________________ अण्णाणिय 490 - अभिवानराजेन्द्रः - भाग 1 अण्णाणिय तदवाप्त्युपायपरिज्ञानम्, उपायमन्तरेण न चोपेयस्य विशिष्टपरिज्ञानस्यावाप्तिरिति / न च ज्ञानं ज्ञेयस्य स्वरूपं परिच्छेत्तुमलम् / तथाहि यत्किमप्युपलभ्यते, तस्यार्वाग्मध्यपरभागैर्भाव्यम् / तत्रार्वाग्भागस्य वोपलब्धेर्नेतरयोः, तेनैव व्यवहितत्वात् / अर्वाग्भागस्यापि भागत्रयकल्पनात् तत्सर्वारातीयभागपरि-कल्पनया परमाणुपर्यवसानता, परमाणोश्च स्वाभाविकविप्रकृष्ट-त्वादग्दिर्शनिना नोपलब्धिरिति। तदेवं सर्वज्ञस्याभावादसर्वज्ञस्य च यथावस्थितवस्तुस्वरूपापरिच्छेदात्सर्ववादिनां च परस्परविरोधेन पदार्थस्वरूपाभ्युपगमात् यथोत्तरपरिज्ञानिनां प्रमादवतां बहुतरदोष- संभवादज्ञानमेव श्रेयः / तथाहि-यद्यज्ञानवान कथञ्चित्पादेन शिरसि हन्यात्, तथापि चित्तशुद्धेर्न तथाविधदोषानुषङ्गी स्यादित्येवमज्ञानिन एवंवादिनः सन्तोऽसंबन्धान चैवंविधां चित्तविप्लुति वितीर्णा इति। तत्रैवंवादिनस्ते अज्ञानिका अकोविदा अनिपुणाः सम्यक् परिज्ञानविकला इत्यवगन्तव्याः / तथाहि-यत्तैरभिहितम्-ज्ञानवादिनः परस्परविरुद्धार्थवादितया न यथार्थवादिन इति तद्भवतु असर्वज्ञप्रणीतागमाभ्युपगमवादिनामयथार्थवादित्वम्। न चाभ्युपगमवादा एव बाधायै प्रकल्प्यन्ते, सर्वज्ञप्रणीतागमाभ्युपगमवादिनां तु न क्यचित्परस्परतो विरोधः, सर्वज्ञत्वाऽन्यथाऽनुपपत्तेरिति / तथाहि-प्रक्षीणाऽशेषाऽऽवरणतया रागद्वेषमोहानामनृतकारणानामभावान्न तद्वाक्यमयथार्थमित्येव तत्प्रणीतागमयतां न विरोधवादित्वमिति। ननु च स्यादेतत्, यदि सर्वज्ञः कश्चित्स्यात्, न चासौ संभवतीत्युक्तं प्राक् / सत्यमुक्तम्, अयुक्तं तूक्तम् / तथाहि- यत्तावदुक्तम्-न चासौ विद्यमानोऽप्युपलक्ष्यतेऽर्वाग्दर्शिभिः। तदयुक्तम् / यतो यद्यपि परचेतोवृत्तीनांदुरन्वयत्वात्सरागा वीतरागाइव चेष्टन्ते, वीतरागाः सरागा इव, इत्यतः प्रत्यक्षेणानुपलब्धिः, तथापि संभवानुमानस्य सद्भावात्तद्बाधकप्रमाणाभावाच तदस्तित्वमनिवार्यम् / संभवानुमान त्विदम्-व्याकरणादिना शास्त्राभ्यासेन संस्क्रियमाणायाः प्रज्ञाया ज्ञानातिशयो ज्ञेयावगमं प्रत्युपलब्धः, तदत्र कश्चित्तथाभूताभ्यासवशात्सर्वज्ञोऽपि स्यादिति / न च तदभावसाधकं प्रमाणमस्ति / तथाहि-न तावदग्दिर्शिभिः प्रत्यक्षेण सर्वज्ञाभावः साधयितुं शक्यः। तस्य हि तज्ज्ञानाज्ञेयविज्ञानशून्यत्वात्। अशून्यत्वाभ्युपगमेच