________________ अण्णाण 487- अभिवानराजेन्द्रः - भाग 1 अण्णाण अण्णा(न्ना)इस-त्रि० (अन्यादृश) अन्यादृशशब्दस्य "अन्यादृशोऽन्नाइसावराइसौ"|८|| 413 / इति अपभ्रंशे अन्नाइसेत्यादेशः। प्रकारान्तरतामापे, प्रा० / अण्णाएसि (ण)-पुं० (अज्ञातैषिन्) जातिकुलसद्रव्यनिर्द्रव्यतादिनाऽपरीक्षितोऽज्ञातः, तादृशं गृहस्थमाहाराद्यर्थमेषयतीत्येवंशीलोऽज्ञातैषी / उत्त० 2 अ० / अज्ञातो जातिश्रुतादिभिरेषत्युञ्छति अर्थात् पिण्डादीनि इत्यज्ञातैषी। उत्त०३ अ०। अज्ञातस्तपस्वितादिभिर्गुणैरनवगत एषयते ग्रासादिकं गवेषयतीत्येवंशीलोऽज्ञातैषी / उत्त० 15 अ० / यत्र कुले तस्य साधोस्तपोनियमादिगुणो न ज्ञातस्तत्र एषयते ग्रासादिकं गृहीतुं वाच्छत इत्येवंशीलोऽज्ञातैषी। उत्त०१५ अ०। विशिष्टगुणैरज्ञात एव भिक्षणरते, "अकामकामी अण्णा (ना) एसी परिव्वएस भिक्खू"। उत्त० 15 उ० / अण्णाण-न० (अज्ञान) न ज्ञानमज्ञानम्। सम्यगज्ञानादितरस्मिन् ज्ञाने, आव०॥ अण्णाणं परियाणामि, नाणं उवसंपञ्जाणि। आव० अ०। (नाणे त्ति) ज्ञानिनः सम्यग्दृष्टयः, अज्ञानिनो मिथ्यादृष्टयः आह च"अविसेसियामइचिय, सम्मद्दिहिस्सता मइन्नाणं। मइअन्नाणं मिच्छादिहिस्स सुयं पि एमेव" // 1 // इति / अज्ञानता च मिथ्यादृष्टिबोधस्य, सदसतोरविशेषात् / तथाहि सन्त्यर्था इह, तत्सत्त्वं कथंचिदिति विशेषितव्यं भवति, स्वरूपेणेत्यर्थः / मिथ्या-दृष्टिस्तुमन्यते-सन्त्येवेति, ततश्चापररूपेणापि तेषां सत्त्वप्रसङ्गः। तथा न सन्त्यर्था इह, तदसत्त्वं कथचिदिति विशेषितव्यं भवति, परपरूपेणेत्यर्थः / स तु न सन्त्येवेति मन्यते, तथा च तत्प्रतिषेधक-वचनस्याप्यभावः प्रसज्जीति / अथवा शशविषाणादयो न सन्ती-त्येतत्कथचिदिति विशेषणीयम्, यतस्ते शशमस्तकादि-समवेततयैवन सन्ति, नतुशशश्च विषाणंच, शशस्य वा विषाणं, शृङ्गि पूर्वभवग्रहणापेक्षया शशविषाणम्, तद्रूपतयाऽपि न सन्तीति, तदेव सदसतोः कथञ्चिदित्येतस्य विशेषणस्थानभ्युपगमात्। तस्य ज्ञानमप्ययथार्थत्वेन कुत्सितत्वादज्ञानमेव / आह च 'जह दुव्वयणमवयणं, कुच्छियसीलमसीलमसईए / भन्नइ तन्नाणं पि हु, मिच्छादिट्ठिस्स अन्नाणं" ||1|| इति / तथा मिथ्यादृष्टरध्य-वसायो न ज्ञानम्, भवहेतुत्वात्, मिथ्यात्वादिवत्।तथा यदृच्छोपलब्धेरुन्मत्तवत्तथाज्ञानफलस्य सक्रियालक्षणा-भावादन्धस्यस्वहस्तगतदीपप्रकाशवदिति / आह च - "सदस-दविसेसणाओ, भवहेऊ जहत्थिओवलंभाओ। नाणफला-भावाओ, मिच्छा-दिहिस्स अन्नाणं" ||8|| इति / स्था० 2 ठा० 4 उ० / ध०। आवof "अण्णाणभमंतमच्छपरिहत्थअणिहुतिंदियमहामगरतुरियच-रिय खोखुब्भमाणनचंतचवलचंचलचलंतधुम्मंतजलसमूह" अज्ञानान्येव भ्रमंतो मत्स्याः (परिहत्थं ति) दक्षा यत्र स तथा / अनिभृतान्यनुपशान्तानि यानीन्द्रियाणि तान्येव महामकरास्तेषां यानि त्वरितानि शीघ्राणि चरितानि चेष्टितानि तैः (खोखुब्भमाणे ति) भृशं क्षुभ्यमाणो नृत्यन्निव नृत्यश्च चपलानां मध्ये चञ्चल-श्वास्थिरत्वेन चलंश्च स्थानान्तरगमनेनघूर्णश्च