________________ अण्णाण 488 - अभिवानराजेन्द्रः - भाग 1 अण्णाण जो सक्खं नाभिजाणामि, धम्म कल्लाण पावगं // अर्थः प्रयोजनं, तदभावो निरर्थ, तदेव निरर्थक, तस्मिन् सति विरतो निवृत्तः, कस्मात् ? मिथुनस्य भावः कर्म वा मैथुनमब्रह्म, तस्मात्, आश्रवान्तरविरतावपि यदस्योपादानं तस्यैवाति-गृद्धिहेतुतया दुस्त्यजत्वात् / उक्तं हि - "दुप्परिचया कामा इमे" इत्यादि / सुष्ठ संवृतः सुसंवृतः / इन्द्रियसंवरणेन, यः साक्षादिति परिस्फुटं नाभिजानामि, धर्म वस्तुस्वभावं (कल्लाण त्ति) बिन्दुलोपात्कल्याणं शुभं, पापकं वा तद्विपरीतं चेत्यस्यांगम्य-मानत्वात्। यद्वा-धर्ममाचार, कल्योऽत्यन्तनीरुक्तया मोक्षः / तमानयति प्रापयतीति कल्याणो मुक्तिहेतुः, तं, पापकं वा नरकादिहेतुः / अयमाशयः - यदि विरतौ कश्चिदर्थः सिद्धयेन्नैवं ममाज्ञानं भवेत् / उत्त०३ अ०। "अज्ञानं खलु कष्ट, क्रोधादिभ्योऽपि सर्वपापेभ्यः अर्थ हितमहितंबा, न वेत्ति येनावृतो लोकः" / / 1 / / उत्त०२ अ०। आव०। आचा०दर्श०। "नातः परमहं मन्ये, जगतो दुःखकारणम्, यथाऽज्ञानमहारोगो, दुरन्तः सर्वदेहिनाम्" // 1 // आचा०१७०३ अ०१ उ०1"अजानन् वस्तु, जिज्ञासुन मुह्येत् कर्मदोषिवत् / ज्ञानिनां ज्ञानमन्वीक्ष्य, तथैवेत्यन्यथा नतु" // 1 // आ०म० द्विारा०1"अण्णाणओ रिपू अण्णो, पाणिणं व विज्जति / एत्तो सक्किरियातीए, अणत्था विस्सतो मुहा" ||1|| पं० सू०५ सू०। कदाचित्सामान्यचर्ययैव न फलावाप्तिरत आहतवोवहाणमादाय, पडिमं पडिवज्ज उ। एवं पि विहरओ मे, छउमं न नियट्टइ।। (पाईटीका)। तपो भद्रमहाभद्रादि, उपधानभागमोपचाररूपमाचाम्लादि, आदाय स्वीकृत्य, चरित्वेति यावत् / प्रतिमा मासिक्यादिभिक्षुप्रतिमां, (पडिवज्ज उत्ति) इति प्रतिपद्याङ्गीकृत्य / पठ्यते च"पडिम पडिवनितो ति" प्रतिमा प्रतिपद्यमानस्याभ्युप-गच्छति / एवमपि विशेषचर्ययाऽपि,आस्तां सामान्यचर्ययेत्यपि-शब्दार्थः / विहरतो निष्प्रतिबन्धत्वेनानियतं विचरतः,छादयतीति छद्मज्ञानावरणादिकर्म, न निवर्तते नापैतीति भिक्षुभिर्न चिन्तये-दित्युतरेण संबन्धः / अज्ञानाभावपक्षे तु समस्तशास्त्रार्थनिकषो-पलकल्पतायामपिन दाऽऽध्मातमानसो भवेत्, किन्तु पूर्व-पुरुषसिंहानां विज्ञानातिशयसागरानन्त्यं / श्रुत्वा साम्प्रतं पुरुषाः, कथं स्वबुद्ध्या मदं यान्ति? ||1|| इति परिभावयन् विगलितावलेपः सन्नेवं भावयेत् - "निरद्वयं" सूत्रद्वयम् / अक्षरगमनिका सैव, नवरं (निरद्वयम्मि त्ति) निरर्थकऽपि प्रक्रमात्प्रज्ञावलेपेरतो, मैथुनात्सुसंवृतः सन्निरुद्धात्मा, सत्योऽहं, यः साक्षात्समझ नाभिजानामि, धर्म कल्याणं पापकं वा। अयमभिप्रायः - "जे एणं जाणति, से सव्वं जाणति, जे सव्वं जाणइ, से एगं जाणइ" इत्याछगमात् / छद्मस्थोऽहमेकमपि धर्म वस्तुस्वरूपं न तत्त्वतो वेधि, ततः साक्षाद्भावस्वभावावभासि चेत् न विज्ञानमस्ति, किमतोऽपि मुकुलितवस्तुस्वरूपपरिज्ञानतोऽवले पेनेति भावः / तथा तप उपधानादिभिरप्युपक्रमणहेतुभिरुपक्रमितुमशक्ये छानि दारुणे वैरिणि निष्प्रतिपत्तिकः किल ममाहङ्कारावसर इति सूत्रद्वयार्थः / साम्प्रतमावृत्त्या पुनः सूत्रद्वारमङ्गीकृत्य प्रकृतसूत्रोपक्षिप्तमज्ञानसद्धावे उदाहरणमाह परिवंतो वायणाएँ, गंगाकूलेऽपि घयसगडयाए। संवच्छरेहिँ हिज्जइ, बारसयं असंखयज्झयणं / / (पाईटीका) परितान्तः खिन्नो वाचनया गङ्गाकूलेऽपिता अशकटा याः संवत्सरैरधीते द्वादशभिरसंस्कृताध्ययनमिति गाथाक्षरार्थः / भावार्थस्तु वृद्ध संप्रदायादवसेयः / स चायम्-गङ्गातीरे द्वौ भ्रतरौ वैराग्याद् दी गृहीतवन्तौ, तत्रैको विद्वान जातः, द्वितीयस्तु मूर्खः / यो विद्वान् सोऽनेकशिष्याध्यापनादिना खिन्न एवं चिन्तयति स्म अहो ! धन्योऽयं में भ्राता यः सुखेन तिष्ठति, निद्रादिकमवसरे कुर्वन्नस्ति / अहं तु शिष्याध्यापनादिकष्ट पतितोऽस्मीति चिन्तयन् काव्यमिदं चकारमूर्खत्वं हि सखे ! ममापि रुचितं तस्मिन् यदष्टौ गुणाः, निश्चिन्तो बहुभोजनोऽत्रपमाना नक्तं दिवाशायकः / / कार्याकार्यविचारणान्धबधिरोमानापमाने समः, प्रायेणाऽऽमयंवर्जितो दृढवपुर्मूर्खः सुखं जीवति" ||1 // परं नैवं चिन्तयति स्मनानाशास्त्रसुभाषितामृतरसैः श्रोत्रोत्सवं कुर्वता, येषां यान्ति दिनानि पण्डितजनव्यायामखिन्नात्मनाम्। तेषां जन्मच जीवितंच सफलं तैरेव भूर्भूषिता, शेषैः किं पशुवद्विवेकरहितैर्भूभारभूतैनरैः? // 2 // एवं पण्डितगुणान् अचिन्तयन् मूर्खगुणांश्चासतोऽपि चिन्तयन् ज्ञ नावरणीयं कर्म बद्धवा दिवं गतः / ततः च्युतो भरतक्षेत्रे आभीरपुत्रो जातः / क्रमेण परिणीतः। तस्य पुत्रिका जाता। सा रूपवती। अन्यदा अनेक आभीरा घृतभृतशकटाः कञ्चिन्नगरं प्रति गच्छन्ति स्म, असावपि तत्सार्थे घृतभृतं शकट गृहीत्वा चलितः। मार्ग सापुत्री शकटखेटनं करोति स्म। ततस्तद्रूपव्यामोहितैराभीरपुत्रैः अपथे खेटितानि शकटानि तानि सर्वाणि भग्नानि।तादृशं संसारस्वरूपं दृष्ट्वा संजातवैराग्यः स आभीरः तां पुत्रीमुद्राह्य दीक्षां जग्राह। उत्तराध्ययनयोगोगहनावसरे असंख्ययाऽध्ययनोद्देशे कृते तस्य आभीरभिक्षोनिावरणोदयोजातः, न तदध्ययनमायाति स्म, आचाम्लान्येव करोति, उच्चैः स्वरेण तदध्ययननिर्घोष करोति स्म। एवञ्च कुर्वतस्तस्य द्वादशवर्षप्रान्ते अज्ञानपरीषहं सम्यगधिसहमानस्य केवलज्ञानं समुत्पन्नम् / एवमज्ञानपरीषहे आभीरसाधुकथा। प्रतिपक्षे च भौमद्वारम्। तत्राऽप्येतत्सूत्रसूचित-मुदाहरणम् - इमं च एरिसं तं च, तारिसं पेच्छ केरिसं जायं ? इय भणइ थूलभद्दो, सण्णायघरं गतो संतो॥ (पाईटीका) इदं चेति द्रव्यम्, ईदृशमिति स्तम्भमूलस्थितमतिप्रभूतं च, अतिशयज्ञानित्वेन तस्य हदि विपरिवर्तमानतया द्रव्यस्येदमानिईशः, (तचे ति) तस्याज्ञानतः परिभ्रमणं, तादृशमिति विप्रकृष्टदुर्गदेशान्तरविषयं यस्य, कीदृशं केन सदृशं जातम् ? न केनापि, नहि कश्चिद् गृहे सति द्रव्ये द्रव्यार्थी बहिर्धाम्यतीति भावः / इतीत्येवं भणति स्थूलभद्रः स्वजातिरिव स्वजातिरत्यन्तसुहृद्गृहं गतः सन्निति गाथार्थः। संप्रदायश्चात्र-यस्य च ज्ञानाजीणे स्यात् तेनापि ज्ञानपरीषहो न सोढः / तत्रार्थस्थूलभद्रकथास्थूलभद्रस्वामी विहरन् बालमित्रद्विजगृहं गतः, तत्र तमदृष्ट्वा,