सर्वज्ञत्वाऽऽपत्तिरिति। नाप्यनुमानेन, तदव्यभिचारिलिङ्गा-भावादिति। नाप्युपमानेन सर्वज्ञाभावः साध्यते, तस्य सादृश्यबलेन प्रवृत्तेः / न च सर्वज्ञाभावे साध्ये तादृग्विधं सादृश्यमस्ति, येनासौ सिध्यतीति / नाप्यर्थापत्त्या, तस्याः प्रत्यक्षादिप्रमाणपूर्वकत्वेन प्रवृत्तेः। प्रत्यक्षादीनां च तत्साधकत्वेनाप्रवर्तमानात्। तस्या-प्यप्रवृत्तिः / नाप्यागमेन, तस्य सर्वज्ञसाधकत्वेनापि दर्शनात्। न प्रमाणपञ्चकाभावरूपेणाभावेन सर्वज्ञाभावः सिध्यति / तथाहिसर्वत्र सर्वदा न संभवति, तद्ग्राहकप्रमाणमित्येतदग्दिर्शिनो वक्तुं न युज्यते, तेन हि देशकालविप्रकृष्टानां पुरुषाणां यद्विज्ञानं तस्य ग्रहीतुमशक्यत्वात्, तद्ग्रहणे वा तस्यैव सर्वज्ञत्वाऽऽपत्तेः / न चाग्दिर्शिनां ज्ञानं निवर्तमानं सर्वज्ञाभावं भावयति, तस्याऽव्यापकत्वात् / न चाव्यापकव्यावृत्त्या पदार्थव्यावृत्तियुक्तति / न च वस्त्वन्तरविज्ञानरूपो भावः सर्वज्ञाभावसाधनायालम, वस्त्वन्तरसर्वज्ञयोरेकज्ञानसंसर्गप्रतिबन्धाभावात् / तदेवं सर्वज्ञबाधकप्रमाणाभावात्संभवानुमानस्य च प्रतिपादितत्वादस्ति सर्वज्ञः, तत्प्रणीतागमाभ्युपगमाच मतभेददोषो दूरापास्त इति तथाहि- | तत्प्रणीतागमाभ्युपगमवादिनामेकवाक्यतया शरीरमात्रव्यापी संसायत्मिाऽस्ति, तत्रैव तद्गुणोपलब्धेः। इति इतरे-तराश्रयदोषश्चात्र नावतरत्येव / यतोऽभ्यस्यमानायाः प्रज्ञाया ज्ञानातिशयः स्वात्मन्यपि दृष्टो,नच दृष्टेऽनुपपन्नं नामेति। यदप्यभिहितम्-तद्यथा नच ज्ञानं ज्ञेयस्य स्वरूपं परिच्छेत्तुमलम्, सर्वत्रार्वाग्भावेनेत्यवधानात्सर्वाऽऽरातीयभागस्य च परमाणु-रूपतयाऽतीन्द्रियत्वादित्येतदपि वाङ्मात्रमेव / यतः सर्वज्ञज्ञानस्य देशकालस्वभावव्यवहितानामपि ग्रहणान्नास्ति व्यवधानसंभवः / अग्दिर्शिज्ञानस्याप्यवयवद्वारेणाऽवयविनि प्रवृत्तेर्नास्ति व्यवधानम् / न ह्यवयवी स्वावयवैर्व्यवधीयत इति युक्तिसंगतम् / अपि च-अज्ञानमेव श्रेय इत्यत्राऽज्ञानमिति किमयं पर्युदासः ? आहोस्वित्प्रसज्यप्रतिषेधः ? तत्र यदि ज्ञानादन्यदज्ञानमिति, ततः पर्युदासवृत्त्या ज्ञानान्तरमेव समाश्रितं स्यात्, नाज्ञानवाद इति। अथ ज्ञानं न भवतीत्यज्ञानं, तुच्छो नीरूपोज्ञानाभावः, सच सर्वसामर्थ्यरहित इति कथं श्रेयानिति? अपि च-अज्ञानं श्रेय इति प्रसज्यप्रतिषेधे न ज्ञानं श्रेयो भवतीति