भ्राम्यन्जलसमूहो जलसंघातः, अन्यत्र जडसमूहो यत्र स तथा तं, संसारमिति भावः / औ० / नत्रः कुत्सार्थत्वात् कुत्सितं ज्ञानमज्ञानमिति / अनु०। ज्ञानावरणकर्मोदयजनिते, आव० 4 अ० आत्मपरिणामे, दर्श०। मिथ्यात्वतिमिरोपप्लुतदृष्टीवस्य विपर्यस्ते बोधे, विशे०। उत्त० / अज्ञानमनवबोधः / उत्त०३ अ० / मूढतारूपे, आतु01 ज्ञानाभावे मिथ्यादृष्टिकुतीर्थिकपार्श्वस्थादिसंबन्धिशास्त्रा-वगाहनात्मके, दर्श०। उत्त० / स० / संशयविपर्ययादिरूपे मिथ्याज्ञाने, द्वा० 21 द्वा०। जीवाजीवविवेकरहिते, अष्ट० 22 अष्ट० / सद्बोधाभावे, दर्श० / कुशास्त्रसंस्कारे, औ० / कुत्सितत्वं च मिथ्यात्वसंवलितत्वात्। उक्तं च - "अविसेसिया मइचिय, सम्मद्दिट्ठिस्स ता मइन्नाणं / मइअण्णाणं मिच्छा - दिहिस्स सुयं पिएमेव" 11|| भ०८ श०२ उ०। तच अज्ञानं मिथ्यात्वमिति उच्यतेअन्नाणे तिविहे पण्णत्तो। तंजहा-देसऽण्णाणे, सव्वऽण्णाणे, भावऽण्णाणे। (अन्नाणेत्यादि) ज्ञानं हि द्रव्यपर्यायविषयो बोधः, तन्निषेधो-ऽज्ञानं, तत्र विवक्षितद्रव्यं देशतो यदा न जानाति तदा देशाज्ञानम्, अकारप्रश्लेषात् / यदा च सर्वतो न जानाति तदा सर्वाज्ञानम् / यदा विवक्षितपर्यायतो न जानाति तदा भावाज्ञानमिति / अथवा देशादिज्ञानमपि मिथ्यात्वविशिष्टमज्ञानमेवेति / अकारप्रश्लेषं विनाऽपि नदोष इति। स्था० 3 ठा०३ उ०। अण्णाणे णं भंते! कइविहे पण्णत्ते? गोयमा! तिविहे पण्णत्ते। तं जहा- मइअण्णाणे सुयअण्णाणे विभंगनाणे / से किं तं मइअण्णाणे? मइअण्णाणे चउव्विहे पण्णत्ते / तं जहा-उग्गहे० जाव धारणा / से किं तं उग्गहे ? उग्गहे दुविहे पण्णत्ते / तं जहा- अत्थोग्गहे य वंजणोग्गहे य / एवं जहेव आभिणिबोहियनाणं तहेव, णवरं एगट्ठियवजं. जाव नोइंदियधारणा, सेतं धारणा / सेतं मइअण्णाणे / से किं तं सुयअण्णाणे ? सुयअण्णाणे जं इमं अण्णाणिएहिं मिच्छादिट्ठिएहिं जहा नंदिए जाव चत्तारिय वेदा संवोवंगा। सेतं सुयअण्णाणे / से किं तं विभंगनाणे ? विभंगनाणे अणेगविहे पण्णत्ते / तं जहा- गामसंठिए नगरसंठिए जाव सण्णिवेससंठिए दीवसंठिए समुहसंठिए वाससंठिए वासहरसंठिए पव्वयसंठिए रुक्खसंठिए थूभसंठिए हयसंठिए गयसंठिए नरसंठिए किंनरसंठिए किंपुरिससंठिए महोरगसंठिए गंधव्वसंठिए उसभसंठिए पसुपसयविहगवानरणाणासंठाणसंठिए पण्णत्ते / भ०८ श०२ उ०। मोहविजृम्भणे, सूत्र० 1 श्रु० 1 अ० 3 स० / आचा० / ज्ञायते सुतत्त्वमनेनेति ज्ञानं श्रुताख्यम्, तदभावोऽज्ञानम् / प्रव०५६ द्वा० / अज्ञान-प्रकर्षे गर्वः प्रज्ञाऽभावे दैन्यचिन्तनमित्युभयथा। उत्त०२ अ०। अज्ञानभावाऽभावाभ्यां द्विधा सोढव्ये एकविंशे परीषहभेदे / अज्ञानपरीषहश्व सोढव्य एव,नतु कर्मविपाकजादज्ञानादुद्विजेत।आव० 4 अ०। तदुक्तम् - "विरतस्तपसोपेतः, छद्यस्थोऽहं तथापिचा धर्मादि साक्षान्नैवेक्षे, नैवं स्यात् क्रमकालवित्" ||1|| आव०१ अ०। एतदेव सूत्रकृत् प्रपञ्चयिषुस्तावदभावपक्षमङ्गीकृत्याह - निरहगम्मि विरओ, मेहुणाओ सुसवंडो।