत्वात् म्लेच्छानुभाषणवत् सर्वमुपदेशादिकम्। तदप्ययुक्तम् / यतोऽनुभाषणमपि न ज्ञानमृते कर्तु शक्यते। तथा यदप्युक्तम्- परचेतोवृत्तीनां दुरन्वय-त्वादज्ञानमेव श्रेय इति। तदप्यसत्। यतो भवतैवाज्ञानमेव श्रेय इत्येवं परोपदेशदानाभ्युद्यतेन परचेतोवृत्तिज्ञानस्याभ्युपगमः कृत इति / तथाऽन्यैरप्यभ्यधायि"आकारैरिङ्गितैर्गत्या, चेष्टया भाषितेन च / नेत्रवक्त्रविकारैश्च, गृह्यतेऽन्तर्गतं मनः // 17 // तदेवं ते तपस्विनोऽज्ञानिन आत्मनः परेषां च शासने कर्तव्ये यथा न समर्थास्तथा दृष्टान्तद्वारेण दर्शयितुमाह-(वणे इत्यादि)। वनेऽटव्यां, तथा कश्चिन्मूढोजन्तुः प्राणी, दिक्परिच्छेदं कर्तु-मसमर्थः, स एवंभूतो यदा परं मूढमेव नेतारमनुगच्छति, तदा द्वावप्यको विदौ सम्यग्ज्ञानानिपुणौ सन्तौ, तीव्रमसह्यं, स्रोतोगहनं, शोकंवा, नियच्छतो निश्चयेन गच्छतः प्राप्नुतः, अज्ञानावृतत्वात्। एवं तेऽप्यज्ञानवादिन आत्मीयं मार्गशोभनत्वेन निर्धारयन्तः परकीयं वाऽशोभनत्वेन जानानाः स्वयं मूढाः सन्तः परानपि मोहयन्तीति॥१८॥ अस्मिन्नेवार्थे दृष्टान्तान्तरमाह- (अंधो अंधमित्यादि) तथा अन्धः स्वयमपरमन्धं पन्थानं नयन, दूरमध्वानं विवक्षितादध्वनः परतरं गच्छति, तथोत्पथमापद्यते जन्तुरन्धः / अथवा-परं पन्थानमनु-गच्छेन्न विवक्षितमेवाध्वानमनुयायादिति / / 16 / / एवं दृष्टान्तं प्रसाध्य दान्तिकमर्थं दर्शयितुमाह- (एवमेगे नियायट्टि त्ति) / एवमिति पूर्वोक्तोऽर्थोपप्रदर्शने / एवं भावमूढा भावान्धाश्चैके आजीविकादयः, (नियायट्टि त्ति) नयो मोक्षः, सद्धर्मा वा,