क्रियाप्रतिषेध एव कृतः स्यात् / एतचाध्यक्षबाधितम्, यतः सम्यगज्ञानादर्थं परिच्छिद्य प्रवर्त्तमानोऽर्थक्रियार्थी न विसंवाद्यत इति। किञ्च-अज्ञानप्रमादवद्भिः पादेन शिरःस्पर्शनेऽपि स्वल्पदोषवता परिज्ञायैवाज्ञानं श्रेय इत्यभ्युपगम्यते / एवं च सति प्रत्यक्ष एव स्यादभ्युपगमविरोधो नानुमानं प्रमाणमिति / तथा तदेवं सर्वथा तेऽज्ञानवादिनोऽकोविदाधर्मोपदेशं प्रत्यनिपुणाः, स्वतोऽकोविदेभ्य एव स्वशिष्येभ्यः, आहुः कथितवन्तः।छान्दसत्वाच्चैकवचनं सूत्रे कृतमिति। शाक्या अपि प्रायशोऽज्ञानिकाः। अविज्ञोपचितं कर्म बन्धं न यातीत्येवं यतस्तेऽभ्युपगमयन्ति / तथा ये च बालमत्तसुप्तादयोऽस्पष्टविज्ञाना अबन्धका इत्येवमभ्युपगमं कुर्वन्ति, ते सर्वेऽप्यकोविदा द्रष्टव्या इति। तथाऽज्ञानपक्षसमाश्रयणाचाननुविचिन्त्य भाषणान्मृषा ते सदा वदन्ति, अनुविचिन्त्य भाषणं यतो ज्ञाने सति भवति, तत्पूर्वकत्वाच सत्यवादस्यातोज्ञानानभ्युपगमादविचिन्त्य भाषणाभावः, तदभावाच तेषां मृषावादित्वमिति // 2 // सूत्र०१ श्रु०१२ अ०1 इति दर्शितं सदूषणमज्ञानिनां मतम् / अथ क्रियन्तस्ते इति दर्शयति नियुक्तिकृत् - अण्णाणिय सत्तट्ठी साम्प्रतमज्ञानिकानामज्ञानादेव विवक्षितकार्यसिद्धिमिच्छतां ज्ञानं तु सदपि निष्फलम्, बहुदोषत्वाचेत्येवमभ्युपगमवतां सप्तषष्टिरनेनोपायेना वगन्तव्याः -जीवाजीवादीन् नव पदार्थान् परिपाट्या व्यवस्थाप्य तदधोऽमी सप्त भङ्गकाः संस्थाप्याः - सत्, असत्, सदसत, अवक्तव्यम्, सदवक्तव्यम्, असदवक्तव्यम्, सदसदवक्तव्यमिति। अभिलापस्त्वयम् सन् जीवः, को वेत्ति ? किं वा तेन ज्ञातेन ? ||1|| असन् जीवः, को वेत्ति?, किंवा तेन ज्ञातेन? ||2|| सदसन् जीव, को वेत्ति? किं वा तेन ज्ञातेन ? ||3|| अवक्तव्यो जीवः, को वेत्ति ? किं वा तेन ज्ञातेन ? ||4|| सदवक्तव्यो जीवः, को वेत्ति ? किं वा तेन ज्ञातेन? ||5|| असदवक्तव्यो जीवः, को वेत्ति, किंवा तेन ज्ञातेन? ||6|| सदसदवक्तव्यो जीवः, को वेत्ति ? किं वा तेन ज्ञातेन ?||7|| एवमजीवादिष्वपि सप्त भङ्गकाः। सर्वेऽपि मिलितास्त्रिषष्टिः। तथाऽपरेऽमी चत्वारोभङ्गकाः। तद्यथा सती भावोत्पत्तिः, को वेत्ति, किंवा तया ज्ञातया ?||1|| असती भावोत्पत्तिः, को वेत्ति?, किं वा तया ज्ञातया?श सदसती भावोत्पत्तिः, को वेत्ति, किं वा तया ज्ञातया // 3 // अवक्तव्या भावोत्पत्तिः, को वेत्ति ?, किं वा